नालीकासनमीश्वरः शिखरिणाम्

नालीकासनमीश्वरश्शिखरिणां तत्कन्धरोत्थायिनो

गन्धर्वाः पुनरेतदध्वचरितौ चक्रे तदुद्धारकः ।

पत्री तत्प्रभुवैरिणां परिवृढो जीवा च यस्याभवत्

तस्यान्तेवसतां रिपुक्षयविधौ देवाय तस्मै नमः ।

इतिगुरुमुखलब्धश्लोकः ।

तत्र वैचित्र्यमिदं यत् सर्व्वनामभिः पूर्व्वोक्तप्रातिपदिकस्यैवार्थान्तरस्य परामर्शः क्रियते , विभक्तिलिङ्गव्यत्यासश्च भवत्येव ।

तथा हि –
शिखरिणां पर्वतानामीश्वरः स्वामी मेरुः ।
यस्य नालीकासनं धनुः अभवत् ।
तत्कन्धरोत्थायिनः नालीकासनग्रीवोत्थाः ब्रह्ममुखात्मका वेदाश्चत्वारः ; नालीकः कमलं तदेवासनं यस्य स ब्रह्मा इति ।
गन्धर्वा हयाः अभवन् ।
पुनः एतदध्वचरितौ = गन्धर्वाध्वचरितौ , गन्धर्वाणां मार्गे चरणं ययोस्तौ सूर्यचन्द्रौ यस्य रथस्य चक्रेभूताम् ।
तदुद्धारकः चक्रोद्धारकः विष्णुः । पत्री शरोभवत् ।
तत्प्रभुवैरिणां परिवृढः पत्रीणां श्येनानां प्रभुर्गरुडस्तस्य वैरिणः सर्पास्तेषां परिवृढ ईश्वरः । यस्य जीवा मौर्वी अभवत् ।
तस्य जीवस्य बृहस्पतेरन्तेवसतां शिष्याणां देवानाम् ।
रिपुक्षविधौ तस्मै देवाय नमः ।

कैश्चिदुक्तं ब्रह्मविद्याभरणादौ दृश्यते । विशिष्य कश्चन पुटादिकं निर्दिशेत् जानाति चेत् ।

– Published on Facebook on 27th June 2015