नृसिंहप्रज्ञयतिकृतं मङ्गलम्

यदज्ञानाज्जगद्भाति यज्ज्ञानान्नैव भाति च ।
वन्दे तं सच्चिदानन्दं प्रत्यगात्मानमीश्वरम् ॥

तस्मै नमो महेशाय वटद्रुमनिवासिने ।
अभवं यत्पदाम्भोजं ध्यायं ध्यायं परं महः ॥

वन्दामहे परं ज्योतिर्गजवक्त्रं चतुर्भुजम् ।
निस्सीमैश्वर्य्यमचलं क्षिप्रं कृत्स्नफलप्रदम् ॥

यानुभूतिः स्वयञ्ज्योतिरादित्येशानविग्रहा ।
शङ्कराख्याञ्च तां नौमि सुरेश्वरपदास्पदाम् ॥

कुलशेखरपुर्य्याख्यान् नमस्यामि मुनीनहम् ।
यत्कटाक्षेक्षणादासमखण्डानन्दचिद्घनः ॥

न प्रियङ्करणी बुद्धिर्न चाढ्यं करणं श्रुतम् ।
तथापि वार्त्तिके गूढे न्यायतत्त्वं विवृण्महे ॥

नृसिंहप्रज्ञयतिना सर्व्वहास्यास्पदात्मना ।
यत्किञ्चिदुच्यते तत्र क्षन्तुमर्हन्ति साधवः ॥

– नृसिंहप्रज्ञयतयः वार्त्तिकटीकोपोद्घाते ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me