ग्रन्थरचनायै सङ्कलनाकौशलम्

मालात्मना सङ्कलनीयपुष्पत्वेन रूपणं तु ग्रन्थरचनापरिपाटीषु सङ्कलनाकौशलस्य आवश्यकत्वप्रतीतये ।
विकीर्णस्य सङ्ग्रहः , सङ्क्षिप्तस्य विस्तरः , उक्तोपपादनम् , अन्यत्र सञ्चारितयुक्तेर्विषयान्तरे सञ्चारः , लेखनकौशलमजानता लिखितस्य सौष्ठवेन लेखनम् , अनुक्तकथनञ्च – इतिग्रन्थरचनाप्रकारेषु हि सङ्कलनाकौशलापगमे ग्रन्थस्योपहास्यतैव ।
– इति खण्डनखण्डखाद्यशारदाया राजहंसे
– श्रीशङ्करचैतन्यभारतीस्वामिनः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?