अभेदपदार्थः

अद्वितीयस्वप्रकाशनिरतिशयानन्दरूपयोर्जीवब्रह्मयोरैक्यमपि उक्तानन्दरूपमेव ।

– गौडब्रह्मानन्दसरस्वत्यः ।

इत्थमभेदोद्वैतमते न सम्बन्धात्मको न वा अन्यत् किमपि किन्तु वस्तुस्वरूपमेव इति सूचितम् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

1 Comment on अभेदपदार्थः

  1. tat says:

    कोर्थः । किमभेदो न सम्बन्ध इति । तत् कथम् । अभेदो हि स तेनाभिन्न इति पदार्थभेदेनैव भाति इति सम्बन्धतैव तस्य युक्ता ।

What do you think?