साक्षिविषये शङ्का

श्रीपरदेवतायै नमः ।

सु. —
साक्षिणः परिभाषा अद्वैतसिद्धौ एवं वर्तते – साक्षी चाविद्यावृत्तिप्रतिविम्बितचैतन्यम्।


ल. —
नेदं साधु । अविद्यासाक्षिनिरूपणमेवेदम् । अविद्यासाक्षी च अविद्याकारायाम् अविद्यावृत्तौ स्वच्छायां प्रतिबिम्बितं चैतन्यम् इत्येव तत्रोक्तम् । पुनः अविद्यावृत्तेः साक्षिभास्यत्वोपपादनार्त्थम् अनवस्थां वारयद्भिः तैः अविद्यावृत्तिभासकः साक्षी तत्प्रतिबिम्बितचैतन्यम् इत्येवोक्तम् । इदं प्रतिबिम्बवादे । अवच्छेदवादे तु अविद्याभासकः साक्षी अविद्याकाराविद्यावृत्त्युपहितं चैतन्यम् इत्याद्यूह्यम् ।


सु. —
पुनरन्यत्र तस्मिन्नेव ग्रन्थे आचार्या अज्ञानोपहितस्य चैतन्यस्य साक्षित्वं वर्णयन्ति।


ल. —
दृश्यत्वहेतुनिरुक्तौ तावत् प्रसङ्गात् इदमुक्तम् — अयमभिप्रायः – यथा अज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति , जडत्वात् ; किन्तु साक्ष्यकोटावेव । एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्तिर्विषयकोटौ प्रविशति , स्वस्याः स्वविषयत्वानुपपत्तेः ; किन्तु स्वयमविषयोऽपि चैतन्यस्य विषयतां सम्पादयति इति न काप्यनुपपत्तिः । इति । अत्र अवच्छेदप्रतिबिम्बवादसाधारण्येन अज्ञानोपहितस्य साक्षित्वम् अवगन्तव्यम् । स च साक्षी घटपटादीन् अस्वच्छान् तावत् मनोवृत्तिप्रतिबिम्बितः सन्नेव प्रकाशयति , घटादिमनोवृत्तिप्रकाशे तु न तस्य मनोवृत्त्यन्तरस्य अविद्यावृत्तेर्व्वा अपेक्षा । येष्वावरणमेव नास्ति शुक्तिरजतादिषु तेष्वविद्यावृत्तिद्वारा प्रकाशयति । सुखादिषु तु आवरणाभावेपि मतभेदेन अविद्यावृत्तिद्वारा साक्षात् वा प्रकाशयति , मनोवृत्तिवत् सुखादीनां स्वच्छत्वात् । अविद्याञ्च स अविद्यावृत्तिद्वारैव प्रकाशयति , अन्यथा चैतन्याविद्ययोरनाशात् संसारावस्थायाम् अविद्यास्मरणानुपपत्तेः । अत एव सुषुप्तावपि अविद्यावृत्तिः अज्ञानाकारा सुखाकारा अङ्गीक्रियते ।


सु. —
अत्र अज्ञानवृत्तिप्रतिबिम्बितचैतन्यम् अज्ञानोपहितचैतन्यञ्च भिन्ने वस्तुनी स्तः।
एवम् एकया परिभाषया प्रलयकाले साक्षिणोऽभावः पुनः अपरया परिभाषया साक्षिणो भावः तस्मिन् एव काले भवति। यतः प्रलयकाले अज्ञानस्य भावस्तु स्वीक्रियते परं तु अज्ञानवृत्तेर्भावः सिद्धान्ते नाङ्गीक्रियते। इति एका विप्रतिपत्तिः।


ल. —
साक्षिणः नाश्यत्वं स्मृत्यर्त्थसंस्कारायाङ्गीक्रियते । तत्र अविद्यावृत्तिद्वारा यत्र प्रकाशकः साक्षी तत्र चैतन्यस्यानाशेपि अविद्यावृत्तिनाशात् संस्कारोपपत्तिः , यत्र सुखादौ साक्षात् प्रकाशको मतभेदेन तत्र विषयनाशादेव साक्षिनाशात् संस्कारोपपत्तिः , अविद्यायास्तु संसारकाले नाशाभावात् न स्मृतिः किन्तु अनुभव एव इत्येकं मतं , मतान्तरे तु अविद्याया अपि अविद्यावृत्तिद्वारा प्रकाशे तन्नाशात् समाद्ध्यादौ न अविद्याभानम् ।
न च एवं साक्षिनित्यत्वोक्तिः भाष्यकारादीनां न सङ्गच्छते इति वाच्यं ; साक्षित्वोपलक्षितशुद्धाभिप्रायेणैव तदुक्तेः ।
अविद्योपहितम् ईश्वरचैतन्यमेव प्रलये साक्षी इत्युक्तौ तु न नित्यत्वविरोधः इत्यपि । परन्तु तन्मते साक्षिण एकत्वात् सर्व्वेषां सर्व्वज्ञत्वापत्तौ यत्नविशेषो विधातव्यः ।
किञ्च जीवोपाधेरन्तःकरणस्य प्रलये अविद्यायां लीनत्वात् तदा जीवस्येव साक्षिणोपि कार्य्यकरत्वाभावेन लीनत्वव्यवहार एव । न च लीनेप्यन्तःकरणे सुषुप्तौ जीवस्य अज्ञानाद्यनुभवाद् प्रलयेपि स्यात् इति वाच्यं ; सुप्तोत्थितस्य अज्ञानसुखादिस्मरणार्त्थमेव सुषुप्तौ अविद्याद्याकाराया अविद्यावृत्तेरङ्गीकारस्य पञ्चपादिकाकारादिभिरुक्तत्वेन , प्रलयोत्थितस्य च जीवस्य प्रलयादिपरामर्शाभावात् न तत्र साक्षिभास्यत्वकल्पनापेक्ष्यते । तथाहि — न हि प्रलये जीवस्य भोगोभ्युपगम्यते । न च सुषुप्तौ अपि भोगाभावस्तुल्य एव इति वाच्यं ; तथापि प्रलयोत्थितस्य सुषुप्तोत्थितवत् नाज्ञासिषम् इत्यादिपरामर्शाभावात् न तदुपपादनार्त्थाविद्यावृत्तिरूपाविद्यासाक्षिणः कल्पनं युज्यते ।


सु. —
पुनः यदा वयं कथयामः – घटज्ञानम् साक्षिभास्यम् – तत्र साक्षिण: का परिभाषा अस्माभिर्विवक्षिता? अज्ञानवृत्तिप्रतिबिम्बितचैतन्यमिति परिभाषायाः स्वीकारे घटज्ञानाकाराविद्यावृत्ते: स्वीकारे अत्र महान् गौरवो दृश्यते। सुखज्ञाने सुखाकाराविद्यावृत्ति: स्वीक्रियते इत्यत्र तु गौरवो नास्ति, परं तु घटज्ञाने घटाकारामनोवृत्तेर्भावे सति घटज्ञानस्य साक्षिभास्यत्वात् घटज्ञानाकाराविद्यावृत्तेरावश्यकता यत् आपतति तत् तु सम्यक् न इति मे भाति।


ल. —
तत्र अविद्योपहितमेव साक्षी ; तस्य पूर्व्वोक्तरीत्या अर्त्थप्रकाशने कदाचित् अविद्यावृत्त्यपेक्षा , कदाचित् न ; वृत्तौ न , अविद्याघटादिषु तु अस्ति ; स एव साक्षी अविद्याद्याकाराविद्यावृत्तौ घटाद्याकारमनोवृत्तौ च प्रतिबिम्बितोर्त्थान् प्रकाशयति । इति न कुत्रापि गौरवम् ।

इदं सर्व्वत्र स्मर्त्तव्यं यत् प्रमाणं विना किमपि नाङ्गीकर्त्तुं शक्यते इति ।
तत्र अविद्याभ्रमाद्ध्यस्तज्ञानादिसाधकत्वेन , प्रत्यक्षविषययोः कार्य्यकारणभावग्रहार्त्थम् , अज्ञातघटादिसत्तासाधकत्वेन च साक्षी अङ्गीक्रियते । यत्र मनोवृत्त्यैव प्रकाशसम्भवः , तत्रात एव साक्षी न कल्प्यते ।
न च तर्हि ज्ञाततया सर्व्वं साक्षिभास्यम् इत्युक्तिर्विरुद्ध्येत इति वाच्यं ; ज्ञाततया = मनोवृत्तिविषयत्वेन सर्व्वं = मनोवृत्तिविषयः साक्षिभास्य इत्यस्यैव तदर्त्थत्वात् ; अर्त्थस्य साक्षिनिरपेक्षसिद्धिकत्वेपि तदवच्छिन्नचिदावारकाज्ञाननिवृत्तिरूपवृत्तेर्ज्जडायाः प्रकाशार्त्थं साक्षिणोपेक्षाया विद्यमानत्वात् च ।
सौषुप्ताज्ञानादौ तु सुषुप्तोत्थितस्य परामर्शान्यथानुपपत्त्या साक्षी कल्प्यते , तत्र मनसोऽभावेन तत्परिणामभूताया वृत्तेरप्यसम्भवेन स्मृत्युपपत्तेरसम्भवात् ।
अवान्तरप्रलये च अन्तःकरणाभावात् तदुत्थस्य प्रलयस्मरणाभावात् च न तत्र साक्षिणः कल्पना , इदानीन्तनं प्रलयाद्यनुमानञ्च वृत्तिन्यायेन साक्षिभास्यमेव ।
महाप्रलयस्तु अस्माकं मोक्ष एव , तार्क्किकाद्यभ्युपगतस्य तस्य अनङ्गीकारात् ।

इदमपि द्रष्टव्यं यत् जीवसाक्षिणोरुपाधिभेदप्रयुक्तभेदसत्त्वेपि यदेव साक्षिचैतन्यं तदेव अन्तःकरणोपाधिकजीवतादात्म्यापन्नम् अत एव साक्षिभास्यस्य जीवेन ज्ञाततया अज्ञाततया च परामर्श उपपद्यते इति ।
यदा च एवं तदा यदा जीवेन न ज्ञानादिरूपो व्यवहारो जन्यते तदा जीवस्य संसारदशायामपि अविद्यायां लयः कल्प्यते यथा तथा साक्षिणोपि इति समानम् । न च एतावता जीवस्य साक्षिणो वा नित्यत्वं हीयते , चैतन्यस्य सर्व्वथाऽविनाशित्वात् , उपाधेश्चापि संसारदशायामनाशात् लयमात्रस्याङ्गीकारात् च ; मोक्षदशायाम् उपाधिनाशेपि उपहितस्य नाशाव्यवहारात् न तदा जीवसाक्षिणोर्नाशः ; विशिष्टस्य जीवत्वे साक्षित्वे च तदा तन्नाशकथेष्टैव । इति ।

श्रीपरदेवतार्प्पणमस्तु ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?