सु : स्फटिकगतस्य लौहित्यस्य मिथ्यात्वं सिद्धान्ते स्वीकृतम् न वा इत्यस्मिन् विषये मम संशयो वर्तते।
ल : मित्थ्यात्वं सर्व्वमतेस्ति , परमुपपादनप्रकारो भिद्यते । कदाचित् स्वरूपेणैव तस्य मित्थ्यात्वं , कदाचित् तु विशिष्टरूपेण इति ।
सु : वेदान्तपरिभाषायां उक्तमस्ति “यत्रारोप्यमसन्निकृष्टं तत्रैव प्रातिभासिकवस्तूत्पत्तेरङ्गीकारात् । अत एव इन्द्रियसन्निकृष्टतया जपाकुसुमगतलौहित्यस्य स्फटिके भानसम्भवात् न स्फटिकेऽनिर्वचनीयलौहित्योत्पत्तिः । नन्वेवं यत्र जपाकुसुमं द्रव्यान्तरव्यवधानादसन्निकृष्टं तत्र लौहित्यप्रतीत्या प्रातिभासिकं लौहित्यं स्वीक्रियतामिति चेत् न, इष्टत्वात्” ।
ल : इदमत्रावधेयं यत् अनिर्व्वचनीयोत्पत्तिवादः भ्रमोपपादनाय वेदान्तिभिः प्रयुज्यते । स सर्व्वत्र इत्यसङ्कुचितो वादः । यत्र तु अन्यमतम् आश्रित्य लाघवेन भ्रम उपपादयितुं शक्यते , तत्र केचन विद्वांसोन्यां रीतिमाश्रयन्ति । यदा तु अनिर्व्वनचीयख्यातिः ; तदा स्वरूपेण संसृष्टरूपेण च भ्रान्तिसिद्धविषयस्य अभावात् मित्थ्यात्वव्यवहारः । यदा तु कुत्रचित् केचन अन्यथाख्यातिं स्वीकुर्व्वन्ति ; तदा संसर्ग्गस्य मित्थ्यात्वात् तद्विशिष्टरूपेण तस्य भ्रमसिद्धस्य मित्थ्यात्वं , स्वरूपेण तु सत्यत्वमेव इति ज्ञेयम् ।
सु : अत्र परिभाषायां मिथ्यालौहित्यस्य उत्पत्तिः इन्द्रियजपाकुसुमयोः असन्निकर्षकाले एव स्वीकृतम् न अन्यदा ।
ल : भामतीकारा हि सोपाधिकाध्यासवर्णनकाले ‘कुसुमात् भेदेन गृह्यमाणेपि स्फटिकमणौ अतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिणि अरुणः स्फटिक इत्यारुण्यविभ्रम’ इत्याहुः । तथा च तन्मते सद्रव्यस्यैवारुण्यस्य प्रतिबिम्बोस्ति इति स्वीकृतम् । ततश्च परस्पराद्ध्यासानुरोधात् जपाकुसुमगतमेव लौहित्यं सामग्रीसम्भवेन स्फटिकगतत्वेन भाति । अत्र च लौहित्ये अधिष्ठाने स्फटिकगतत्वाद्ध्यासस्वीकारे लौहित्यस्य प्रतिबिम्बत्वं सत्यत्वञ्च सम्भाव्यते , स्फटिकगतत्वविशिष्टरूपेण च तस्यापि मित्थ्यात्वम् । किन्तु परस्पराद्ध्यासस्थले केषाञ्चन स्वरूपेणाद्ध्यासः केषाञ्चन च संसर्ग्गमात्रस्य ; स्वरूपेणाद्ध्यासस्तु असन्निकर्षकाले एव , तस्य च स्वरूपेण मित्थ्यात्वं ; संसृष्टतयाद्ध्यस्तस्य तु संसर्ग्ग एव स्वरूपेण मित्थ्या , किन्तु तादृशसंसर्ग्गविशिष्टरूपेण संसृष्टतयाद्ध्यस्तस्यापि पदार्त्थस्य मित्थ्यात्वमेव इतिविशेषो वेदान्तपरिभाषाकारैः विविच्य स्थापितः । इदञ्चावधेयं यत् — इदं मित्थ्यात्वं प्रातिभासिकत्वरूपमेव । व्यावहारिकत्वरूपं यत् मित्थ्यात्वं तत्तु ब्रह्मज्ञानबाद्ध्यत्वरूपमेव सर्व्वस्य दृश्यस्य इति न ब्रह्मेतरस्यामित्थ्यात्वापत्तिः ।
विवरणादीनामप्येतदेव मतं यत् सद्रव्यस्यैव प्रतिबिम्ब इति ; किन्तु यदा कश्चन लौहित्यमात्रं प्रतिबिम्बते इत्याह ; तदा ते तन्निरासं वदन्ति । अत एव अख्यातिवादिभिः स्फटिके जपाकुसुमगतलौहित्यासंसर्ग्गाग्रहेण भ्रमोपपादने पञ्चपादिकायां स्फटिकप्रतिस्फालितनायनरश्मीनां जपाकुसुमासन्निकर्षेण कारणाभावः प्रतिपादितः । अत एव च रूपमात्रग्रहणं तस्य च स्फटिकग्रहणेनाविवेक इत्यपि तत्रैव निरस्तं , रूपग्रहणे रूपिग्रहणस्य सामग्रीसत्त्वेन वारयितुमशक्यत्वात् । अन्यथाख्यातिवादिना तु रूपमात्रं प्रतिबिम्बते स्फटिके इत्युक्ते तैः साश्रयस्यैव रूपस्य प्रतिबिम्बदर्शनात् निरासः पञ्चपादिकायां कृतः । प्रभा च जपाकुसुमादेः नास्ति येन तन्मात्रस्य स्फटिकेद्ध्यासः स्यात् । अत एव एतेषां मते स्फटिके लौहित्यारोपे न लौहित्यस्य प्रतिबिम्बत्वम् इति ज्ञेयम् । परमेषां मतेपि स्फटिकलौहित्यप्रतीतेः भ्रमत्वं स्फटिकलौहित्यस्य सामग्र्यभावाद् , बाधेन मित्थ्यात्वञ्च सम्मतमेव ।