Oops! It appears that you have disabled your Javascript. In order for you to see this page as it is meant to appear, we ask that you please re-enable your Javascript!

दुःखाभावस्य स्वातन्त्र्येण पुरुषार्त्थत्वासम्भवः

चित्सुखाचार्य्यास्तु

दुःखाभावोऽपि मुक्तौ न स्वतः पुरुषार्थः ;
सर्वत्र दुःखाभावस्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावतया सुखशेषत्वात् ;
‘सुखस्यैव स्वतः पुरुषार्थत्वम् अन्येषां सर्वेषामपि तच्छेषत्वम्’ – इति सुखसाधनताज्ञानस्यैव प्रवर्तकत्वे सम्भवति दुःखाभावस्यापि स्वतः पुरुषार्थत्वं परिकल्प्य तत्साधनप्रवर्तकसङ्ग्रहाय इष्टसाधनताज्ञानस्य इच्छाविषयत्वप्रवेशेन गुरुघटितस्य प्रवर्तकत्वकल्पनाऽयोगात् ।

न च – दुःखाभाव एव स्वतः पुरुषार्थः , तच्छेषतया सुखं काम्यम् — इतिवैपरीत्यापत्तिः;
बहुकालदुःखसाद्ध्येऽपि क्षणिकसुखजनके निन्दितग्राम्यधर्म्मादौ प्रवृत्तिदर्शनात् तत्र क्षणिकसुखकालीनदुःखाभावस्य पुरुषार्त्थत्वे तदर्त्थं बहुकालदुःखानुभवायोगात् ।
न च तत्र क्षणिकसुखस्य पुरुषार्त्थत्वेपि दोषतौल्यं ; भावरूपे सुखे उत्कर्षापकर्षयोरनुभवसिद्धत्वेन क्षणमप्यत्युत्कृष्टसुखार्थं बहुकालदुःखानुभवोपपत्तेः , दुःखाभावे चोत्कर्षासम्भवात् ।
तस्मान्मुक्तौ संसारदुःखनिवृत्तिरप्यविद्यानिवृत्तिवत् सुखशेष इत्यनवच्छिन्नानन्दप्राप्तिरेव स्वतः पुरुषार्थः ।

इत्याहुः ॥



 

‘अविद्यानिवृत्तिवद् दुःखनिवृत्तिरपि स्वतः पुरुषार्थो न भवति ; अतो ब्रह्मानन्दस्फुरणसाधनतयैव अविद्यानिवृत्तेः ज्ञानसाध्यत्वमुपेयते’ – इतिमतम् आह — चित्सुखेति

मुक्तौ – इतिविशेषणात् ‘संसारदशायां सुखवत् दुःखाभावोऽपि स्वतः पुरुषार्त्थः’ – इतिभ्रान्तिः भवेत् ; तां वारयति — सर्वत्र – इति ।
दुःखदशायाम् आत्मस्वरूपभूतस्यापि सुखस्य अभिव्यक्तिशब्दितस्फुरणविशेषाभावेन दुःखस्य तदभिव्यक्तिप्रतिबन्धकत्वं कल्प्यते । तथा च तदभावस्य सुखाभिव्यक्तिशेषतयैव काम्यमानत्वं , न सुखवत् स्वतः पुरुषार्थत्वेन – इति भावः ।

सुखस्यैव स्वतः पुरुषार्थत्वकल्पने विनिगमकमाह — सुखस्यैव – इति ।
दुःखाभावस्य सुखशेषत्वे दुःखाभावसाधनान्यपि सुखसाधनानि भवन्ति । तथा च सुखसाधनेषु दुःखाभावसाधनेषु च सर्व्वत्र सुखसाधनताज्ञानस्यैव प्रवर्तकत्वं सम्भवति ।
दुःखाभावस्य स्वतः पुरुषार्थत्वकल्पने तु तत्साधनेषु सुखसाधनत्वस्य बाधितत्वात् , सुखसाधनताज्ञानात् तेषु प्रवृत्तिर्न सम्भवति ।

न च – तेषु दुःखाभावसाधनताज्ञानमेव प्रवर्तकमस्तु — इति वाच्यं;
तथा सति प्रवृत्तिमात्रे अनुगतकारणाभावप्रसङ्गात् ।
न च – तर्हि इष्टसाधनताज्ञानात् सर्वत्र प्रवृत्तिरस्तु ; दुःखाभावस्यापि सुखवद् इच्छाविषयतया इष्टपदेन सङ्ग्रहोपपत्तेः — इति वाच्यं;
प्रवृत्तित्वावच्छिन्नं प्रति कारणे इष्टसाधनताज्ञाने इष्टांशे सुखत्वजातेः प्रवेशकल्पने कारणतावच्छेदकलाघवं लभ्यते ; इष्टत्वरूपोपाधेः प्रवेशकल्पने तु कारणतावच्छेदकगौरवं भवेद् – इति ; सुखस्यैव स्वतः पुरुषार्थत्वपक्षो युक्तिमान् – इति भावः ।

तच्छेषत्वम् इति – इति । स्वीकृत्य – इति शेषः
प्रवर्तकत्वे – इति । प्रवर्तकत्वकल्पने – इत्यर्थः ।
तत्साधनेति। दुःखाभावसाधनेषु प्रवर्तकस्य दुःखाभावसाधनताज्ञानस्य सङ्ग्रहाय – इत्यर्थः ।

न च दुःखाभाव एव – इति ।
न च — इयं शङ्कैव नावतरति ; वैपरीत्यपक्षेदुःखाभावत्वरूपोपाधेरेव प्रवर्तकज्ञानकारणतावच्छेदकशरीरे प्रवेशापत्त्या इच्छाविषयत्वरूपोपाधिप्रवेशपक्षेइव गौरवदोषस्य तुल्यत्वाद् — इति वाच्यं;
सिद्धान्तेसुखस्य आत्मरूपतया एकव्यक्तित्वेन सुखत्वस्य जातित्वासम्भवं तस्योपाधिरूपत्वं च मन्वानस्य शङ्कासम्भवात् ।
इच्छाविषयत्वस्येव सुखत्वस्याप्युपाधिरूपत्वे सति सुखत्वप्रवेशेऽपि कारणतावच्छेदकगौरवाविशेषे सति विनिगमकाभावेन वैपरीत्याशङ्का युक्तैव – इति भावः ।

सिद्धान्तेवस्तुतः सुखव्यक्तेरेकत्वेप्यौपाधिकभेदाङ्गीकारेण सुखत्वस्य जातित्वाक्षतेः , वैपरीत्यं वक्तुं न शक्यते’ – इति मनसि निधाय दोषान्तरमाह — बहुकालेति
लोके हि क्षणिकसुखोद्देशेन बहुकालदुःखानुभवमङ्गीकृत्याप्यगम्यागमनादौ प्रवृत्तिर्दृश्यते । सा च दुःखाभावस्यैव स्वतः पुरुषार्त्थत्वपक्षे न सम्भवति – इत्यर्थः ।

कुत – इति ।
अत आह — तत्र – इति । निन्दितप्रवृत्तिस्थले – इत्यर्थः ।
सुखस्य दुःखाभावशेषत्वपक्षेसुखकालीनो यो दुःखाभावः , तं प्रत्येव सुखस्य शेषत्वं वाच्यं ; कालान्तरीयं दुःखाभावं प्रति तस्य शेषत्वासम्भवात् । तथा च क्षणिकसुखकालीनदुःखाभावं क्षणिकम् उद्दिश्य बहुकालदुःखानुभवाङ्गीकारस्य अयुक्तत्वाद् – इत्यर्थः ।

न च तत्र – इति । निन्दितप्रवृत्तिस्थले इत्यर्थः ।

दोषतौल्यम् – इति । बहुकालदुःखानुभवाङ्गीकारायोगरूपदोषस्य तुल्यत्वम् इति न च – इत्यर्थः ।

दुःखाभावस्यैव स्वतः पुरुषार्थत्वपक्षेऽपिक्षणिकसुखकालीने दुःखाभावे उत्कर्षः कल्प्यताम् – इति ।
तत्राह — दुःखाभावे च – इति ।
अभावस्योत्कर्षादिजात्याश्रयत्वानभ्युपगमाद् – इति भावः ।

तस्माद् – इति । दुःस्वाभावस्य स्वतः पुरुषार्थत्वासम्भवाद् – इत्यर्थः ।