ग्रन्थाद्यादौ मङ्गलं शिष्टैः क्रियते । शिष्टाश्च न किञ्चिद्व्यर्थमाचरन्ति । न च मङ्गलानां लौकिकं किमपि प्रयोजनं दृश्यते । अत एव अलौकिकमेव किञ्चित्फलं वाच्यम् । तच्च फलं विघ्नध्वंसः केषाञ्चिन्मते , मते च केषाञ्चिद्ग्रन्थसमाप्तिः । वेदान्तिनां नये तु ईश्वरप्रीतिरेव । अत एव भाष्यकाराः फलमत उपपत्तेः – इतिसूत्रभाष्येऽपूर्व्वस्य निष्प्रमाणकत्वम् , अभ्युपगतस्यापि ईश्वरानधिष्ठितस्य स्वातन्त्र्येण फलदातृत्वासम्भञ्च आहुः (॥३।२।३८॥) –
अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः । तदस्तित्वे च प्रमाणाभावात् ।
अर्थापत्तिः प्रमाणमिति चेत् ।न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ।
बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते ।
ननु प्रभोः कोपहेतुव्यापारः अपराध इति लोके व्यवहारः, पापजनकस्यापराधत्वे तथात्वं स्यादिति चेत् ।स्यादेव । फलमत उपपत्तेः इत्यधिकरणे महर्षिणा बादरायणेन विहितनिषिद्धयोरीश्वरप्रसादकोपजनकत्वोक्तेः।न च – तथापि पापनाशफलकक्रियायाः कथं विष्णुप्रीतिफलकत्वमपीति – वाच्यम्। विहितक्रियामात्रस्येश्वरप्रसादजनकत्वात् , ईश्वरप्रसादस्यैव पुण्यरूपत्वस्य बादरायणसम्मतत्वात् ।
ईश्वरस्यैवान्यनैरपेक्ष्येण फलहेतुत्वव्यपदेशात् ।—————————–कोपितप्रसादितेश्वरस्यैव हेतुत्वात् । ईश्वरप्रसादकोपयोरेव कर्म्मव्यापारत्वात् ।
“देवताप्रसादो मङ्गलफलं विघ्नात्यन्तभावस्थलसाधारण्यात् ; तेन हि सति विघ्ने तद्ध्वंसः , असति तु प्रारिप्सितकृत्यौपयिकदृष्टकारणान्तरस्योपहारो वैशिष्ट्याधानं वा तत्र क्रियते ।” – इत्येव श्रद्धेयः सिद्धान्तः