ज्ञानभ्रंशे बन्धः

न च – तर्हि तेषां(ज्ञानिनामस्थितप्रज्ञानां) कदाचित् ज्ञानभ्रंशात् मुक्त्यभावप्रसङ्ग – इति वाच्यम् ; इष्टत्वात् ।

तदिष्टत्वञ्च ज्ञानरक्षानिरूपणे स्पष्टं वक्ष्यति –
तस्माद् अविश्रान्तचित्तस्य संशयविपर्य्यप्रसङ्गेन तत्त्वज्ञानस्य फलप्रतिबन्धलक्षणाद् बाधाद् रक्षापेक्षते
– इति ।
अत एव प्रज्ञायाः स्थितत्वं सर्व्वथा सम्पादनीयम् । तदुक्तं वासिष्ठे –
शास्त्रैः सज्जनसंसर्ग्गपूर्व्वकैः सतपोदमैः ।
आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्द्धयेत् ॥
इति ।
– जीवन्मुक्तिविवेकार्थरत्नदीप्तिः पूर्णानन्दाश्रमस्वामिनः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me