वंशे कस्मिन्नजनिषि कयोः पुत्रतामग्रहीषं
कत्यश्रौषं तदपि कतिधा तच्च सद्भ्यः कतिभ्यः ।
किं नाद्राक्षं व्यसनमपि वा किं सुखं नान्वभूवं
नोपारंसीत् तदपि हृदयं कीदृशो मे विपाकः ॥१॥
पादौ मे स्तः परमचतुरौ कीकटानेव गन्तुं
वागप्यास्ते निभृतमनृतान्येव वक्तुं वचांसि ।
मीमांसन्ते मम च मतयो दोषदृष्टौ परेषां
पङ्गुर्मूकः पशुरपि भवाम्यात्मनीने तु कृत्ये ॥२॥
यामाराद्धुं न गणितमिदं जीवितं वा धनं वा
यस्याः प्रीतिर्मनसि कलिता ज्यायसी मोक्षतोऽपि ।
सैवेदानीं वयसि चलिते सम्प्रहीणे च वित्ते
तूलायापि त्रिपुरहर मां मन्यते नैव भार्य्या ॥३॥
कृत्वा पापान्यपि खलु मया पोषिताः शैशवे ये
निद्राहारावपि विजहता शिक्षिता ये कलासु ।
प्रादुर्भूताः स्वयमिव हि ते प्राक्तनादृष्टलब्ध –
प्रज्ञोन्मेषा इव च तनया न स्मरन्त्यात्मनोऽपि ॥४॥
दाराः पुत्राः परमसुहृदो बान्धवाः किङ्करा वा
स्वप्नावस्थास्वपि च विरहं ये मया न क्षमन्ते ।
अत्यासन्ने तपनतनयस्याज्ञया दूतवर्ग्गे
तेष्वेकोऽपि स्मरहर न मे गन्तुमन्वस्ति जन्तुः ॥५॥
राज्ञो भृत्या यदि परिचिता देशिकस्यैष लाभो
राजद्वारे यदि खलु गतं नैमिशे तत् प्रविष्टम् ।
राजा दृष्टोऽथ च यदि परं ब्रह्म साक्षात्कृत् तत्
त्यक्तो देहो यदि नृपकुले मादृशां सोऽपवर्ग्गः ॥६॥
यत्तीर्थानामटनमथ यत् पूजनं देवतानाम्
इष्टापूर्त्तव्यसनमपि यत् यच्च दाक्ष्यं कलासु ।
अर्थप्राप्त्यौपयिकमखिलं जायते मादृशां तत्
ते चाप्यर्था धरणिशरणा भूमिभृत्सात्कृता वा ॥७॥
आकौमाराद् गुरुचरणशुश्रूषया ब्रह्मविद्या –
स्वास्थायास्थामहह महतीमर्ज्जितं कौशलं यत् ।
निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां
कालक्षेपौपयिकमिदमप्याः कथं पर्य्यणंसीत् ॥८॥
छाया तोयं वसनमशनं वाहनं दीपिका वा
क्रेतुं यस्मिन्किल न सुलभं किञ्चिदप्येषु मर्त्त्यैः ।
तस्मिन्दूरे पथि तनुभृतां सर्व्वथैवाभिगम्ये
प्रस्थानार्हं कमपि तु विधिं घस्मरा न स्मरामः ॥९॥
आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा
मन्दं मन्दं ह्रसति निहितः कालपाशोऽपि कण्ठे ।
आपृच्छ्यन्ते कृतजिगमिषासम्भ्रमाः प्राणवाता
नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥१०॥