अद्वैतवेदान्तरीत्या मङ्गलफलम्

ग्रन्थाद्यादौ मङ्गलं शिष्टैः क्रियते । शिष्टाश्च न किञ्चिद्व्यर्थमाचरन्ति । न च मङ्गलानां लौकिकं किमपि प्रयोजनं दृश्यते । अत एव अलौकिकमेव किञ्चित्फलं वाच्यम् । तच्च फलं विघ्नध्वंसः केषाञ्चिन्मते , मते च केषाञ्चिद्ग्रन्थसमाप्तिः । वेदान्तिनां नये तु ईश्वरप्रीतिरेव । अत एव भाष्यकाराः फलमत उपपत्तेः – इतिसूत्रभाष्येऽपूर्व्वस्य निष्प्रमाणकत्वम् , अभ्युपगतस्यापि ईश्वरानधिष्ठितस्य स्वातन्त्र्येण फलदातृत्वासम्भञ्च आहुः (॥३।२।३८॥) –

अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः । तदस्तित्वे च प्रमाणाभावात् ।
अर्थापत्तिः प्रमाणमिति चेत् ।
न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ।
– इति ।
 
स्पष्टञ्च सिद्धान्त उक्तः पूर्व्वञ्च बादरायणो हेतुव्यपदेशात् इतिसूत्रभाष्ये (॥३।२।४१॥) –
बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते ।
– इति ।
 
सिद्धान्तबिन्दोर्न्यायरत्नावल्यां ब्रह्मानन्दैरप्युक्तं
 
ननु प्रभोः कोपहेतुव्यापारः अपराध इति लोके व्यवहारः, पापजनकस्यापराधत्वे तथात्वं स्यादिति चेत् ।
स्यादेव । फलमत उपपत्तेः इत्यधिकरणे महर्षिणा बादरायणेन विहितनिषिद्धयोरीश्वरप्रसादकोपजनकत्वोक्तेः।
न च – तथापि पापनाशफलकक्रियायाः कथं विष्णुप्रीतिफलकत्वमपीति – वाच्यम्। विहितक्रियामात्रस्येश्वरप्रसादजनकत्वात् , ईश्वरप्रसादस्यैव पुण्यरूपत्वस्य बादरायणसम्मतत्वात्
– इति ।
तथा ब्रह्मसूत्रवृत्तौ
ईश्वरस्यैवान्यनैरपेक्ष्येण फलहेतुत्वव्यपदेशात् ।
—————————–
कोपितप्रसादितेश्वरस्यैव हेतुत्वात् । ईश्वरप्रसादकोपयोरेव कर्म्मव्यापारत्वात् ।
– इति तेषामेवोक्तिः ।
प्रमाणञ्चाहुर्ब्रह्मानन्दाः श्रुतिं ब्रह्मसूत्रव्याख्याने
स वा एष महानज आत्मा वसुदानः ,
एष ह्येव साधु कर्म्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते
– इत्यादिकां,
स्मृतिञ्च
लभते च ततः कामान् मयैव विहितान् हि तान्
– इतिसदृशीः ।

जैमिनितार्किकादिमतेषु अवान्तरव्यापारत्वादिना कल्पितस्यापूर्व्वस्य स्वर्ग्गादिफलजनकत्वं तु यागादीनां श्रुतिसिद्धफलजनकत्वान्यथानुपपत्त्यनुमानबलादिनैवोक्तं , न तु श्रुतिमूलकतयापि इति च तेषां श्रुतिविरुद्धत्वमुक्तं धर्म्मं जैमिनिरत एव इतिसूत्रवृत्तौदेवताधिकरणन्यायेन च स्तावकस्यापि मानान्तराविरुद्धेर्थे प्रमाणत्वस्याविरुद्धत्वेन ईश्वरसिद्धिरपि तत्र समर्थिता ।
ईश्वरप्रसादकोपयोश्च मायावृत्त्यात्मकत्वेन फलसमवाय्यन्तःकरणे अवच्छेदकतासम्बन्धस्य स्वीकारात् न फलवैयधिकरण्यमीश्वरप्रसादकोपयोः इति दूरीकृता फलवैयधिकरण्याशङ्कापि गौडब्रह्मानन्दैर्वृत्तावेव
 
तदनुकूलञ्च भाषितं खण्डनखण्डखाद्यशारदाराजहंसे स्वामिना शङ्करचैतन्यभारत्या
“देवताप्रसादो मङ्गलफलं विघ्नात्यन्तभावस्थलसाधारण्यात् ; तेन हि सति विघ्ने तद्ध्वंसः , असति तु प्रारिप्सितकृत्यौपयिकदृष्टकारणान्तरस्योपहारो वैशिष्ट्याधानं वा तत्र क्रियते ।” – इत्येव श्रद्धेयः सिद्धान्तः
– इति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me