मृद्घटादिदृष्टान्तः

अथ मृत्पिण्डादिघटादिदृष्टान्तानां परिणामानुकूलत्वं वा विवर्त्तानुकूलत्वं वा इति विचार्य्यते ।

तत्र छान्दोग्ये तावत् –
कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ? नैष दोषः, कारणेनानन्यत्वात्कार्यस्य ।
यन्मन्यसे अन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति — सत्यमेवं स्यात् , यद्यन्यत्कारणात्कार्यं स्यात् , न त्वेवमन्यत्कारणात्कार्यम् ।
कथं तर्हीदं लोके — इदं कारणमयमस्य विकार इति ?
शृणु । वाचारम्भणं वागारम्भणं वागालम्बनमित्येतत् ।
कोऽसौ ? विकारो नामधेयं नामैव नामधेयम् , स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति ; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति ॥ (॥६।१।३॥)
इति भाष्यम् ।

अत्र एकविज्ञानेन सर्व्वविज्ञानमुपपादयितुं कार्य्यस्य कारणानन्यत्वमुपपादितम् ।
कारणाभिन्नत्वात् कार्य्यस्य , एकस्य कारणस्य ज्ञानेनैव सर्व्वेषां कार्य्याणां ज्ञानं भवति इति प्रतिज्ञातम् । इदञ्च कार्य्यकारणयोर्भेदव्यवहारेण विरुद्ध्यते इति कथमयं व्यवहारो वेदान्तनये स्यात् इतिशङ्कायां ;
कार्य्यस्य नाममात्रत्वेन वाग्व्यवहारविषयत्वमुक्तं ; न हि कार्य्यस्य कारणभेदेन सत्त्वं तत्रोपयोगि ; तथा च कार्य्यकारणयोरभेदेपि नामभेदेनैव कार्य्यकारणयोर्भेदव्यवहारो जगति भवति इत्युक्तम् । कार्य्यं परमार्थतो मृत्तिकैव = कारणमेवास्ति इति चोक्त्वा एवकारेण कार्य्यस्यापारमार्थिकत्वं सूचितम् ।

इदमप्यत्रावधार्य्यं –
एकविज्ञानेन सर्व्वविज्ञानम् इत्यत्र तृतीया न करणत्वे किन्तु अभेदे । तथा च एकविज्ञानसाध्यं सर्व्वविज्ञानम् इति नार्थः किन्तु एकविज्ञानाभिन्नं सर्व्वविज्ञानम् इति । न हि घटज्ञानेन पटो ज्ञातो भवति , न वा मृत्तिकाया ज्ञानेन घटः इति ।
कथं तर्हि कारणविज्ञानेन सर्व्वविज्ञानम् इतिप्रयोग इति चेत् ।
कार्य्यस्य सर्व्वस्य कारणानन्यत्वात् , कार्य्यतत्त्वे च नामरूपयोर्व्यभिचारेण घटेतिनाम्नः पृथुबुध्नोदराकारादिसंस्थानस्य च आगमापायित्वेन = व्यभिचारित्वेन कारणस्यैव च स्थायित्वेन कारणज्ञानमेव कार्य्यतत्त्वज्ञानम् इतिमत्यैव एकस्य कारणस्य ज्ञानेन तत्कार्य्याणां सर्व्वेषां तत्त्वस्य ज्ञानं भवति इति ।
अत एव –
किमेतेनैकविज्ञानेन सर्व्वविज्ञानम् इत्यत्र मृद्घटदृष्टान्तस्य परिणामत्वविवर्त्तत्वादिविचारेणास्माकं सङ्गणकतारामण्डलघटपटादिविषयकं सर्व्वज्ञानं भविष्यति , न चेत् किमेतया चिन्तया
– इतिप्रलापो निरस्तः । मृद्घटदृष्टान्तस्य परिणामत्वादिविचारेण प्रकरणस्य शुद्धौ किं सर्व्वविज्ञानमत्राभिप्रेतम् इत्यस्य प्रकाशे सर्व्वज्ञानविषयकभ्रान्तेर्नाशस्यापि प्रयोजनत्वात् ।
इदमप्यवधार्य्यं यत् –
कार्य्यं न सर्व्वथा कारणाभिन्नं ; तथात्वे मृदैव जलाहरणादिव्यवहारापत्तेः ।
नापि सर्व्वथा तद्भिन्नं ; तद्विनापि सत्त्वापत्तेः ।
अत एव कार्य्यं कारणाद्भिन्नाभिन्नमेव । अयमेव सम्बन्धः तादात्म्यम् इत्युच्यते ।
इति ।
व्यवहारे हि सर्व्वान्प्रति घटमृदोर्भेदो भासते इति मृदोन्य एव घट इति आरम्भवादिनो वदेयुः । तन्निराकरणायात्र कार्य्यकारणयोस्तादात्म्यस्य घटकोभेदो बोद्ध्यते ।
कार्य्यकारणयोः अभेदे ज्ञातेपि कारणज्ञानमात्रेण न तत्तद्रूपेण तत्कार्य्याणां ज्ञानं सम्भवति इति तादृशमनुपपन्नं सर्व्वज्ञानं त्यक्त्वा कारणज्ञानमेव सकलतत्कार्य्यतत्त्वज्ञानम् इति एकविज्ञानस्य = कारणविज्ञानस्य सर्व्वविज्ञानत्वं पारिभाषिकमत्रोक्तम् इत्यङ्गीकर्त्तव्यम् ।

अत्रेदं विचार्य्यं यत् –
किमत्रैवकारेण सूचितमनृतत्वं अनिर्व्वचनीयत्वापरपर्य्यायं मिथ्यात्वं न वा ।
अस्ति चेत् घटस्य सर्प्पादिवत् अध्यस्तत्वेन किं तदधिष्ठानं स्यात् मृत्तिका वा ब्रह्म वा । मृत्तिका चेत् किं तत्र विवर्त्तकारणत्वलक्षणं सम्भवति न वा । ब्रह्म चेत् तत्र परिणामिकारणत्वं सम्भवति न वा । इति ।
नास्ति चेत् उक्तानृतत्वं कीदृशम् ।
इति ।

नाद्यः , घटवत् मृदोप्यनिर्व्वाच्यत्वेन मृत्तिकायाः सत्यत्वोक्त्यसम्भवात् ।
अत एव मृत्तिकाया अधिष्ठानत्वादिचिन्ता न कार्य्या । केनचिन्मृदो घटाधिष्ठानत्वाङ्गीकारे तज्ज्ञानेन घटानिवृत्तिः , मृदः स्वविषयकज्ञानानपेक्षा च तस्या विवर्त्तकारणत्वं विरुणद्धि । ब्रह्म चेत् घटादेरधिष्ठानं तर्हि सत्यम् इत्युक्तेः सम्भवेपि तदुपस्थापकपदाभावेन समन्वयासम्भवः । इति ।
अत एव अत्र अनृतत्वं न मिथ्यात्वं किन्तु तदतिरेकेणासत्त्वमेव । अथवा – तैत्तिरीयभाष्योक्तरीत्या घटत्वेन निश्चितस्य पदार्थस्य घटरूपव्यभिचारः एव तस्य मिथ्यात्वं = व्यभिचारित्वं ; स च पदार्थो मृत्तिका , सा च घटत्वेन निश्चितापि घटत्वं त्यजति कपालाद्यवस्थायाम् इति घटत्वादिरूपं तस्या अनृतं = व्यभिचारि ; सैव च मृत् मृत्त्वेन निश्चिता न स्वं रूपं त्यजति व्यवहारावस्थायाम् इति मृत्त्वं तस्याः सत्यं रूपम् इति ।

तथैव कारणस्योच्यमानं सत्यत्वमपि किं पारमार्थिकत्वं वा व्यावहारिकत्वं वा प्रातिभासिकत्वं वा इत्यपि चिन्तनीयम् ।
इति ।
न हि मृत्तिका घटाधिकसत्ताका । अत एव पारमार्थिकत्वं न सत्यत्वमत्र । नापि सा घटन्यूनसत्ताका इति न प्रातिभासिकत्वमप्यत्र सत्यत्वम् । नापि व्यावहारिकत्वं सत्यत्वमत्र , सत्यपदेन तद्ग्रहणे तस्य विकारेपि सत्त्वेनानृतत्वोक्तेरसम्भवात् ।
इति ।

इदमत्र द्रष्टव्यं यत्-
कार्य्यस्यैवात्र कारणाभिन्नत्वमुक्तं न तु परिणामस्यैव केवलं न वा विवर्त्तस्यैव वा । उपपद्यते च कारणानन्यत्वं कार्य्यस्योभयत्र कारणसत्तातिरेकेण सत्ताभावात् । न हि रज्जुसत्तातिरेकेण सर्प्पस्यास्ति काचन सत्ता , न वा मृदं विना घटस्य । तथा च इदं प्रकरणं यथा मायोपहितचैतन्यरूपपरिणामिकारणज्ञानेन तत्कार्य्यज्ञानोपपत्तयेलं तथैव शुद्धचैतन्यात्मकविवर्त्तकारणज्ञानेन सर्व्वज्ञानोपपत्तयेपि ।

अथापि मृद्घटदृष्टान्तस्य विवर्त्तानुकूलत्वं वा परिणामानुकूलत्वं वा इतिशङ्का तु तदवस्थैव ।
तत्र यावत् परिणामविवर्त्तयोर्लक्षणे नाभिधीयेते तावत् किं वक्तुं शक्येत इति पञ्चदश्यादावुक्ते ते आदाय विचार्य्यते ।

किञ्च पञ्चदश्यां मृत्कुम्भस्य परिणामदृष्टान्तत्वम् –
अवस्थान्तरतापत्तिरेकस्य परिणामिता ।
स्यात् क्षीरं दधि मृत्कुम्भः सुवर्णं कुण्डलं यथा ॥८॥
अवस्थान्तरभानं तु विवर्तो रज्जुसर्पवत् ।
निरंशेऽप्यस्त्यसौ व्योम्नि तलमालिन्यकल्पनात् ॥९॥
इत्युक्त्वा
अग्रे
मृद्रूपस्यापरित्यागाद्विवर्तत्वं घटे स्थितम् ।
परिणामे पूर्वरूपं त्यजेत्तत्क्षीररूपवत् ।
मृत्सुवर्णे निवर्तेते घटकुण्डलयोर्न हि ॥४७॥
घटे नष्टे न मृद्भावः कपालानामवेक्षणात् ।
मैवं चूर्णेऽस्ति मृद्रूपं स्वर्णरूपं त्वतिस्फुटम् ॥४८॥
क्षीरादौ परिणामोऽस्तु पुनस्तद्भाववर्जनात् ।
एतावता मृदादीनां दृष्टान्तत्वं न हीयते ॥४९॥
इत्यंशेन पूर्व्वरूपनाशाभावेनापि घटादीनां मृदादिविवर्त्तत्वं साधितम् ।
इति पूर्व्वापरविरोधः कथं परिहरणीयः ।

अत्रेदं द्रष्टव्यं यत् अष्टमनवमयोरुक्ते लक्षणे विवर्त्तपरिणामसाधारणे । तथा हि – यस्य कस्यापि या अवस्थान्तरतापत्तियोग्यता सा तस्य परिणामिकारणता , न चात्रावस्थान्तरे वस्तुतत्वं वावस्तुत्वं वा विशेषितम् इति परिणामिविवर्त्तसाधारणता । तथैव अवस्थान्तरभानं विवर्त्त इत्यत्र अवस्थाया भावो वाभावो वा न विवक्षित इति अवस्थासत्त्वेन तज्ज्ञाने सति परिणामानुकूलत्वं तदसत्त्वे तज्ज्ञाने सति विवर्त्तानुकूलत्वम् इति । अत एव तार्किकमतेन सर्व्वकार्य्याणां परिणामत्वमुपपादयितुमेव अष्टमश्लोको न तु वेदान्तनयेन तदुपन्यासः । तथैव सर्व्वकार्य्याणां विवर्त्तत्वमुपपादयितुमेव नवमश्लोको न तु तार्किकादिमतेन तदुपन्यासः इति ।
भवति च तार्किकनये मृद्घटादीनां सर्व्वेषामपि परिणामत्वम् ।
यद्यपि वेदान्तनये सर्व्वेषां कार्य्याणां ब्रह्मविवर्त्तत्वमङ्गीक्रियते न तु मृदादिविवर्त्तत्वं तथापि विद्यारण्यमुनिना कलितेनानेन प्रस्थानान्तरेण सर्व्वेषामेव कार्य्याणां विवर्त्तत्वमुपपादयितुमिदं प्रकरणं रचितम् । भवति च विवर्त्तत्वं घटे स्थितम् इत्याद्यत्रानुकूलम् । घटस्य मृद्विवर्त्तत्वं साधयितुञ्चात्र तस्य तदनुस्यूतत्वमुक्त्वा कारणेनाननुस्यूतानामेव परिणामता , तदनुस्यूतानाञ्च विवर्त्तता इतिलक्षणद्वयं सूचितम् ।
न च अस्मिन्प्रस्थाने सर्व्वेषां कार्य्याणां विवर्त्तत्वे क्षीरादीनां त्यागो नोचितः ; नैव क्रियते तत्रापि दुग्धावयवानामनुगतेः । तर्हि कथं विद्यारण्येन तत्र परिणामत्वमनुमतं ; तुष्यतु दुर्ज्जनन्यायेन इति गृहाण । तथा हि – कारणेन स्वरूपमत्यक्त्वा कार्य्याकारेण यत्र दृश्यते तत्र कार्य्यस्य विवर्त्तत्वं ; यत्र च स्वरूपं त्यक्त्वा तथाभावः तत्र परिणामता इति लक्षणद्वयम् । अत्र लोकानामपि घटादौ मृदो मृत्त्वत्यागस्यास्वीकारात् घटादेर्विवर्त्तता ; दधनि तु क्षीरानुगतेरभानात् परिणामता इति ।
वस्तुतस्तु क्षीरावयवानामेव दध्युपादानता , ते च न नष्टाः इति दध्नोपि तद्विवर्त्तता एव ; जनानां क्षीरानुगत्यभानं तु सूक्ष्मत्वात् , सहजतया पुनःक्षीरावस्थाया अप्राप्तेश्च । तथा हि मृदो घटात्मना परिणामेपि जनानामस्त्येव मृदस्त्यत्रेतिधीः ; न तु तथा दधनि , क्षीरं नष्टम् इति दधि जातम् इत्यस्या एव धियो दर्शनात् । तथैव घटस्य मुद्गराघातादिना कपालादिरूपापत्तिक्रमेण सहजतया मृद्भावापत्तिरपि लोकैरनुभूता ; दध्नस्तु पुनःक्षीरभावापत्तिर्न सहजतया भवति इति तत्र दुग्धं नष्टमेव इति मन्यन्ते जनाः ।
अत एव विद्यारण्येनोक्तायां प्रक्रियायां क्षीरदध्यादयस्सर्व्वेपि विवर्त्ता एव । अत एव उक्तं कारणानुस्यूतिमतां कार्य्याणां विवर्त्तता इतिलक्षणं यत्र कार्य्यस्य पुनः कारणभावापत्तिस्तत्र विवर्त्तता इतिलक्षणञ्च क्षीरदधिमृद्घटरज्जुसर्प्पेषु समानं प्रवर्त्तते तत्प्रक्रियायाम् ।
इदन्त्वन्यत् यत् सिद्धान्ते आरम्भवादस्यास्वीकारेपि परिणामविवर्त्तावङ्गीक्रियेते ; तत्र च कारणविषयकाज्ञानापेक्षस्य कार्य्यस्य विवर्त्तता इति रज्जुसर्प्पादीनामेव रज्जुविवर्त्तता , तदनपेक्षस्य च परिणामता इति क्षीरदधिमृद्घटादीनां परिणामतैव इति ।

अपरं यद् भाष्यं –
सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या, यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते,
यथा वा पिण्डघटादि मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके ।
रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां
घटादिशब्दबुद्धी, तद्वत् सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते —\\
इति तदपि रज्जुसर्प्पदृष्टान्तेन सह मृद्घटस्य गणनात् तयोर्विवर्त्ततत्वे प्रमाणम् इति चेत् ।

न ; परिणामवादिनामपि कारणकार्य्ययोरभेदं वदतां कारणस्य कार्य्येनुगतिं च वदतां मते उक्ताभिधानादेरुपपत्तेः ।
मृदेव घटात्मना परिणता सा च तत्रानुवर्त्तते इति हि परिणामवादेङ्गीकृतेपि कारणव्यतिरेकेण कार्य्यस्य सत्त्वासम्भवेन कारणात्मकत्वं = कारणाभेदः । तथा सति कथं कार्य्यमिदमस्य कारणस्य इतिभेदप्रयोग उपपद्येत इतिशङ्कायां नामरूपप्राधान्येनैव तथाव्यवहारो न तु वस्तुभेदमुपजीव्य इतिसमाधानम् ।
किञ्च घटस्य मृद्विवर्त्तत्वे मृज्ज्ञानेन घटनिवृत्तेरापत्तिवारणाय विद्यारण्याद्युक्तरीत्या सोपाधिकत्वे भेदभ्रमनिवृत्तिमात्रफलकत्वं वाच्यं ; तदपि न सम्भवति , न हि केवलाया मृदो ज्ञानेन घटमृदोर्भेदधीर्निवर्त्तते किन्तु मृदेव कारणं तद्विना च घटो न सम्भवति इतिज्ञानेन अिवनाभावमादाय घटमृदोरभेदोपि सम्भाव्यते , तावदेव । इति विवर्त्तपरत्वं दुष्टम् ।
परिणामत्वपक्षे तु मृद्विज्ञानेन घटनिवृत्त्यापत्तिरपि न इति विशेषः । तथा च कारणव्यतिरेकेणाभावात् कारणसत्तयानुप्राणितत्वात् च कार्य्यतत्त्वं कारणमेव , तत्र घटादिपदव्यवहारस्तु न वस्तुतत्त्वमुपजीव्य किन्तु संस्थानविशेषप्रयुक्तनामादायैव इति वाचारम्भणत्वं = वागालम्बनत्वं कार्य्यस्य ; मृत्तिकायाः सत्यत्वन्तु कार्य्यानुस्यूतत्वेन अव्यभिचारित्वात् ।

इदमपि यद्भाष्यं –
सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते – सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम् , ‘ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमित्यवधारणात् । अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता ; अत इदमुच्यते – ज्ञानं ब्रह्मेति ।
इति तैत्तिरीयोपनिषदि ब्रह्मानन्दवल्ल्यां प्रथमेनुवाके प्रथममन्त्रस्थं तदपि न अनिर्व्वचनीयत्वसाधनायालं किन्तु व्यभिचारित्वरूपमिथ्यात्वसाधनायैव ।

अत्रापि अनृतपदेन विकार उक्तः , तस्यैव स्वरूपव्यभिचारित्वात् । तथा हि – मृद् घटत्वेन निश्चितापि मुद्गराघातेन स्वं रूपं घटत्वं त्यक्त्वा कपालत्वं प्राप्नोति , तथैव चूर्णत्वं , तथैव धूलित्वम् इति तस्या घटत्वादिरूपम् अनृतं = व्यभिचारि इति यावत् । मृदेव च मृत्त्वेन निश्चिता न मृत्त्वं कदापि त्यजति इति मृत्त्वं तस्याः सत्यम् ।
वेदान्ते च कारणस्य कार्य्यानुस्यूतत्वमात्रेण कार्य्यापेक्षयाव्यभिचारित्वेन सत्यत्वमुपचर्य्यते । भवति च मृत् सत्यं तद्वद् मायोपहितं ब्रह्मापि भवत्येव जगत उपादानम् इति तस्यापि स्वविकारापेक्षया सत्यत्वम् । अत एव विकारोनृतम् इत्युक्तम् । अत एव च छान्दोग्ये वाचारम्भणम् इतिपदस्य वागालम्बनम् इत्यर्थमुक्त्वा कोसौ इत्याकाङ्क्षामुत्थाप्य विकार इति समाहितम् ।
इदमवधार्य्यं यत् मृत्तिकेत्येव सत्यम् इतिश्रुतेर्दृष्टान्तत्वेनोपादानं यत्र कुत्रापि कृतं भाष्यकारैः तत्र ब्रह्मणः सर्व्वकारणत्वमादायाव्यभिचारित्वरूपं सत्यत्वमेवोक्तं , तथैव कार्य्यस्य सर्व्वस्य व्यभिचारित्वरूपमेवानृतत्वम् इति । न हि तैः तद्दृष्टान्तेन ज्ञाननिवर्त्त्यत्वादिरूपं मिथ्यात्वं साद्ध्यते कुत्रापि , उक्तश्रुतेस्तत्रासमर्थत्वात् ।

इदमपि भाष्यं यत्
कार्यमाकाशादिकं बहुप्रपञ्चं जगत् ; कारणं परं ब्रह्म ; तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः ? आरम्भणशब्दादिभ्यः । आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय
दृष्टान्तापेक्षायामुच्यते — ‘ यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति ।
एतदुक्तं भवति — एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ; यतो वाचारम्भणं विकारो नामधेयम् — वाचैव केवलमस्तीत्यारभ्यते — विकारः घटः शराव उदञ्चनं चेति ; न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ; नामधेयमात्रं ह्येतदनृतम् ; मृत्तिकेत्येव सत्यम् — इति एष ब्रह्मणो दृष्टान्त आम्नातः ; तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते ।
इति
अत्रापि कार्य्यकारणभावमादायैव सत्यत्वानृतत्वोक्तिरव्यभिचारित्वव्यभिचारित्वे एव प्रतिपादयति , न तु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वादिकम् । अत एव ब्रह्मव्यतिरेकेण कार्य्यजातस्याभाव इति गम्यत इत्युक्तम् । अत एव दृष्टान्तदार्ष्टान्तिकयोर्न परिणामविवर्त्तभावेन विशेषप्रतिपादने तात्पर्य्यं किन्तु कारणत्वकार्य्याभ्यामेव ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me