जीवन्मुक्तिविवेकस्य ब्रह्मसूत्रानुगामित्वम्

तत्र यथा –
आदौ अथातो ब्रह्मजिज्ञासा – इत्यधिकरणेन शास्त्रारम्भप्रयोजकानुबन्धचतुष्टयं प्रदर्श्य अथशब्देनाधिकारिणञ्च प्रसाध्य , ततो ब्रह्मस्वरूपज्ञानाय जन्माद्यस्य यत – इति लक्षणाधिकरणं प्रवृत्तं , लक्षणेन ज्ञाते तत्स्वरूपप्रमाणजिज्ञासायां शास्त्रयोनित्वात् – इत्यधिकरणं , शास्त्रयोनित्वं कथम् – इत्यपेक्षायां तत्समर्थनाय तत्तु समन्वयात् – इत्यधिकरणं , समन्वयश्च कथम् – इत्यपेक्षायाम् अध्यायशेषः , समन्वयस्य प्रत्यक्षादिविरोधपरिहाराय द्वितीयोध्यायः , अविरुद्धेन प्रमाणेन तत्सिद्धेः तत्प्राप्तिसाधनजिज्ञासायां तन्निरूपणाय तृतीयाध्यायः , तत्प्राप्तिसाधने ज्ञातेऽफलतत्प्राप्तिसाधनानुष्ठानानुपपत्तेः तत्फलजिज्ञासायां तन्निरूपणाय फलाध्यायः ।

तथा अत्रापि –
आरम्भप्रयोजकमनुबन्धचतुष्टयं वक्ष्ये विविदिषान्यासम् – इत्यादिश्लोकेन दर्शितं , संन्यासहेतुर्वैराग्यम् – इत्यारभ्य वैराग्यभेदादिप्रदर्शनपूर्व्वकं तस्माद्वेदनाय – इत्याद्यन्तेन अधिकारी साधितः , ततो जीवन्मुक्तिस्वरूपज्ञानाय जीवतः पुरुषस्य – इत्यारभ्य तस्य निवारणम् – इत्याद्यन्तेन तल्लक्षणमुक्तं , ततो नन्वयं बन्धः किम् – इत्याद्यारभ्य अधिगमय पदम् – इत्याद्यन्तेन तत्प्रतिपादितं , ततः तत्प्रमाणजिज्ञासायां श्रुतिस्मृतिवाक्यानि – इत्यारभ्य तदेवं विमुक्तश्च विमुच्यते – इत्याद्यन्तेन प्रमाणमुक्तं , ततस्तत्साधनजिज्ञासायाम् अथ जीवन्मुक्तिसाधनम् – इत्याद्यारभ्य तस्मात् सरूपो मनोनाश – इत्याद्यन्तेन तत्साधनं निरूपितं ततस्तत्फलजिज्ञासायां केयं जीवन्मुक्तिः किं वा तत्र प्रमाणम् इत्याद्यारभ्य तस्माद्योगीश्वरश्रेष्ठत्वात् इत्याद्यन्तेन तत्दलं निरूपितम् । एवं लक्षणादिभिर्जीवन्मुक्तिसिद्धौ तत्साधकतमविद्वत्संन्यासविशेषनिरूपणाय ग्रन्थशेषः ।

– इति जीवन्मुक्तिविवेकरत्नार्थदीपिकायां श्रीस्वामिपूर्णानन्दाश्रमा जीवन्मुक्तिविवेकस्य बादरायणसूत्रानुगामित्वोपपादनपराः ।