पदार्थत्वम्

पदार्थत्वं नाम तत्पदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यत्वम् ।
– इति खण्डनखण्डखाद्यशारदायां स्वामिनः शङ्करचैतन्यभारतीपादाः ।

तथा हि –

पदस्य स्वाभाविकमर्थप्रत्यायनसामर्थ्यं वा ईश्वरेच्छा वा शक्तिः । सा च वृत्तिविशेषः = पदार्थसम्बन्धविशेषो यामालम्ब्य पदमर्थप्रतीतिं जनयति ।
तत्र ईश्वरेच्छा शक्तिः इतिपक्षे उक्तनिरुक्तिः पदार्थत्वस्य ।
तथा हि घटपदस्य घटविषयकबोधोत्पादकत्वं वर्त्तते यत् तत् घटेनार्थेन घटपदस्य सम्बन्धाभावे न घटते इति घटपदस्य घटेनार्थेन सम्बन्धो वक्तव्यः ।
स च न संयोगः सम्भवति , घटपदस्य मुखेवस्थानकाले वक्तुर्मुखान्तरेव घटसत्त्वप्रसङ्गात् ।
न वा समवायः , घटपदस्याद्रव्यत्वेन समवायानुयोगित्वासम्भवात् , घटपदव्यतिरेकेण घटानुपलब्ध्यापत्तेश्च तत्प्रत्यक्षादिलोपप्रसङ्गात् च ।
न वा घटपदेन कम्बुग्रीवादिमत्पदार्थस्य बोधो भवतु इतिपुरुषेच्छैव तत्र नियामिका ; पुरुषाणां परिमितैश्वर्य्यत्वेन तदिच्छाव्याघातस्य च बहुत्र दर्शनात् , किञ्च इदानीं पुरुषान्तरस्य पटशब्देन घटबोधेच्छायां जातायां कस्य पुरुषस्येच्छानुसर्त्तव्या इत्यत्र नियामकाभावेन व्यवहाराभावप्रसङ्गः स्यात् ।
अत एव अप्रतिहतेच्छस्येश्वरस्यैव तदाकारेच्छा पदार्थसम्बन्ध इत्यङ्गीकर्त्तव्यम् ।

तस्य चेच्छा अविद्यावृत्त्यात्मिका इति वेदान्तिनः ।

आकारश्च तस्याः पूर्व्वोक्त एव – घटपदं कम्बुग्रीवादिमत्पदार्थबोधजनकमस्तु इति वा कम्बुग्रीवादिमत्पदार्थो घटपदजन्यबोधविषयोस्तु इति वा ।
तथा च  द्वितीयलक्षणे –
घटपदार्थे ईश्वरेच्छीयविशेष्यत्वं , ईश्वरेच्छीयप्रकारत्वञ्च उक्तविषयत्वे , विशेष्यत्वप्रकारत्वयोश्च परस्परं निरूप्यनिरूपकत्वम् । इदमेव विमृश्योक्तं – तत्पदजन्यबोधविषयत्वनिष्ठप्रकारत्वनिरूपितेच्छीयविशेष्यत्वं पदार्थत्वम् – इति ।

प्रथमलक्षणे पदत्वं नाम वर्णसमुदायत्वे सति तदर्थबोधजनकत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यत्वम् इति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me