चक्षुष्यन्धे चलति दशने श्मश्रुणि श्वेतमाने
सीदत्यङ्गे मनसि कलुषे कम्पमाने कराग्रे ।
दूतैरेतैर्दिनकरभुवः शश्वदुद्बोध्यमानाः
त्रातुं देहं तदपि भिषजामेव सान्त्वं वदामः ॥११॥
शान्तो वह्निर्जठरपिठरे संस्थिता कामवार्त्ता
धावं धावं दिशि दिशि शनैरिन्द्रियाश्वा निपेतुः ।
एवं दैवादुपरममगादेष मे वैरिवर्ग्गः
चेतस्त्वेकं न वशमयते किं करोमि क्व यामि ॥१२॥
नानोपायैर्दिशि दिशि धनान्यर्ज्जयित्वा व्ययित्वा
सम्यक्सम्पादितमिदमिह स्थौल्यमेकं शरीरे ।
श्रुत्वा श्रुत्वा बहुजनमुखादायुषैतावतापि
प्राप्तं दर्शावधितिमिरवद्गाढमज्ञानमेकम् ॥१३॥
क्वेक्षन्ते मां क्वचन शयितं किङ्करा दण्डपाणेः
ईक्षन्तां वा तदपि मयि किं कुर्य्युरुद्दामवृत्ते ।
कुर्य्युः किञ्चित्प्रसभमपि वा घातयिष्यामि राज्ञे(?) –
त्यन्तधैर्य्यं परमिह वहन्नन्तकं न स्मरामि ॥१४॥
वेदा वा स्युर्वितथवचना विस्मरेदीश्वरो वा
धर्म्माधर्म्मस्थितिविरचनामन्तको वा मृषा स्यात् ।
नित्यो वा स्यामहमिति बहूनुल्लिखन्तः समाधी-
न्मेदोवृद्ध्या मुदितमनसः सर्व्वतो निर्वृताः स्मः ॥१५॥
यामे यामे गलति वपुषः स्रंसते सन्धिबन्धः
श्वासे श्वासेऽपि च विचलति क्षीयते दीर्घमायुः ।
भुक्ते भुक्तेऽपि च सुखलवे लुप्यते पुण्यराशिः
कृत्ये कृत्ये निरवधि पुनर्वर्द्धते पातकं नः ॥१६॥
गन्तव्योऽध्वा सकलदुरवस्थानसम्पातभूमिः
गत्वा दृश्यस्त्रिभुवनजनापुष्कलान्तः(?) कृतान्तः ।
दृष्ट्वा लभ्या निरयजनिता यातनानेकभेदा
विस्मृत्येदं निखिलमपि तु व्यर्थमायुर्नयामः ॥१७॥
काले काले न किमुपनतं भुञ्जते भोज्यजातं
गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु ।
पुष्णन्ति स्वान्न किमु पृथुकान् स्त्रीषु किन्नो रमन्ते
कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥१८॥
कृच्छ्राल्लब्धं धनमपि शतांशाधिकप्राप्तिलोभात्
पत्त्रे किञ्चिल्लिखितमुपलभ्यैव सर्व्वं त्यजामः ।
शास्त्रैः सिद्धे बहुशतगुणाधिक्यलाभे परत्र
व्यर्थं शङ्काकलुषमनसो नोत्सृजामोऽर्थलेशम् ॥१९॥
जीर्ण्णे रुग्णे विकलकरणे शत्रुभिर्व्वा गृहीते
स्वस्मिन्कोऽर्थो भवति सुखदः कश्च कामप्रसङ्गः ।
मा भूदेतत् सकलमथ वा स्वायुषः किं प्रमाणं
निश्चित्यैवं दुरितनिचयश्चीयते निर्व्विशङ्कः ॥२०॥