निन्दा

निन्दा किमुद्दिश्य प्रवृत्तेति विवेचनीयम् । दूषणमात्रोद्देश्यकत्वे तु सा वक्तुरेव दुष्टतां ज्ञापयेत् इति नास्माकं खेद उचितः । परिष्कारमुद्दिश्य प्रवृत्ता चेदपि कठोरशब्दयुता सा स्वोद्देश्यं साधयितुमसमर्थेति श्रोत्रैव शब्दव्यङ्ग्योपहासनिन्दादिभ्यस्तात्पर्य्यविषयीभूतमर्थं विविच्य स्वबोधशोधनादिकं कर्त्तव्यम् । सत्पुरुषैर्हितवचनप्रयोक्तृभिः कृता निन्दा तु साक्षाद्दोषानुद्धाटयत्यस्माकम् इति न तत्र क्लेशावसरः ।

प्रथमद्वितीययोस्तु भवत्येव क्लेशः । तत्रापि कदाचित्स्वमनस्समाधानाय दूषणैकपरस्य वक्तुरपि योग्येऽर्थे बलात्तात्पर्य्यमनुसन्दधाना सत्पुरुषा दृश्यन्त एव । तदुचितमेव , सप्रयोजनत्वात् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me