विशेषणोपलक्षणोपाधयः

विशेषणम् ।

येन हि स्वोपरागाद् विशेष्ये व्यावृत्तिबुद्धिर्जन्यते , तद् विशेषणं = व्यावृत्तिबुद्धिकाले विशेष्योपरञ्जकम् इत्यर्थः । यथा गोत्वादि ।


उपलक्षणम् ।
येन च स्वोपरागमुदासीनं कुर्व्वता विशेष्यगतव्यावर्त्तकधर्म्मोपस्थापनेन व्यावृत्तिबुद्धिर्जन्यते तद् उपलक्षणम् । यथा काकादि ।

यत्तु विशेष्ये नोपरञ्जकं न वा धर्म्मान्तरोपस्थापकम् अथ च व्यावर्त्तकं तद् उपाधिः ।

यथा पङ्कजशब्दप्रयोगे पद्मत्वं , यथा वा उद्भिदादिशब्दप्रयोगे यागत्वावान्तरजातिविशेषः । अत्र हि पद्मत्वयागत्वावान्तरधर्म्मौ पङ्कजनिकर्त्तरि फलोद्भेदनकर्त्तरि च न धर्म्मान्तरमुपस्थापयतः ,अप्रतीतेः ; न वा स्वोपरक्तां बुद्धिं जनयतः , समुदाये शक्त्यन्तरानभ्युपगमात् ; अथ च कुमुदज्योतिष्टोमादिभ्योः व्यावर्त्तकौ इति उपाधी एव । इदञ्च प्राभाकराणां भाट्टानाञ्च सम्मतम् उदाहरणम् ।

तार्क्किकाणान्तु आकाशशब्दप्रयोगे शब्दाश्रयत्वमुदाहरणम् ।

अत एव अविद्यादिकं साक्षित्वादौ उपाधिः इति सिद्धान्तो वेदान्तिनाम् ।

– इति शब्दार्थाभ्यां मधुसूदनसरस्वत्यः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me