अज्ञानम् , आवरणम् , आवरणकृत्यञ्च

‘नास्ति न प्रकाशत’ – इति व्यवहार एवाभिज्ञादिसाधारणः , ‘अस्ति प्रकाशत’ – इत्येतद्व्यवहाराभावो वा आवरणकृत्यम् ।

आवरणं च तद्योग्यता अज्ञानसंबन्धरूपा सुषुप्त्यादिसाधारणी आब्रह्मज्ञानमवतिष्ठते ।

तेन सुषुप्तिकाले नानावरणं , मोक्षकाले च नावरणम् ।

– अद्वैतसिद्धिः ।

अज्ञानम् ।
अनादि अनिर्व्वचनीयं ज्ञाननिवर्त्त्यम् ।
अस्य ज्ञानाभावात्मकत्वं नास्मन्मते , किन्तु तद्विलक्षणपदार्थात्मकता । ज्ञानाभाववैलक्षण्यमेव बोधयितुं तस्य भावत्वकथनमाकरेषु । वस्तुतस्तु अनिर्व्वचनीयत्वे एव तात्पर्य्यम् ।

तेन च क्रियत आवरणम् । तच्च चिन्निष्ठा वक्ष्यमाणावरणकृत्यस्वरूपयोग्यता अज्ञानसम्बन्धात्मिका ।

आवरणेन च क्रियत यत् तत् आवरणकृत्यम् । तच्च ‘नास्ति’ , ‘न प्रकाशत’ – इत्यादिव्यवहारोऽभिज्ञादिसाधारणः , ‘अस्ति’ , ‘प्रकाशत’ – इत्याद्यभिज्ञासाधारणव्यवहाराभावो वा ।

तथा च अज्ञानेन सम्पादितेन सम्बन्धेन चैतन्ये नास्ति इत्यादिव्यवहारो जायते ।

एतद्व्यवहारदर्शनात् च चैतन्यमेवाज्ञानविषय इति निश्चीयते ।

न च घटादावप्ययं व्यवहार इति तेषामपि तथात्वम् इति वाच्यम् । घटादीनां जडत्वेन तत्रावरणकल्पनस्यानर्थकत्वात् , अज्ञानोपादानकत्वेन च संसारहेत्वज्ञानविषयत्वासम्भवात् अन्योन्याश्रयापत्तेः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me