अवतारपदार्थः

अवतरणं तादात्म्याभिमानः ।

अवतरत्यस्मिन् इति अवतारः ।
अत्र सप्तमी विषयत्वार्थिका । तथा च देहविशेष एव अवतारपदार्थः , तस्यैव तादात्म्याभिमानविषयत्वात् ।

–  इति शब्दार्थाब्भ्यां गौडब्रह्मानन्दसरस्वतीस्वामिनः ॥

श्रीशङ्कराचार्य्यादिशरीरारूपावतारविषयकतादात्म्याभिमानं प्राप्त ईश्वरोपि श्रीशङ्कराचार्य्य इति कथ्यते ।
शङ्कराचार्य्यदेहस्यावतारत्वे प्रमाणं च  वायुपुराणं –
चतुर्ब्भिस्सह शिष्यैस्तु शङ्करोवतरिष्यति ॥
–  इति ।

देहविशेषपदेन चात्र पुराणादिप्रसिद्धदेहविशेषा एव ग्राह्याः , अन्यथा देहमात्रस्य तादात्म्याभिमानविषयत्वेन अवतारत्वापत्तेः ।

न च – देवदत्तादीनां जीवानामेवावतारा देवदत्तादयो देहा , न त्वीश्वरस्य इति ; पुराणादिप्रसिद्धिर्नाश्रयणीया – इति वाच्यम् ।
चैतन्यस्यैकस्यैव सर्व्वत्र देहे तादात्म्याध्यासः , प्रतीतिश्च समाना इति पुराणाद्याश्रयणं विना ईश्वरस्य नायमवतारो जीवस्येति  निश्चयासम्भवात् ।
न च – चैतन्यरामकृष्णादीनामस्मदपेक्षया सामर्थ्याधिक्यदर्शनात्तेषामीश्वरावतारत्वम् – इति वाच्यम् ।
अस्मत्पदेन के त्वया गृहीताः , त्वमेव वा त्वत्सम्प्रदायानुगता वा सकलं जगत् वा ।
आद्ययोः अधिकसामर्थ्यस्यान्यत्रापि बहुषु बहुविषयक्रियासु दर्शनात् तेषामप्यवतारत्वापत्तेः । अन्त्ये तु असर्व्वज्ञदुर्ज्ञेयत्वम् ।
न च – अनिर्व्वचनीयार्थस्यापि व्यवहारो यथाद्वैतिनाङ्गीक्रियते तथास्माकमवतारत्वव्यवहारोस्तु – इति वाच्यम् ।
अद्वैतिभिश्चरमप्रमाणबाद्ध्यत्वेनैव व्यावहारिकत्वाङ्गीकारात् , त्वदभ्युपगतावतारत्वस्य व्यवहारभूमावेव बाधात्प्रातिभासिकत्वात्तस्य ।

अत एव स्वस्वगुरुसुहृदादीनां रागवशादवतारत्वं घोषयन्तः पराहताः । निष्प्रमाणकत्वात्तदवतारत्वस्य , दोषमूलकत्वात् च ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me