जपाकुसुमलौहित्यस्य प्रतिबिम्बता न वा ।

स:
सिद्धान्ते स्फटिकलौहित्यस्य प्रतिबिम्बत्वम् अङ्गीक्रियते वा न वा इति विषये मम सन्देहो वर्तते ।

ल:
प्रतिबिम्बत्वं नास्ति , व्याप्यवृत्तित्वादेव ।

तत्रापि भ्रमस्य निरूपणं द्वेधा भवति ।

तत्र प्रथमप्रकारे
स्फटिके लौहित्यारोपे तस्य प्रातिभासिकत्वम् । अत्र जपाकुसुमस्योपाधिता । अस्मिन्कल्पे लौहित्यस्यैवारोप इति न प्रतिबिम्बता ।

द्वितीये तु प्रकारे
जपाकुसुमगतलौहित्ये स्फटिकस्थत्वारोपे तु तस्मिन्कल्पेपिलौहित्यं न मित्थ्या , किन्तु प्रतिबिम्बत्वात् सत्यः = व्यावहारिक एव । अत्र स्फटिकस्योपाधिता , न तु जपाकुसुमरूपस्य अधिष्ठानभूतस्य ।

स:
किन्तु सिद्धान्तबिन्दौ स्फटिकलौहित्यस्य स्फटिके प्रतिबिम्बत्वं स्वीकृतम् ।

ल:
सिद्धान्तबिन्दौ तु निरुक्तद्वितीयकल्पमाश्रित्य प्रतिबिम्बत्वमुच्यते ।

परमिदं विचार्य्यं यत् द्वितीयेपि कल्पे जपाकुसुमलौहित्यस्याधिष्ठानत्वादेव स्वरूपेणामित्थ्यात्वेपि उपाद्ध्यन्तर्ग्गतत्वस्य = स्फटिकस्थत्वस्य = प्रतिबिम्बत्वस्य तु मित्थ्यात्वमेव इति तद्विशिष्टरूपेण तल्लौहित्यं मित्थ्या भवति । प्रतिबिम्बत्वस्य च उपलक्षणत्वे लौहित्यस्वरूपस्य प्रागुक्तरीत्या अमित्थ्यात्वमेव ।
अयं तृतीयः प्रकारो निरूपणस्य ।

तथा च विवरणमताविरोधः , प्रतिबिम्बत्वतद्भिन्नत्वकल्पयोरसङ्करश्च ।
वाचस्पतयस्तु प्रतिबिम्बतामेवाङ्गीकुर्व्वन्ति , परं तत्र तेषां अन्यथाख्यातिरेव , न तु अनिर्व्वचनीयख्यातिः इति विशेषः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?