मतभेदहेतुः

“दर्शनकृतां हि विवादो न मात्सर्येण वाङ्मात्रेण वा ; किन्तु तत्त्वाभिमानादेव ।

– इति खण्डनखण्डखाद्यकारः ।

एतेन – रामानुजादीनामद्वैतरहस्यादिज्ञानवत्त्वेऽपि द्वैतोपदेशो मन्देषु कृपयेति वदन्तः – परास्ताः । न हि – तेषां परीक्षकत्वे कृपावशेन मिथ्याभिनिवेशः सम्भवति । न वा – मन्दानामेव द्वैतमार्गे प्रवेश इति नियमः । रामानुजादीनामुदाहरणेन शमदमादिवतामपि तत्र प्रवृत्तिदर्शनात् । तथा च , मन्दोपकारित्वेऽपि उत्तमपातहेतुत्वेन कृपैषा प्रत्यवायकारिणी स्यात् तेषामाचार्य्याणाम् । अत एव , रामानुजादीनां द्वैतेऽभिनिवेशस्तत्र सत्यत्वबुद्ध्यैव इत्येवोचितम् ।”
– इति कदाचिन्मया लिखितं कुत्रचित् ।

इदं तु यद्यपि तेषामद्वैतिनामेवाधुनिकानां निरासाय येऽपरीक्ष्यैव तत्त्वं ‘सर्व्वेषामेव रामानुजमध्वादीनामद्वैततत्त्वज्ञानमासीत् , विशिष्टाद्वैतद्वैतादिप्रतिपादनं च मन्दानामद्वैतानधिकारिणां कृते एव’ – इति प्रतिपन्नाः ।

तथैव सत्यान्वेषणकारस्य रीतिः ‘सर्व्वेषां शङ्करमध्वादीनां विशिष्टाद्वैते एव तात्पर्य्यम् , अद्वैतद्वैतप्रतिपादनं तु प्रयोजनविशेषमुद्दिश्य’ – इति निरसनीया ।

तथैव गणेशनमहाभागैर्दूषितस्य द्वैतिनः कस्यचित् शर्म्मणः खण्डनम् ।

रामकृष्णस्य त्वदार्शनिकत्वादेवापरीक्ष्य यत्किमपि प्रतिपादयतः हेयता ।

एकैव रीतिः सम्भवति दर्शनानामेकीकरणाय या आधुनिकैः मतमात्रे आग्रहरहितैः आद्रियते । सा तु ‘सर्व्वाणि मतानि तुच्छानि कल्पितप्रतिपादनपराणि अप्रमाणानि’ – इति ।

‘दर्शनैः प्रतिपादनीयं तत्त्वं यथार्थम्’ – इति मत्त्वा तु सर्व्वेषां मतानामेकीकरणं न सम्भवति यथा सूचितं प्रश्नद्वारा गणेशनविदुषा ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me