गतिसामान्येति । सर्ववेदान्तवाक्यानाम् अद्वैतावगतिजनकत्वेन समानता – इत्यर्थः ।
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ – इतिवृद्धोक्तौ उपक्रमोपसंहार-पदाभ्यां विचार्यवाक्यस्याद्यन्तभागयोरेकार्थपर्यवसानं लक्ष्यते ।
अभ्यासः = अनन्यपरं पुनःश्रवणम् ।
अर्थवादः = स्तुतिनिन्दान्यतरबोधकवाक्यम् ।
एतत्त्रयं शब्दघटितत्वात् शब्दनिष्ठम् ।
Continue reading तात्पर्य्यलिङ्गानि