प्रकरणलक्षणसमन्वयः

सगुणनिरूपणभागस्य प्रायेणास्पर्शात् , निर्गुणविचारप्रकाराणां च सर्वेषाम् अनभिधानात् शास्त्रैकदेशसम्बन्धात्प्रकरणं वा इदं क्रियत – इत्यर्थः ।

विश्ववेदः सिद्धान्तदीपे



अतः –

शास्त्रैकदेशसम्बद्धं शास्त्रकार्य्यान्तरे स्थितम् ।
आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥

– इतिप्रकरणलक्षणस्यात्र सत्त्वात् अस्य वेदान्तप्रकरणत्वं सिद्धम् ।

तथा हि –
तदधिगम उत्तरपूर्व्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् – इत्यधिकरणोक्तशास्त्रैकदेशजीवन्मुक्तिसम्बन्धित्वमस्यास्ति , तथा शास्त्रकार्य्यान्तरे मन्दाधिकारिबोधनादौ स्थितत्वमप्यस्योपलभ्यते । तस्मात् तत्प्रकरणत्वम् अविरुद्धम् ।

– इति जीवन्मुक्तिविवेके प्रकरणलक्षणसमन्वयप्रदर्शनं स्वामिपूर्णानन्दाश्रमैः कृतम् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me