विशेषणत्रैविध्यम्

विशेषणं हि त्रिधा विभज्यते कैश्चित् प्रयोजनभेदात् । स च विभागः – व्यावर्त्तकम् (उद्देश्यकोट्यन्तःपाति) , हेतुगर्भं , विधेयञ्च ।
एतदत्र बोध्यं यत् विशेषणस्य वस्तुधर्म्मत्वेपि तद्वाचकं पदमपि विशेषणम् इत्युच्यते । अत एव यद्यपि इदं निरूपणं वस्तुधर्म्माणामेव तथापि अभिधानादिव्यवहारनैरपेक्ष्येण तदसम्भवात् तद्वाचकपदस्यापि सदृशं निरूपणं सम्भवति इति ।

तत्राद्यं यथा – नीलं घटमानय इत्यत्र । तत्र उद्देश्यस्य घटस्य अनीलेभ्यो घटान्तरेभ्यो व्यावर्त्तनमेव विशेषणप्रयोजनं , नान्यत् । न हि तत् आनयनोपपादकम् इति न हेतुगर्भं , न वा विधेयम् आनयनस्यैव तत्त्वात् ।
इदं व्यावर्त्तकं विशेषणं कैश्चिद् उद्देश्यकोट्यन्तःपाती इत्यप्युच्यते ।
तस्य पुनर्द्वैविध्यं सम्भवति – पक्षतावच्छेदकत्वेन , उपरञ्जकत्वेन च । पक्षतावच्छेदकत्वञ्चानुमाने विवक्षिते एव , अन्यत्र सर्व्वत्र तु उपरञ्जकतैव ।
न चेयमुपरञ्जकता उपलक्षणतापरपर्य्याया , उपलक्षणस्य विशेषणाद्भेदेन निरूपितत्वात् । अत एव पक्षतानवच्छेदकत्वे सति व्यावर्त्तकत्वम् इत्येव तल्लक्षणं स्यात् ।

द्वितीयं यथा – सुरापः पातकी भवति इत्यत्र । अत्र सुरापः = सुरापानकर्त्ता = सुरापानक्रियाविशिष्ट उद्देश्यं , तमुद्दिश्य पातकित्वं = पातकवत्त्वं = पातको विधीयते । अत्र यद्यपि सुरापत्वम् उद्देश्यकोट्यन्तर्भावि , असुरापेभ्यो व्यावर्त्तकञ्च तथापि विधेयपातकोपपादकत्वमपि तस्य वर्त्तते इति व्यावर्त्तकविशेषणापेक्षयाधिकप्रयोजनवत्त्वेन तस्य तत्प्रयोजनपुरस्कारेणैव निरूपणं क्रियते हेतुगर्भम् इति ।
अत्र हेतुर्गर्भेस्य इति हेतुगर्भं विशेषणम् इति निरुक्तिर्न सम्भवति , विशेषणस्यैव हेतुत्वात् , अभेदे च आवृतावरणभेदासम्भवात् । अत एव हेतुः = हेतुत्वं गर्भेस्य इत्येव निर्व्वचनं शोभते । अत्र गर्भपदस्य कुक्षिपरत्वम् ।
अथवा हेतुश्चासौ गर्भश्च इति हेतुगर्भं विशेषणम् । अत्र गर्भपदं भ्रूणपरम् ।
आद्ये हेतुत्वस्य गर्भस्थत्वं द्वितीये च हेतोर्गर्भत्वं नाम अनभिव्यक्तत्वं , तच्च तृतीयापञ्चम्यन्तत्वादिरहितत्वात् । भवति हि कुक्षिस्थो भ्रूणोनभिव्यक्त इति ।

ननु सुरापपदस्यैकस्यैव दर्शनात् तस्य विशेष्यत्वमेव न तु विशेषणत्वम् इति ।
न च विशेषणविशेष्ये नात्र ज्ञाननिरूपितविषयताविशेषात्मकप्रकारताविशेष्यते विवक्षिते न वा शाब्दबोधीयतादृशविषयताविशेषाश्रयोपस्थितिजनके पदे किन्तु पदार्थधर्म्मरूपे एव ; तथा च सुरापानविशिष्टस्य सुरापपदार्थत्वेन सुरापानं = सुरापत्वं तत्र विशेषणं भवत्येव ।
तस्य च नरविशेषे धर्म्मत्वेन विशेषणतां भजतः सुरापानात्मकविशेषणस्य विधेयपातकहेतुत्वेन तदुपपादकत्वात् उपपन्नो विभाग – इति वाच्यम् ।
वाक्यार्थस्यैवात्र विचार्य्यमाणत्वेन पदानामेवात्र विचार्य्यत्वस्योचितत्वात् ।
इति चेत् ।

न , धर्म्मात्मकविशेषणस्यैव प्रकृतत्वात् । अथापि तादृशधर्म्मोपस्थापकपदेषु विचारयामः –
न हि सर्व्वः सुरापानकर्त्ता पातकी भवति किन्तु ब्राह्मण एव इति प्रकरणात् तद्वाचकं पदमध्याहृत्यैव वाक्यार्थो वर्णनीयः । तथा च ब्राह्मणोपस्थापकाध्याहृतपदजन्योपस्थितिविषये तस्मिन् सुरापपदेन सुरापानक्रियावैशिष्ट्यं समर्प्यते इति विशेषणत्वमुपपद्यत एव ।
न च ब्राह्मणादिपदवत् सुरापपदादपि धर्म्मिण एवोपस्थितेः कथं विशेषणत्वम् इति वाच्यं ; नीलं घटम् इत्यादावप्यस्या आपत्तेः समानत्वात् , तत्र यथा नीलपदस्य विशेषणविशिष्टसमर्पकत्वेपि विशेषणत्वं व्यवह्रियते तथैवात्रापि स्वीक्रियताम् ।
तथा च हेतुत्वविशिष्टविशेषणोपस्थापकत्वं हेतुगर्भविशेषणत्वं पदस्य ।

तृतीयं यथा पूर्व्वोक्त एव दृष्टान्ते पातकित्वं यथा वा पर्व्वतो वह्निमान् इत्यत्र वह्निः । तस्य उद्देश्यकोट्यनन्तःपातित्वात् ।

तथा च विशेषणं द्विविधम् – उद्देश्यकोट्यन्तःपाति तदनन्तःपाति(विधेयं) च इति द्विधा विशेषणं विभज्य , प्रथमस्य व्यावर्त्तकहेतुगर्भत्वाभ्यां विभागोप्युपपद्यते ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me