मृद्घटादिदृष्टान्तः

अथ मृत्पिण्डादिघटादिदृष्टान्तानां परिणामानुकूलत्वं वा विवर्त्तानुकूलत्वं वा इति विचार्य्यते ।

तत्र छान्दोग्ये तावत् –
कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ? नैष दोषः, कारणेनानन्यत्वात्कार्यस्य ।
यन्मन्यसे अन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति — सत्यमेवं स्यात् , यद्यन्यत्कारणात्कार्यं स्यात् , न त्वेवमन्यत्कारणात्कार्यम् ।
कथं तर्हीदं लोके — इदं कारणमयमस्य विकार इति ?
शृणु । वाचारम्भणं वागारम्भणं वागालम्बनमित्येतत् ।
कोऽसौ ? विकारो नामधेयं नामैव नामधेयम् , स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति ; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति ॥ (॥६।१।३॥)
इति भाष्यम् ।

अत्र एकविज्ञानेन सर्व्वविज्ञानमुपपादयितुं कार्य्यस्य कारणानन्यत्वमुपपादितम् ।
कारणाभिन्नत्वात् कार्य्यस्य , एकस्य कारणस्य ज्ञानेनैव सर्व्वेषां कार्य्याणां ज्ञानं भवति इति प्रतिज्ञातम् । इदञ्च कार्य्यकारणयोर्भेदव्यवहारेण विरुद्ध्यते इति कथमयं व्यवहारो वेदान्तनये स्यात् इतिशङ्कायां ;
कार्य्यस्य नाममात्रत्वेन वाग्व्यवहारविषयत्वमुक्तं ; न हि कार्य्यस्य कारणभेदेन सत्त्वं तत्रोपयोगि ; तथा च कार्य्यकारणयोरभेदेपि नामभेदेनैव कार्य्यकारणयोर्भेदव्यवहारो जगति भवति इत्युक्तम् । कार्य्यं परमार्थतो मृत्तिकैव = कारणमेवास्ति इति चोक्त्वा एवकारेण कार्य्यस्यापारमार्थिकत्वं सूचितम् ।

इदमप्यत्रावधार्य्यं –
एकविज्ञानेन सर्व्वविज्ञानम् इत्यत्र तृतीया न करणत्वे किन्तु अभेदे । तथा च एकविज्ञानसाध्यं सर्व्वविज्ञानम् इति नार्थः किन्तु एकविज्ञानाभिन्नं सर्व्वविज्ञानम् इति । न हि घटज्ञानेन पटो ज्ञातो भवति , न वा मृत्तिकाया ज्ञानेन घटः इति ।
कथं तर्हि कारणविज्ञानेन सर्व्वविज्ञानम् इतिप्रयोग इति चेत् ।
कार्य्यस्य सर्व्वस्य कारणानन्यत्वात् , कार्य्यतत्त्वे च नामरूपयोर्व्यभिचारेण घटेतिनाम्नः पृथुबुध्नोदराकारादिसंस्थानस्य च आगमापायित्वेन = व्यभिचारित्वेन कारणस्यैव च स्थायित्वेन कारणज्ञानमेव कार्य्यतत्त्वज्ञानम् इतिमत्यैव एकस्य कारणस्य ज्ञानेन तत्कार्य्याणां सर्व्वेषां तत्त्वस्य ज्ञानं भवति इति ।
अत एव –
किमेतेनैकविज्ञानेन सर्व्वविज्ञानम् इत्यत्र मृद्घटदृष्टान्तस्य परिणामत्वविवर्त्तत्वादिविचारेणास्माकं सङ्गणकतारामण्डलघटपटादिविषयकं सर्व्वज्ञानं भविष्यति , न चेत् किमेतया चिन्तया
– इतिप्रलापो निरस्तः । मृद्घटदृष्टान्तस्य परिणामत्वादिविचारेण प्रकरणस्य शुद्धौ किं सर्व्वविज्ञानमत्राभिप्रेतम् इत्यस्य प्रकाशे सर्व्वज्ञानविषयकभ्रान्तेर्नाशस्यापि प्रयोजनत्वात् ।
इदमप्यवधार्य्यं यत् –
कार्य्यं न सर्व्वथा कारणाभिन्नं ; तथात्वे मृदैव जलाहरणादिव्यवहारापत्तेः ।
नापि सर्व्वथा तद्भिन्नं ; तद्विनापि सत्त्वापत्तेः ।
अत एव कार्य्यं कारणाद्भिन्नाभिन्नमेव । अयमेव सम्बन्धः तादात्म्यम् इत्युच्यते ।
इति ।
व्यवहारे हि सर्व्वान्प्रति घटमृदोर्भेदो भासते इति मृदोन्य एव घट इति आरम्भवादिनो वदेयुः । तन्निराकरणायात्र कार्य्यकारणयोस्तादात्म्यस्य घटकोभेदो बोद्ध्यते ।
कार्य्यकारणयोः अभेदे ज्ञातेपि कारणज्ञानमात्रेण न तत्तद्रूपेण तत्कार्य्याणां ज्ञानं सम्भवति इति तादृशमनुपपन्नं सर्व्वज्ञानं त्यक्त्वा कारणज्ञानमेव सकलतत्कार्य्यतत्त्वज्ञानम् इति एकविज्ञानस्य = कारणविज्ञानस्य सर्व्वविज्ञानत्वं पारिभाषिकमत्रोक्तम् इत्यङ्गीकर्त्तव्यम् ।

अत्रेदं विचार्य्यं यत् –
किमत्रैवकारेण सूचितमनृतत्वं अनिर्व्वचनीयत्वापरपर्य्यायं मिथ्यात्वं न वा ।
अस्ति चेत् घटस्य सर्प्पादिवत् अध्यस्तत्वेन किं तदधिष्ठानं स्यात् मृत्तिका वा ब्रह्म वा । मृत्तिका चेत् किं तत्र विवर्त्तकारणत्वलक्षणं सम्भवति न वा । ब्रह्म चेत् तत्र परिणामिकारणत्वं सम्भवति न वा । इति ।
नास्ति चेत् उक्तानृतत्वं कीदृशम् ।
इति ।

नाद्यः , घटवत् मृदोप्यनिर्व्वाच्यत्वेन मृत्तिकायाः सत्यत्वोक्त्यसम्भवात् ।
अत एव मृत्तिकाया अधिष्ठानत्वादिचिन्ता न कार्य्या । केनचिन्मृदो घटाधिष्ठानत्वाङ्गीकारे तज्ज्ञानेन घटानिवृत्तिः , मृदः स्वविषयकज्ञानानपेक्षा च तस्या विवर्त्तकारणत्वं विरुणद्धि । ब्रह्म चेत् घटादेरधिष्ठानं तर्हि सत्यम् इत्युक्तेः सम्भवेपि तदुपस्थापकपदाभावेन समन्वयासम्भवः । इति ।
अत एव अत्र अनृतत्वं न मिथ्यात्वं किन्तु तदतिरेकेणासत्त्वमेव । अथवा – तैत्तिरीयभाष्योक्तरीत्या घटत्वेन निश्चितस्य पदार्थस्य घटरूपव्यभिचारः एव तस्य मिथ्यात्वं = व्यभिचारित्वं ; स च पदार्थो मृत्तिका , सा च घटत्वेन निश्चितापि घटत्वं त्यजति कपालाद्यवस्थायाम् इति घटत्वादिरूपं तस्या अनृतं = व्यभिचारि ; सैव च मृत् मृत्त्वेन निश्चिता न स्वं रूपं त्यजति व्यवहारावस्थायाम् इति मृत्त्वं तस्याः सत्यं रूपम् इति ।

तथैव कारणस्योच्यमानं सत्यत्वमपि किं पारमार्थिकत्वं वा व्यावहारिकत्वं वा प्रातिभासिकत्वं वा इत्यपि चिन्तनीयम् ।
इति ।
न हि मृत्तिका घटाधिकसत्ताका । अत एव पारमार्थिकत्वं न सत्यत्वमत्र । नापि सा घटन्यूनसत्ताका इति न प्रातिभासिकत्वमप्यत्र सत्यत्वम् । नापि व्यावहारिकत्वं सत्यत्वमत्र , सत्यपदेन तद्ग्रहणे तस्य विकारेपि सत्त्वेनानृतत्वोक्तेरसम्भवात् ।
इति ।

इदमत्र द्रष्टव्यं यत्-
कार्य्यस्यैवात्र कारणाभिन्नत्वमुक्तं न तु परिणामस्यैव केवलं न वा विवर्त्तस्यैव वा । उपपद्यते च कारणानन्यत्वं कार्य्यस्योभयत्र कारणसत्तातिरेकेण सत्ताभावात् । न हि रज्जुसत्तातिरेकेण सर्प्पस्यास्ति काचन सत्ता , न वा मृदं विना घटस्य । तथा च इदं प्रकरणं यथा मायोपहितचैतन्यरूपपरिणामिकारणज्ञानेन तत्कार्य्यज्ञानोपपत्तयेलं तथैव शुद्धचैतन्यात्मकविवर्त्तकारणज्ञानेन सर्व्वज्ञानोपपत्तयेपि ।

अथापि मृद्घटदृष्टान्तस्य विवर्त्तानुकूलत्वं वा परिणामानुकूलत्वं वा इतिशङ्का तु तदवस्थैव ।
तत्र यावत् परिणामविवर्त्तयोर्लक्षणे नाभिधीयेते तावत् किं वक्तुं शक्येत इति पञ्चदश्यादावुक्ते ते आदाय विचार्य्यते ।

किञ्च पञ्चदश्यां मृत्कुम्भस्य परिणामदृष्टान्तत्वम् –
अवस्थान्तरतापत्तिरेकस्य परिणामिता ।
स्यात् क्षीरं दधि मृत्कुम्भः सुवर्णं कुण्डलं यथा ॥८॥
अवस्थान्तरभानं तु विवर्तो रज्जुसर्पवत् ।
निरंशेऽप्यस्त्यसौ व्योम्नि तलमालिन्यकल्पनात् ॥९॥
इत्युक्त्वा
अग्रे
मृद्रूपस्यापरित्यागाद्विवर्तत्वं घटे स्थितम् ।
परिणामे पूर्वरूपं त्यजेत्तत्क्षीररूपवत् ।
मृत्सुवर्णे निवर्तेते घटकुण्डलयोर्न हि ॥४७॥
घटे नष्टे न मृद्भावः कपालानामवेक्षणात् ।
मैवं चूर्णेऽस्ति मृद्रूपं स्वर्णरूपं त्वतिस्फुटम् ॥४८॥
क्षीरादौ परिणामोऽस्तु पुनस्तद्भाववर्जनात् ।
एतावता मृदादीनां दृष्टान्तत्वं न हीयते ॥४९॥
इत्यंशेन पूर्व्वरूपनाशाभावेनापि घटादीनां मृदादिविवर्त्तत्वं साधितम् ।
इति पूर्व्वापरविरोधः कथं परिहरणीयः ।

अत्रेदं द्रष्टव्यं यत् अष्टमनवमयोरुक्ते लक्षणे विवर्त्तपरिणामसाधारणे । तथा हि – यस्य कस्यापि या अवस्थान्तरतापत्तियोग्यता सा तस्य परिणामिकारणता , न चात्रावस्थान्तरे वस्तुतत्वं वावस्तुत्वं वा विशेषितम् इति परिणामिविवर्त्तसाधारणता । तथैव अवस्थान्तरभानं विवर्त्त इत्यत्र अवस्थाया भावो वाभावो वा न विवक्षित इति अवस्थासत्त्वेन तज्ज्ञाने सति परिणामानुकूलत्वं तदसत्त्वे तज्ज्ञाने सति विवर्त्तानुकूलत्वम् इति । अत एव तार्किकमतेन सर्व्वकार्य्याणां परिणामत्वमुपपादयितुमेव अष्टमश्लोको न तु वेदान्तनयेन तदुपन्यासः । तथैव सर्व्वकार्य्याणां विवर्त्तत्वमुपपादयितुमेव नवमश्लोको न तु तार्किकादिमतेन तदुपन्यासः इति ।
भवति च तार्किकनये मृद्घटादीनां सर्व्वेषामपि परिणामत्वम् ।
यद्यपि वेदान्तनये सर्व्वेषां कार्य्याणां ब्रह्मविवर्त्तत्वमङ्गीक्रियते न तु मृदादिविवर्त्तत्वं तथापि विद्यारण्यमुनिना कलितेनानेन प्रस्थानान्तरेण सर्व्वेषामेव कार्य्याणां विवर्त्तत्वमुपपादयितुमिदं प्रकरणं रचितम् । भवति च विवर्त्तत्वं घटे स्थितम् इत्याद्यत्रानुकूलम् । घटस्य मृद्विवर्त्तत्वं साधयितुञ्चात्र तस्य तदनुस्यूतत्वमुक्त्वा कारणेनाननुस्यूतानामेव परिणामता , तदनुस्यूतानाञ्च विवर्त्तता इतिलक्षणद्वयं सूचितम् ।
न च अस्मिन्प्रस्थाने सर्व्वेषां कार्य्याणां विवर्त्तत्वे क्षीरादीनां त्यागो नोचितः ; नैव क्रियते तत्रापि दुग्धावयवानामनुगतेः । तर्हि कथं विद्यारण्येन तत्र परिणामत्वमनुमतं ; तुष्यतु दुर्ज्जनन्यायेन इति गृहाण । तथा हि – कारणेन स्वरूपमत्यक्त्वा कार्य्याकारेण यत्र दृश्यते तत्र कार्य्यस्य विवर्त्तत्वं ; यत्र च स्वरूपं त्यक्त्वा तथाभावः तत्र परिणामता इति लक्षणद्वयम् । अत्र लोकानामपि घटादौ मृदो मृत्त्वत्यागस्यास्वीकारात् घटादेर्विवर्त्तता ; दधनि तु क्षीरानुगतेरभानात् परिणामता इति ।
वस्तुतस्तु क्षीरावयवानामेव दध्युपादानता , ते च न नष्टाः इति दध्नोपि तद्विवर्त्तता एव ; जनानां क्षीरानुगत्यभानं तु सूक्ष्मत्वात् , सहजतया पुनःक्षीरावस्थाया अप्राप्तेश्च । तथा हि मृदो घटात्मना परिणामेपि जनानामस्त्येव मृदस्त्यत्रेतिधीः ; न तु तथा दधनि , क्षीरं नष्टम् इति दधि जातम् इत्यस्या एव धियो दर्शनात् । तथैव घटस्य मुद्गराघातादिना कपालादिरूपापत्तिक्रमेण सहजतया मृद्भावापत्तिरपि लोकैरनुभूता ; दध्नस्तु पुनःक्षीरभावापत्तिर्न सहजतया भवति इति तत्र दुग्धं नष्टमेव इति मन्यन्ते जनाः ।
अत एव विद्यारण्येनोक्तायां प्रक्रियायां क्षीरदध्यादयस्सर्व्वेपि विवर्त्ता एव । अत एव उक्तं कारणानुस्यूतिमतां कार्य्याणां विवर्त्तता इतिलक्षणं यत्र कार्य्यस्य पुनः कारणभावापत्तिस्तत्र विवर्त्तता इतिलक्षणञ्च क्षीरदधिमृद्घटरज्जुसर्प्पेषु समानं प्रवर्त्तते तत्प्रक्रियायाम् ।
इदन्त्वन्यत् यत् सिद्धान्ते आरम्भवादस्यास्वीकारेपि परिणामविवर्त्तावङ्गीक्रियेते ; तत्र च कारणविषयकाज्ञानापेक्षस्य कार्य्यस्य विवर्त्तता इति रज्जुसर्प्पादीनामेव रज्जुविवर्त्तता , तदनपेक्षस्य च परिणामता इति क्षीरदधिमृद्घटादीनां परिणामतैव इति ।

अपरं यद् भाष्यं –
सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या, यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते,
यथा वा पिण्डघटादि मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके ।
रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां
घटादिशब्दबुद्धी, तद्वत् सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते —\\
इति तदपि रज्जुसर्प्पदृष्टान्तेन सह मृद्घटस्य गणनात् तयोर्विवर्त्ततत्वे प्रमाणम् इति चेत् ।

न ; परिणामवादिनामपि कारणकार्य्ययोरभेदं वदतां कारणस्य कार्य्येनुगतिं च वदतां मते उक्ताभिधानादेरुपपत्तेः ।
मृदेव घटात्मना परिणता सा च तत्रानुवर्त्तते इति हि परिणामवादेङ्गीकृतेपि कारणव्यतिरेकेण कार्य्यस्य सत्त्वासम्भवेन कारणात्मकत्वं = कारणाभेदः । तथा सति कथं कार्य्यमिदमस्य कारणस्य इतिभेदप्रयोग उपपद्येत इतिशङ्कायां नामरूपप्राधान्येनैव तथाव्यवहारो न तु वस्तुभेदमुपजीव्य इतिसमाधानम् ।
किञ्च घटस्य मृद्विवर्त्तत्वे मृज्ज्ञानेन घटनिवृत्तेरापत्तिवारणाय विद्यारण्याद्युक्तरीत्या सोपाधिकत्वे भेदभ्रमनिवृत्तिमात्रफलकत्वं वाच्यं ; तदपि न सम्भवति , न हि केवलाया मृदो ज्ञानेन घटमृदोर्भेदधीर्निवर्त्तते किन्तु मृदेव कारणं तद्विना च घटो न सम्भवति इतिज्ञानेन अिवनाभावमादाय घटमृदोरभेदोपि सम्भाव्यते , तावदेव । इति विवर्त्तपरत्वं दुष्टम् ।
परिणामत्वपक्षे तु मृद्विज्ञानेन घटनिवृत्त्यापत्तिरपि न इति विशेषः । तथा च कारणव्यतिरेकेणाभावात् कारणसत्तयानुप्राणितत्वात् च कार्य्यतत्त्वं कारणमेव , तत्र घटादिपदव्यवहारस्तु न वस्तुतत्त्वमुपजीव्य किन्तु संस्थानविशेषप्रयुक्तनामादायैव इति वाचारम्भणत्वं = वागालम्बनत्वं कार्य्यस्य ; मृत्तिकायाः सत्यत्वन्तु कार्य्यानुस्यूतत्वेन अव्यभिचारित्वात् ।

इदमपि यद्भाष्यं –
सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते – सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम् , ‘ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमित्यवधारणात् । अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता ; अत इदमुच्यते – ज्ञानं ब्रह्मेति ।
इति तैत्तिरीयोपनिषदि ब्रह्मानन्दवल्ल्यां प्रथमेनुवाके प्रथममन्त्रस्थं तदपि न अनिर्व्वचनीयत्वसाधनायालं किन्तु व्यभिचारित्वरूपमिथ्यात्वसाधनायैव ।

अत्रापि अनृतपदेन विकार उक्तः , तस्यैव स्वरूपव्यभिचारित्वात् । तथा हि – मृद् घटत्वेन निश्चितापि मुद्गराघातेन स्वं रूपं घटत्वं त्यक्त्वा कपालत्वं प्राप्नोति , तथैव चूर्णत्वं , तथैव धूलित्वम् इति तस्या घटत्वादिरूपम् अनृतं = व्यभिचारि इति यावत् । मृदेव च मृत्त्वेन निश्चिता न मृत्त्वं कदापि त्यजति इति मृत्त्वं तस्याः सत्यम् ।
वेदान्ते च कारणस्य कार्य्यानुस्यूतत्वमात्रेण कार्य्यापेक्षयाव्यभिचारित्वेन सत्यत्वमुपचर्य्यते । भवति च मृत् सत्यं तद्वद् मायोपहितं ब्रह्मापि भवत्येव जगत उपादानम् इति तस्यापि स्वविकारापेक्षया सत्यत्वम् । अत एव विकारोनृतम् इत्युक्तम् । अत एव च छान्दोग्ये वाचारम्भणम् इतिपदस्य वागालम्बनम् इत्यर्थमुक्त्वा कोसौ इत्याकाङ्क्षामुत्थाप्य विकार इति समाहितम् ।
इदमवधार्य्यं यत् मृत्तिकेत्येव सत्यम् इतिश्रुतेर्दृष्टान्तत्वेनोपादानं यत्र कुत्रापि कृतं भाष्यकारैः तत्र ब्रह्मणः सर्व्वकारणत्वमादायाव्यभिचारित्वरूपं सत्यत्वमेवोक्तं , तथैव कार्य्यस्य सर्व्वस्य व्यभिचारित्वरूपमेवानृतत्वम् इति । न हि तैः तद्दृष्टान्तेन ज्ञाननिवर्त्त्यत्वादिरूपं मिथ्यात्वं साद्ध्यते कुत्रापि , उक्तश्रुतेस्तत्रासमर्थत्वात् ।

इदमपि भाष्यं यत्
कार्यमाकाशादिकं बहुप्रपञ्चं जगत् ; कारणं परं ब्रह्म ; तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः ? आरम्भणशब्दादिभ्यः । आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय
दृष्टान्तापेक्षायामुच्यते — ‘ यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति ।
एतदुक्तं भवति — एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ; यतो वाचारम्भणं विकारो नामधेयम् — वाचैव केवलमस्तीत्यारभ्यते — विकारः घटः शराव उदञ्चनं चेति ; न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ; नामधेयमात्रं ह्येतदनृतम् ; मृत्तिकेत्येव सत्यम् — इति एष ब्रह्मणो दृष्टान्त आम्नातः ; तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते ।
इति
अत्रापि कार्य्यकारणभावमादायैव सत्यत्वानृतत्वोक्तिरव्यभिचारित्वव्यभिचारित्वे एव प्रतिपादयति , न तु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वादिकम् । अत एव ब्रह्मव्यतिरेकेण कार्य्यजातस्याभाव इति गम्यत इत्युक्तम् । अत एव दृष्टान्तदार्ष्टान्तिकयोर्न परिणामविवर्त्तभावेन विशेषप्रतिपादने तात्पर्य्यं किन्तु कारणत्वकार्य्याभ्यामेव ।

आनन्दत्वनिरूपणम्

सत्यम् इत्यादिवाक्ये आनन्दपदेन समर्पितम् आनन्दत्वं हि निरूपाधीष्टत्वम् ।
न च इष्टत्वस्य पुरुषविशेषनिरूपितत्वेन मोक्षे च अन्यस्याभावेन ब्रह्मणोनानन्दत्वापातः , इष्टत्वोपलक्षितस्यैवानन्दपदेन विज्ञानमानन्दम् इत्यादिश्रुतौ समर्पणात् । तद्विशिष्टसमर्पणे वाक्यस्याखण्डार्थत्वासम्भवात् ।
न च पुरुषविशेषस्यैवोपाधित्वेन कथं निरुपाधित्वमिष्टत्वस्य इति वाच्यं ; अन्येच्छाधीनेच्छाविषयत्वस्यैवेष्टत्वनिष्ठसोपाधिकत्वेन विवक्षणात् । तथा च अन्येच्छानधीनेच्छाविषयत्वयोग्यत्वं आनन्दत्वं , तच्च सुखत्वजातिः । सुखत्वविशिष्टा च न शुद्धा चित् किन्तु विषयसंयोगादिजन्यवृत्तिविशेषावच्छिन्नैव ।
न च शुद्धे उक्तानन्दत्वस्याभावेनानन्दत्वापातः , अनानन्दत्वस्यापि धर्म्मत्वेन निर्विशेषे ब्रह्मण्यप्रसक्तेः ।
न च आनन्दे आनन्दत्वस्य कादाचित्कत्वे जगत्कारणत्वादिसाम्येन तटस्थलक्षणतैव , न तु स्वरूपलक्षणता ; उपलक्षणत्वेन स्वरूपबहिर्भावात् इति वाच्यम् ;
स्वरूपबहिर्भूतस्य सुखत्वस्य स्वरूपलक्षणत्वाभावस्येष्टत्वात् । न हि अस्माभिः सुखत्वं ब्रह्मणः स्वरूपलक्षणम् इत्युच्यते किन्तु आनन्दपदवाच्यतावच्छेदकधर्म्मोपलक्षितव्यक्तिरेव आनन्दपदलक्ष्या ब्रह्मस्वरूपलक्षणम् इति । तथा च ब्रह्मण एव धर्म्मान्तरोपलक्षितत्वेन लक्षणता स्वरूपेण च लक्ष्यता । यस्मिंश्च पक्षे शुद्धे न जगत्कारणता तस्मिन् पक्षे तु ज्ञानत्वानन्दत्वादेः कदाचित् ब्रह्मणि सत्त्वेनैव स्वरूपलक्षणतोपचर्य्यते इति ।
न च तथात्वे आनन्दत्वमेव कस्मात् तस्य इति वाच्यं ; आनन्दपदलक्ष्यत्वेन आनन्दत्वोपलक्षितत्वेनैवास्माकं तत्रानन्दत्वव्यवहारात् ।
इति शब्दार्थाब्भ्यां गौडब्रह्मानन्दसरस्वती ।

किञ्च उक्तयोग्यत्वरूपसुखत्वस्य सुखानन्दपदवाच्यतावच्छेदकत्वेपि ब्रह्मणि तद्राहित्येन यतो वाचो निवर्त्तन्त इतिश्रुत्युक्तमशक्यत्वमपि रक्षितं भवति ; न हि लक्ष्येपि शक्यतावच्छेदकसत्त्वमावश्यकं तथात्वे जहल्लक्षणाया असम्भवप्रसङ्गात् , न वा उपलक्षणस्य स्वरूपप्रवेशो येन तस्य तत्र सत्त्वमपेक्ष्येत । तथा च सुखत्वजातेः मोक्षकाले ब्रह्मण्यसत्त्वेपि कदाचिद् वृत्तिविशेषोपधानदशायां तत्र विद्यमानं सुखत्वमादायैव सुखस्वरूपत्वस्य सुखपदलक्ष्यत्वस्य चोपपत्तेर्न सुखपदघटितोक्तवाक्यस्य सखण्डार्थत्वं न वा यतो वाचो निवर्त्तन्त इतिश्रुतिविरोधः ।
ननु- जहल्लक्षणायां लक्ष्ये वाच्यतावच्छेदकसत्त्वस्यानावश्यकत्वेपि जहदजहल्लक्षणास्थले लक्ष्ये तत्सत्त्वमपेक्षितम् इति चेत् ।
न ; तथात्वे एकदेशस्यापि पदेन शक्त्यैवोपस्थितिसम्भवे लक्ष्यता न स्यात् । न च वेदान्तपरिभाषारीत्या इष्टापत्तिः ; जहदजहल्लक्षणायाः असम्भवापातात् , अत एव च जहदजहल्लक्षणां समर्थयद्भिस्तन्मतं खण्ड्यते । किञ्च तत्र यतो वाच इतिश्रुतिरपि विरुद्धा , न हि शक्त्यैव ब्रह्मणः पदबोद्ध्यत्वे ततो वाङ्निवृत्तिस्समर्थयितुं शक्यते । अत एव तच्छ्रुतिबलात् ब्रह्मणो लाक्षणिकत्वमेव वक्तव्यं , लक्षणा चेयं न जहती न वा अजहती इति विलक्षणैव जहदजहती अङ्गीक्रियते ।
न च यतो वाच इतिश्रुत्या सामान्यतः पदप्रवृत्तेरेव ब्रह्मणि निषेधेपि प्रमाणान्तरागम्यस्य तस्य शब्दागम्यत्वे अप्रामाणिकत्वस्य ततश्च वेदवैयर्थ्यस्यापत्तिं वारयितुं यथा लक्षणया पदविषयत्वमङ्गीकृत्य पदाबोद्ध्यत्वश्रुतेः पदेन शक्त्या अबोद्ध्यं ब्रह्म इत्यर्थसङ्कोचः क्रियते तथा जहदजहल्लक्षणास्थले शक्त्यङ्गीकर्तॄणां मते लौकिकपदाबोद्ध्यत्वेपि महावाक्यबोद्ध्यत्वमङ्गीकृत्य समाधातव्यम् इति वाच्यं ;
सत्यादिपदानां लौकिकवैदिकविभागस्याप्रसिद्धेः ।
न च लौकिकवाक्याबोद्ध्यत्वपरत्वमुक्तश्रुतेः इति वाच्यम् ;
?????

अहङ्कारास्मिते

 

In the Yoga Sutras, Sage Patanjali, speaks of अस्मिता, I-am-ness, which he explains as the apparent unification (एकात्मता/संयोग) of the seer (दृक्शक्ति/द्रष्टृ) and the seen (दृश्य) – दृग्दर्शनशक्त्योरेकात्मतेवास्मिता (YS 2.6). 
इदमत्रावधार्य्यं यत् प्रतिसूत्रमेकस्यैव पदस्य दर्शनं न समानार्थत्वव्याप्यम् । तथा च एकस्यैव पदस्य सूत्रेत्र योर्थस्तत्त्यागोन्यत्र क्रियत एव इति ।
इदमपि बोद्ध्यं यत् – व्याख्यातॄणां दृष्टिभेदस्य सत्त्वात् तेषां विचाराणां सङ्करमकृत्वा विचारः कर्त्तव्यः इति ।
दृग्दर्शनशक्त्योः = आत्मानात्मनोः एकात्मता = अभेदो या भ्रमे भासते सा एकात्मता अस्मिता इति सूत्रार्थः ।
अहङ्कार इत्यपीदमेवोच्यते वेदान्ते चिज्जडग्रन्थिरूपः ।
न च – अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या इतिसूत्रात् अनात्मन्यात्ममतेर्भ्रान्त्यात्मकत्वात् अविद्यात्वमेव इति अस्मितापदार्थस्य पृथग्गणनमनुचितम् – इति वाच्यम् ;
अविद्यायाः ख्यातित्वेन अस्मितायाश्च एकात्मत्वेन निरूपणेन भ्रान्तिविशेषोस्मिंस्तन्त्रेविद्या भ्रान्तिविशेषविषयश्चास्मिता इति भेदस्य स्पष्टत्वात् ।
अत्र केचन अनात्मन्यात्मधर्म्माणामध्यासोविद्या आत्मनि चानात्मधर्म्माणामध्यासः अस्मिता इत्यपि वदन्ति , सूत्रे अनात्माधिष्ठानकात्मत्वाध्यासस्यैवाविद्यात्वकथनात् अस्मितास्वरूपबोधकसूत्रे पारिशेष्यात् आत्माधिष्ठानकस्यानात्मधर्म्माध्यासस्यैव परिशेषेणास्मितात्वौचित्यात् । तत्र संवित् इतिपदं भाष्यानुरोधादध्याहर्त्तव्यं , मदुक्ते तु न स क्लेशः ।
On the other hand, अहंकार, the sense of I, also one among the 25 Tattvas accepted in Yoga, is an इन्द्रिय/अन्तःकरण and hence part of the seen (दृश्य), as explained in the Bhashya and Vartika of YS 2.18.
भवतात्रादौ अहङ्कार इत्यस्य I-ness इतिपरानुवादेन अस्मिताभेदः सूचितः । ततः अहङ्कारस्य पञ्चविंशतितत्त्वान्तर्भाव इन्द्रियत्वञ्च प्रतिपाद्य दृश्यत्वमापादितम् ।
अत्रेदं वक्तव्यं – किम् अहङ्कारस्यान्तःकरणत्वं योगिसम्मतं न वा ।
अस्ति चेत् किं तत्र प्रमाणम् ।
नास्ति इत्यत्र तु अहङ्काराभिन्नास्मितायाः इन्द्रियादिरूपविशेषान्प्रत्यविशेषत्वोक्तिः साधिका । अहङ्कारविकाराणि हीन्द्रियाणि मनश्च इति कथं वेदान्तसंस्कारेणाहङ्करान्तःकरणयोरभेदोक्तिः समीचीना स्यात् ।
इति ।
किञ्च , अहङ्कारस्य दृश्यत्वबोधनाय किं तत्त्वान्तर्भावो हेतूक्रियते किं वा इन्द्रियत्वम् । तदुभयमपि व्यर्थं ; पुरुषेतरत्वेनैव हेतुना दृश्यत्वस्य सिद्धेः ।
तथैव उक्तं वैलक्षण्यं तदैव सिद्ध्येत् यदा अस्मितायां वैलक्षण्यसाधकोयं हेतुर्न स्यात् ; न च तथास्ति , पुरुषभेदप्रकृतिविकारत्वाभ्यां प्रयुक्तस्य दृश्यत्वस्य तत्रापि सत्त्वात् ।
न च इन्द्रियत्वमादायैव वैलक्षण्यं विवक्षितम् इति वाच्यं ; अहङ्कारस्यान्तःकरणात्मकत्वे एव तत्रेन्द्रियत्वापादनसम्भवात् , न च तत्त्वं सम्भवति अहङ्कारस्येन्द्रियहेतुत्वात् ।
इदमवधार्य्यं यत् – योगनये अहङ्कारस्य विकारो मन एव अन्तःकरणपदेनोच्यते इन्द्रियसाम्यात् । अहङ्कारस्य तु न मनोविकारता किन्तु मनोहेतुतैव । अत्र प्रकृतेर्महत्तत्त्वाख्या बुद्धिर्जायते ततश्च तद्विकारस्याहङ्कारस्य अस्मि इतिप्रत्ययलक्ष्यस्य उक्तप्रत्ययात्मकस्य वा जनिः । तत इन्द्रियाणामुद्भवः । इति ।
महत्तत्त्वस्यैव विकारो वृत्तिः न तु मनस इति तु काशिकानन्दस्वामिभिस्सूचितं विवरणालम्बिव्याख्याने । अत एव करणमात्रं मनो न तु वृत्तेरुपादानमपि इति विशेषो योगमते ।
वेदान्तनये तु तादात्म्येनाध्यस्तं चिज्जडमेवाहङ्कारः , तत्र च जडमन्तःकरणं , वृत्तिरपि अन्तःकरणविकारः इति ।
Therefore, so it clearly seems that अहंकार and अस्मिता are separate entities. 
अस्मि इत्युल्लिख्यमानः पदार्थ एव अहङ्कार इति अस्मिता इति चोच्यते । तत्र भेदो नास्ति ।
But then why do some scholars think that both are one and the same? This seems to be implied by statements such as अस्मिताप्रभवाणीन्द्रियाणि (तत्त्ववैशारदी YS 1.17)
‘प्रकाशशीलतया खलु सत्त्वप्रधानाद् अहङ्काराद् इन्द्रियाण्युत्पन्नानि ।’ इति , ‘अस्मिताप्रभवाणि इन्द्रियाणि । तेनैषामस्मिता सूक्ष्मं रूपम् ।’ इति च वैशारद्यामुक्तम् इति अस्मिताहङ्कारयोरभेद एव ।

न च भोजवृत्तौ ‘न च अहङ्कारास्मितयोरभेदः शङ्कनीयः , यतो यत्रान्तःकरणम् अहम् इत्युल्लेखेन विषयान्वेदयते सोहङ्कारः , यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रमवभाति सा अस्मिता ।’ – इतिकथनात् अहङ्कारास्मितयोर्भेदः शङ्कनीयः । तत्र अहङ्कारतत्त्वस्याविषयत्वात् । तद्रीत्याहङ्कारो विषयोल्लेखे सत्येव , न च सर्ग्गादौ घटं जानामि इत्याद्युल्लेख इति अहङ्कारतत्त्वस्यासत्त्वमेव तद्व्याख्याने आपतेत् । अत एव संसारकालेनुभूयमानोन्य एवायमहङ्कार इति वाच्यम् ।

अत एव भोजव्याख्यानेपि अस्मितापदेनाहङ्कारतत्त्वमेव गृहीतं , तस्य च संसारहेतुत्वात् क्लेशत्वम् । तेनाहङ्कारपदेनोच्यमानं तु विषयानुसन्धानकालीनम् तदेव वा अन्तःकरणकार्य्यविशेषो वा  । अहङ्कारतत्त्वन्त्वन्तःकरणस्य कारणम् ।

Also the yogic idea of अस्मिता becomes more confusing because while the Sage mentions अस्मिता in the 2nd पाद as the second of the five क्लेशs (fundamental causes of suffering), 
अस्मितायाः क्लेशत्वं भ्रमात्मत्वात् । भ्रमोपि संसारहेतुरेव इत्येव क्लेशो नान्यथा ।
he also mentions it as a component of the fourth, and therefore the most advanced, state of संप्रज्ञात समाधि (see YS 1.17). 
किमत्र सम्प्रज्ञातसमाधिनिष्ठमुत्कृष्टत्वं क्लेशाविषयत्वेन सिषाधयिषितं यतश्च अहङ्कारस्य क्लेशत्वाभाव अर्थाल्लब्धः सूत्रविरोधी स्यात् इति विवक्षितं ;
तन्न समीचीनं सूक्ष्मविषयत्वेन कारणविषयत्वेन वा तदुपपत्तौ किं क्लेशाविषयत्वेन ।
किञ्च यदि क्लेशाविषयत्वमेवोत्कृष्टत्वनियामकं स्यात् तदा सम्प्रज्ञातसमाधेरपि परम्परया संसारविरोधित्वात् क्लेशात्मकाविद्याद्यविषयत्ववत् तद्विकाराविषयत्वमपि स्यात् । ततश्च सम्प्रज्ञातसमाधेरेवासम्भवः । न हि इन्द्रियादिविषयो वा भूतविषयो वा समाधिर्न भवति ।
In the context of संप्रज्ञात समाधि, अस्मिता is explained in the Bhashya as “realization which has only आत्मन् as its object” (एकात्मिका संवित्). How can this be the same as the अस्मिता of the क्लेशs?
एकात्मिका संवित् अस्मिता इत्यत्रापि अस्मि इत्येवं भासमानोहङ्कार एवोक्तो विषयासंस्पृष्टः । तत्र च आत्मनोपि विषयत्वात् समाधेरेकात्मविषयता साद्ध्यते व्याख्यातृभिः ।
समाधिनानुगतो विषयीकृतः क्लेशात्मकोहङ्कारः कथं स्यात् इतिप्रश्नस्तु भाति , परमुक्तस्यानिष्टत्वापादकं किम् इति न ज्ञायते । केवलं समाधिविषयत्वं न क्लेशत्वाभावव्याप्यम् इति तु पूर्व्वोक्तम् ।
Therefore, is it correct to conclude that अहंकार and अस्मिता are separate entities and that there are two mutually exclusive types of अस्मिताs mentioned in the Yoga Sutras? What are the thoughts of revered scholars in this forum?
अस्मितैवाहङ्कारतत्त्वम् अन्तःकरणस्य कारणम्  । विषयवेदनकाले भासमानोहङ्कारोन्यः अन्तःकरणकार्य्यम् । इतिभेदे ज्ञाते संशयो न तिष्ठेत् ।

उपलक्षणभेदौ

व्यावृत्ताकारत्वेन ज्ञानस्य भ्रमनिवर्तकता , न तु विशेषप्रकारकत्वनियमः । तथा हि –
व्यावृत्ताकारता हि द्वेधा भवति – विशेषणादुपलक्षणाच्च ।
तत्राद्ये सप्रकारकत्वनियमः ;
द्वितीयेऽपि धर्मान्तरस्य यदुपलक्षणं तस्माद्व्यावृत्ताकारत्वे सप्रकारकतैव ,
यदि तु स्वरूपोपलक्षणाद्व्यावृत्ताकारता , तदा निष्प्रकारकतैव ; उपलक्षणस्य तत्राप्रवेशात् , स्वस्य च स्वस्मिन्नप्रकारत्वात् ।
– इत्यद्वैतसिद्धौ मधुसूदनसरस्वती ।

व्यावृत्तिरत्र भेदश्चेत् भेदविशिष्टो य आकारः तद्वत्त्वेन इत्यर्थः ; भेदबुद्धिश्चेत् भेदबुद्धिविषयो य आकारः तद्वत्त्वेन इत्यर्थः ।
आकारो नाम विषयिता । स च नास्ति इतिव्यवहारविरोधी ज्ञानधर्म्मविशेषः ।

उपलक्षणं नाम कार्य्यानन्वयित्वे सत्यविद्यमानत्वे सति व्यावृत्तिजनकत्वम् । व्यावृत्तिरत्र भेदधीः ।
तद्द्विविधं – धर्म्मोपलक्षणं स्वरूपोपलक्षणं च ।
धर्म्मोपलक्षणं नाम तादृशमुपलक्षणं यत् विशेषणं लक्षयित्वा तद्वैशिष्ट्यधियं जनयति ।
स्वरूपोपलक्षणं तु तद् यत् स्वरूपमेव बोधयति ।
तत्रोभयत्राप्युपलक्षणमादौ स्ववैशिष्ट्यधियं जनयत्येव , तत उपलक्षणस्य स्वरूपबहिर्भूतत्वनिश्चयसत्त्वेन स्वोपलक्षितविषयधियं जनयति ।
धर्म्मोपलक्षणं तु धर्म्मविशिष्टविषयामेव तामुत्पादयति , स्वरूपोपलक्षणञ्च धर्म्मिमात्रविषयाम् ।

प्रज्ञास्थैर्य्यम्

प्रज्ञा = तत्त्वज्ञानम् । तद् द्विविधं – स्थितम् अस्थितञ्च इति ।
स्थितत्वम् अविच्छिन्नत्वम् ।
अविच्छिन्नत्वमाह वसिष्ठः –

अनुभूतो गुडः स्वादुर्देहच्छेदविकर्त्तनैः ।
न शक्यतेऽन्यथाकर्त्तुं तत्त्वालोकस्तथात्मनः ॥

– इति ।
भगवान् अप्याह –

यं लब्द्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
तस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

– इति ।

–  इति शब्दार्थाभ्यां विद्यारण्यपूर्णानन्दाश्रमौ

तत्रादिमं वचनं तत्त्वालोकपदेन ब्रह्मज्ञानमभिधत्तेः ।
यद्यपि आत्मस्वरूपस्य ज्ञानस्य न कदापि च्छेद इति युक्तं तथापि तदावारकाज्ञानविरोधिन्या मनोवृत्तेः ब्रह्मज्ञानपदाभिधेयाया न नित्यत्वम् इति स्वभावत एव द्वितीये वा तृतीये वा क्षणे नाशोऽवश्यम्भावी ; तथापि श्रवणादियोगादिसद्वासनाद्यभ्यासेन तस्य दार्ढ्यं प्रवाहात्मना सम्भवत्येव । अत एव तत्त्वज्ञानस्याविच्छिन्नता न सर्व्वथा गुडमाधुर्य्यवत् स्वाभाविकी , किन्तु अभ्याससम्पाद्यैव इति ध्येयम् ।

तथैव द्वितीयं वचनम् आत्मलाभं सर्व्वलाभाधिकम् इति मतिमतो मनुजस्य गुरुदुःखेनापि आत्मनि स्थितेर्विचलनाभावं बोधयति ।आत्मस्थितिर्नामात्ममतिः , सा च प्रमेति भ्रमेभ्यस्तस्या अभ्यर्हितत्वं मोक्षप्रयोजकत्वेन सर्व्वेभ्य उत्कृष्टत्वञ्च इति विवेकादिप्रयुक्तद्वितीयमात्रवैराग्यवतो भ्रमप्रतीतजिहासायुतस्य संन्यासिनः प्रमायां रतिस्समीचीनैव । तद्रतिबलादेव तस्य तन्नाशविरोधिसाधनानुष्ठानम् । ततश्च प्रवाहात्मनाऽविच्छिन्नता ।

इति द्रष्टव्यम् ।

ज्ञानस्य काम्यता

ननु ब्रह्मज्ञानं न काम्यं , सुखदुःखाभावान्यत्वात् तत्साधनान्यत्वात् च । तथा च कथं तत्साधने श्रवणादौ प्रवृत्तिः स्यात् ।
तथा हि –
ब्रह्मज्ञानं न सुखात्मकं ; ज्ञानस्य सुखत्वे सङ्करात् , सुखाकारवृत्तौ हि सुखत्वं भवति न ज्ञानत्वं , ज्ञानत्वञ्च सुखाकारमनोपरिणामान्ये एव भवति इति ज्ञानत्वसुखत्वयोरेकत्र साङ्कर्य्यं स्यात् ; ब्रह्मण एव सुखत्वात् अपि न अब्रह्म ब्रह्मज्ञानं सुखम् ; असुखात्मकमनोविकारत्वात् ।
न च ब्रह्मज्ञानं दुःखाभावात्मकं , भावरूपत्वात् , मनउपादानत्वात् च ।
न वा ब्रह्मज्ञानं सुखसाधनम् , आत्मस्वरूपसुखस्य नित्यत्वेन साधननिरपेक्षत्वात् , वृत्त्यात्मकसुखस्य च जन्यत्वेन मोक्षत्वासम्भवात् ।
न च ब्रह्मज्ञानं दुःखाभावसाधनं , ब्रह्मज्ञानिनामपि याज्ञवल्क्यादीनां रागद्वेषादिप्रयुक्तस्य , व्यासवसिष्ठादीनां मोहप्रयुक्तस्य , शङ्कराचार्य्यादीनाञ्च विद्याप्रयुक्तस्य दुःखस्य दर्शनात् ।
इति चेत् ।

न ; ब्रह्मज्ञानस्य दुःखध्वंसत्व-सुखव्याप्यत्वाभ्यां काम्यत्वसम्भवात् । चरमवृत्तेः कथञ्चन काम्यत्वासम्भवेपि सुखकाम्यतावच्छेदकत्वेन तत्साधनश्रवणादौ प्रवृत्तिसम्भवात् च ।
तथा हि –
ब्रह्मज्ञानं दुःखध्वंसरूपं , दुःखञ्चेदं तद् यद् मुमुक्षौ श्रवणाद्यायासेन जातम् । न च उक्तदुःखध्वंसत्वं चरमतत्त्वज्ञानेऽसम्भवि ; यन्मनोवृत्त्युदयक्षणे यन्मनोपरिणामो विच्छिद्यते यत्पूर्व्वञ्च विद्यते तन्मनोवृत्तिस्तन्मनःपरिणामस्य ध्वंसः , तदन्यस्य तत्त्वस्वीकारे धर्म्मितद्धेत्वादिकल्पनरूपात् गौरवात् ।
तथा च , उक्तदुःखविशेषध्वंसरूपत्वेन चरमतत्त्वज्ञाने काम्यतोपपद्यते इति ।

सुखव्याप्यत्वादपि चरमतत्त्वज्ञानस्य काम्यता । तथा हि –
आत्मस्वरूपमनवच्छिन्नं सुखं नित्यत्वाद् केनापि साधनेनाजन्यम् इति सुखजनकत्वेन न चरमवृत्तेः काम्यता यद्यपि तथापि सुखव्याप्यत्वेन काम्यता सम्भवति ।
यस्मिन्सत्यवश्यं दुःखं तत्र द्वेषो यथा युक्तः तथैव यस्मिन्सत्यवश्यं सुखं तत्र काम्यताप्युपपद्यते ।
न च इष्टहेतोरेव काम्यता दृष्टा , न तु इष्टव्याप्यस्यापि इति वाच्यं ;
कुन्त्याः सुखहेतुभगवद्दर्शनव्याप्यविपत्सु कामनाया दर्शनात् , न हि विपदः सुखहेतुर्भवन्ति , न वा तत्साधनभगवद्दर्शनस्य । उक्तं हि तया –
विपदस्सन्तु नश्शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत् स्यात् अपुनर्भवदर्शनम् ॥
इति ।
अपि च उदयनाचार्य्यैरपि बौद्धाधिकारे सुखव्याप्यत्वेन दुःखाभावस्य काम्यताऽशङ्क्य दूषिता । न च सुखव्याप्यत्वस्य काम्यत्वाप्रयोजकत्वे तन्निरासो युज्यते । न हि तत्र तैः सुखव्याप्यत्वस्य काम्यत्वाप्रयोजकत्वं वारितं किन्तु दुःखाभावस्य सुखव्याप्यत्वमेव इति च ।
भवति च चरमवृत्तौ अनवच्छिन्नात्मसुखाभिव्यक्तिर्नियमेन इति उक्तसुखव्याप्यत्वेन चरमवृत्तौ कामनोपपद्यते इति ।

सुखनिष्ठकाम्यतावच्छेदकत्वेनापि चरमवृत्तेः काम्यता सम्भवति ।
तथा हि –
वेदान्तनये सुखमात्मा ;
तस्य च न स्वरूपेण काम्यता , सिद्धत्वात् , कामनायाश्चासिद्धमात्रविषयत्वात् ;
नापि जन्यतया , आत्मनो नित्यत्वात् ;
नापि ज्ञानविषयत्वेन सुखस्य काम्यता , चैतन्याभेदेन सुखस्य वृत्त्यप्रकाश्यत्वात् ;
नापि आवरणाभावविशिष्टतया , तत्र वस्तुत आवरणस्याभावात् ;
किन्तु स्वावरणविरोधिवृत्तिविशिष्टतयैव ।
तथा हि –
अवच्छिन्नसुखविशेषस्यावारकं यदज्ञानं तद्विरोधिनी या चन्दनादिसंयोगादिजन्या सुखाकारा वृत्तिः , तद्विशिष्टतया सुखम् = आत्मा काम्यं भवति ।
न हि वृत्तौ सुखत्वं मुख्यम् , अस्मन्मते आनन्दो ब्रह्म इतिश्रुतिबलात् ब्रह्मण एव सुखत्वस्वीकारात् , तदितरत्र तत्स्वीकारे गौरवात् , उपाधिविशेषेण तस्यैव भोजनादिसुखत्वेन व्यवहारात् । अत एव विषयसंयोगजन्या सुखाकारा वृत्तिः केवलं सुखनिष्ठकाम्यतावच्छेदिकैव ।
काम्यतावच्छेदकवृत्तौ कामनाभावेपि तत्साधनेषु प्रवृत्तिः सम्भवति , साधनविशेषजन्यसुखाकारवृत्तिशिष्टस्यैव सुखस्य काम्यत्वात् ।
तथा च चन्दनादिजन्यसुखाकारवृत्तेः सुखत्वाभावेनाकाम्यत्वेपि तद्विशिष्टस्यैवात्मनः काम्यत्वेन उक्तसुखाकारवृत्तिसाधने विषयसंयोगादौ प्रवृत्तिरुपपद्यते , काम्यसुखप्रयोजकत्वात् ।
तद्वत् अनवच्छिन्नसुखस्यापि स्वावरणविरोधिचरमतत्त्वज्ञानविशिष्टतयैव काम्यता , तस्य च साधनं श्रवणादि उक्तसुखस्य प्रयोजकम् इति प्रवृत्तिविषयो भवति ।
अत्रापि न सुखत्वजातिमत्त्वेनैव काम्यत्वे लाघवम् । आत्मनश्च स्वरूपतः सुखात्मकत्वेपि सुखत्वजातिमत्ताध्यासिक्येव निर्द्धर्म्मकत्वविरोधित्वात् । सुखत्वजातिस्तु सुखावारकाज्ञानविरोधिमनोवृत्त्युपहितात्मन्येव , न तु उक्तमनोवृत्तिविशिष्टात्मनि कैवल्ये आत्मन्युक्तवृत्तिवैशिष्ट्याभावेऽसुखत्वप्रसक्तेः इति त्वन्यत् ।

ब्रह्मज्ञानिनां उक्तदुःखं तु चरमवृत्तिपूर्व्वभाव्येव । न हि चरमवृत्तिक्षणे तादृशं तेषां दुःखं सिद्धम् । तथा च दृश्योच्छेदक्षणवृत्तित्वात् चरमवृत्तेः उक्तोच्छेदसाधनत्वासम्भवेपि सुखव्याप्यत्वेन सुखप्रयोजकत्वेन च काम्यतोपपद्यते ।

परमहंसस्य कर्त्तव्यम्

परमहंसस्य ज्ञानिनः कामादिनिरोधो धर्म्मः श्रवणादिवत् ज्ञानतद्दार्ढ्यहेतुत्वात् दृढज्ञानस्यैव च मोक्षहेतुत्वात् ।

अत एव कामाद्यनुकूलो जनो निन्दितः-

यस्तु ज्ञानछद्मना यथेष्टाचाराकाङ्क्षी विद्वदपसदः कामादिशत्रून् भगवन्मायामोहिततया मित्राणि मन्यमानो वदति ‘सर्वथा कामादीनामबाधकत्वेन तन्निरोधनिर्बन्धो व्यर्थ एव’ – इति ;

तत्प्रत्युत्तरमुक्तं पञ्चदश्यां –

बोधात्पुरा मनोदोषमात्रात्क्लिश्यस्यथाधुना ।
अशेषलोकनिन्दा चेत्यहो ते बोधवैभवम् ॥
विड्वराहादितुल्यत्वं मा काङ्क्षीस्तत्त्वविद्भवान् ।
सर्वधीदोषसंत्यागाज्जनैः पूज्यः स देववत् ॥

– इति ।

अत्र सङ्ग्रहश्लोकौ –

यथा सर्पिणीं मारयित्वाथ तस्या
अपत्यानि यः स्थापयेन्मूढबुद्धिः ।
ददत्येव दुःखं मुहुस्तानि तस्मै
तथाऽज्ञाननाशेपि रागादयोऽज्ञम् ॥
अकिञ्चित्करताबुद्ध्या सर्पबाला उपेक्षिताः ।
येन तं घ्नन्ति ते प्रौढास्तथा रागादयोऽबुधम् ॥

– इति ।

इति जीवन्मुक्तिविवेकरत्नार्थदीपिकायां पूर्णानन्दाश्रमाः ।

एतेन कामक्रोधादिनिरोधः परमहंसस्य कर्त्तव्य इति सिद्धम् ।

किञ्च कामादिप्रयुक्तकर्म्मोपासनरतस्य ब्रह्मज्ञानसाधनश्रवणादित्यागिनः निन्द्यत्वमपि गम्यते ।



अतो योगद्वेषछद्मना सम्ग्ज्ञानादिद्वेष्टा त्वं नूनं भगवतो मायया मोहितोसि ।

अत एव अनुभवरहितः शिश्नोदरपोषणाय ब्रह्मवादी त्वं शिष्टगर्ह्योसि ।

तथा च त्वादृशान्ब्रह्मवादिनः शिष्टा गर्हयन्ति –

सर्वे ब्रह्म वदिष्यन्ति सम्प्राप्ते च कलौ युगे ।
नानुतिष्ठन्ति मैत्रेय शिश्नोदरपरायणाः ॥
कुशला ब्रह्मवार्त्तायां वृत्तिहीनाः सुरागिणः ।
तेप्यज्ञानतमा नूनं पुनरायान्ति यान्ति च ॥

– इति ।

इत्थं रागादीनां ज्ञानिन्यसम्भवः सूचितः । अत एव तन्निरोधाय यतितव्यं यतिना परमहंसेन विविदिषुणा विदुषा च ।



पञ्चदश्यामप्युक्तं –

बहुव्याकुलचित्तानां विचारात्तत्त्वधीर्न हि ।
योगो मुख्यस्ततस्तेषां धीदर्पस्तेन नश्यति ॥

इति ।

तथा च विविदिषोरपि परमहंसस्य कामादिनिरोधः कर्त्तव्यो ज्ञानाय ।



अस्थितप्रज्ञस्यापि ऐहिकबन्धसत्त्वात् बद्धत्वम् अविरुद्धम् । तदुक्तम् अष्टावक्रे –

तदा बन्धो यदा चित्तं किञ्चिद् वाञ्छति शोचति ।
किञ्चित् मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति ।
यस्याभिमानो मोक्षेपि ——————-विति ।

अत एव तस्यापि आत्मा ‘अहं ज्ञानी , मुक्तो , विधिनिषेधातीतो , धन्योहं , कोन्यो मत्सदृशोस्ति , कृतकृत्योहम्’ – इत्याद्यहङ्कृतो भवति ।

एतादृशाहङ्कारस्य च आसुरत्वमुक्तं वार्त्तिककारैः –

न चाध्यात्माभिमानोपि

इत्याद्‌युदाहृतवाक्येन ।

तस्य(अध्यात्माभिमानस्य) बन्धत्वञ्चाह अष्टावक्रः –

यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा ॥

अत एवोक्तं –

योगी योगाभिमान्येव भोगी भोगाभिमान्यपि ।
ज्ञानी मोक्षाभिमानोपि तत्त्वज्ञानाभिमानवान् ॥

इति ।

तथा बुद्धिरपि सन्मानादिप्राप्तौ हर्षेण , असन्मानादिप्राप्तौ विषादेन , समाने स्पर्द्धया , अधिकेषु ईर्ष्यया , स्वानुकूलस्तुत्या , तद्विपरीतनिन्दासूयाभ्यां , स्वस्य सर्व्वोत्कृष्टत्वप्रेप्सया , पूजाद्यर्थं शिष्टत्वसम्पादनेच्छया , दम्भादिभिश्च लिप्यते ।

न च – ज्ञानिनां कथमीदृशाभिमानादिकम् – इति वाच्यम् ।

अस्थितप्रज्ञानामीदृशाहङ्कारादिसत्त्वस्य उपरिष्टाद् वक्ष्यमाणत्वात् – ननु ज्ञानिनो विद्यामद आचार्य्यैर्नाभ्युपगम्यते – इत्यादिना , भगवन्मायामोहितत्वात् च ।

न च – ज्ञानिनां मायामोहितत्वं विरुद्धम् – इति वाच्यम् ।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥

– इत्यादिशास्त्रेणोक्तत्वात् । दृष्टत्वात् च ।

दृश्यते हि ज्ञानिनामप्युदाहृताहङ्कारादि । तच्च अन्यथानुपपद्यमानं मायामोहितत्वं गमयति ।

इत्थं ज्ञानिनोपि कामक्रोधाहङ्कारादिसत्त्वं तत्प्रयुक्तबन्धश्च भवति । तन्निरासाय ज्ञानिनापि परमहंसेन यतितव्यमेव , अन्यथा तस्य मोक्षासम्भवात् ।



एतदपि दृश्यताम् –
अत्र अविधिगोचरत्वं यथासम्भवं ग्राह्यम् । तथा हि – ज्ञाननिष्ठस्य जीवन्मुक्तस्य कृतकृत्यत्वात् प्राप्तव्यपरिहार्य्याभावेन , न कर्म्मोपासनाज्ञानशास्त्रविधिगोचरत्वम् । तथा , भक्तस्यापि भगवन्निष्ठत्वेन पुरुषार्थचतुष्टयविमुखस्य तदिच्छाभावात् , न कर्म्मज्ञानशास्त्रविधिगोचरत्वम् । अत एव , उक्तं – अनपेक्षक – इति ।

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥
न नाकपृष्ठं न च पारमेष्ठ्यं न सार्व्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजः प्रपन्नाः ॥
– इत्यादि च ।

विरक्तस्य तु मोक्षमात्रेच्छुत्वात् , न कर्म्मोपासनाविधिगोचरत्वम् ।

न च – एतेषां विध्यगोचरत्वात् यथेष्टाचरणं शङ्कनीयम् । यथेष्टाचरणनिमित्तस्य कामस्याभावात् ।
तथा हि – निवृत्ताविद्यस्य ज्ञाननिष्ठस्य इष्टाद्यभावात् , न यथेष्टाचारशङ्का । तदुक्तं वार्त्तिकसारे –

न यथेष्टाचारशङ्का तस्येष्टानिष्टवर्ज्जनात् ।

– इति ।
भक्तस्यापि भगवद्भजनासक्तस्य विषयेच्छाभावात् , न यथेष्टाचारः ।
विरक्तस्य च विषयदोषदर्शिनः श्ववान्ते पायसे इव तत्रेच्छाभावात् , न यथेष्टाचारशङ्का ।

इति ।

तथा च अविधिगोचरत्वं नात्यन्तिकं किन्तु साध्ये लब्धे साधनत्यागात्मक एव । 

किञ्च कामाद्यभावादेव यथेष्टाचरणमसम्भवि ।



भाष्यमपि –
न । अक्रियामात्रत्वाद्‌व्युत्थानस्य ।
अविद्यानिमित्तो हि प्रयोजनस्य भावो , न वस्तुधर्म्मः ; सर्व्वप्राणिनां तद्दर्शनात् । प्रयोजनतृष्णया प्रेर्य्यमाणस्य वाङ्मनःकायैः प्रवृत्तिदर्शनात् । सोकामयत जाया मे स्यात् -इत्यादिपुत्रवित्तादिपाङ्क्तलक्षणं काम्यमेव इति , उभे ह्येते साध्यसाधनलक्षणे एषणे एव – इति वाजसनेयिब्राह्मणेऽवधारणात् अविद्याकामदोषनिमित्ताया वाङ्मनःकायप्रवृत्तेः पाङ्क्तलक्षणायाः । विदुषोऽविद्यादोषानुपपत्तेः , क्रियाभावमात्रं व्युत्थानं , न तु यागादिवत् अनुष्ठेयरूपं भावात्मकम् । तच्चाविद्यावत्पुरुषधर्म्म इति न प्रयोजनमन्वेष्टव्यम् । न हि तमसि प्रवृत्तस्योदित आलोके यद् गर्त्तपङ्ककण्टकाद्यपतनं तत्किंप्रयोजनम् इतिप्रश्नार्हम् ।

व्युत्थानं तर्ह्यर्थप्राप्तत्वात् न चोदनार्थ इति , गार्हस्थर्ये चेत् परब्रह्मविज्ञानं जातं , तत्रैवास्त्वकुर्व्वत आसनं , न ततोन्यत्र गमनम् – इति चेत् ।
न । कामप्रयुक्तत्वात् गार्हस्थ्यस्य । एतावान्वै कामः , उभे ह्येते एषणे एव – इत्यवधारणात् ।
कामनिमित्तपुत्रवित्तादिसम्बन्धनियमाभावमात्रं व्युत्थानम् । न हि ततोन्यत्र गमनं व्युत्थानमुच्यते । अतो न गार्हस्थ्य एवाकुर्व्वत आसनमुत्पन्नविद्यस्य ।

इति विदुषः परिग्रहासम्भवं गार्हस्थ्यानुपपत्तिञ्च प्रतिपादयति ।



अन्यत्रापि –
यस्तु विद्वासंमन्योपि विषयसुखलम्पटो मधुमक्षिकामध्विव गृहस्थाद्याश्रमं न मुञ्चति स परिग्रहनिमित्तानर्थशतसङ्कुलतया न सुखलेशमपि प्राप्नोति ।

इति कामाधीनस्य अनर्थमपि प्रतिपादयति ।



इतोपि –
किञ्च , तस्य कामादिलिङ्गेन अज्ञतरतुल्यत्वञ्च निश्चीयते । कामादीनामज्ञलिङ्गत्वमुक्तं भागवते –
अबुधलिङ्गभावा – इति ।
सुरेश्वराचार्य्यैरप्युक्तं –

रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु ।
कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः ॥

– इति ।
आचार्य्यैरप्युक्तं –

कुशला ब्रह्मवार्त्तायां वृत्तिहीनाः सुरागिणः ।
तेप्यज्ञानतमा नूनं पुनरायान्ति यान्ति च ॥
ये तु वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् ।
ते तु वृथैव जीवन्ति पशुभिश्च समा नराः ॥

– इति ।

अत एव , तस्य नास्तिकत्वेन अन्त्यजादिवत् त्याज्यत्वमाहुः आचार्य्याः –

सांसारिकक्रियासक्तं ब्रह्मज्ञोस्मीतिवादिनम् ।
कर्म्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥
अहं ब्रह्मास्मि कर्त्तास्मि भोक्ता चास्मीति ये विदुः ।
ते नष्टा ज्ञानकर्म्मभ्यो नास्तिकाः स्युर्न संशयः ॥
सिद्धो मोक्षोहमित्येवं ज्ञात्वात्मानं भवेद्यदि ।
चिकीर्षुयः स मूढात्मा शास्त्रं चोद्घाटयत्यपि ॥

– इति ।

इति तादृशस्य सर्व्वभ्रष्टत्वं प्रतिपादितम् ।



तत्र –
तीव्रज्ञानगर्व्वादिनाभिभूयमानो भ्रान्त इव रागादिशत्रून् मित्रतया मन्यमानो

रागादयस्सन्तु कामं न तद्भावोपराद्ध्यते ॥
इच्छंस्तु कोटिवस्तूनि न बाधो ग्रन्थिभेदतः ॥
हत्वापि स इमान् लोकान् न हन्ति न निबद्ध्यते ॥
तस्य न केनचन कर्म्मणा लोको मीयते न मातृवधेन न पितृवधेन न भ्रूणहत्यया ।

इत्यादिश्रौतस्मार्त्तज्ञानार्थवादान् विधित्वेन गृहीत्वा विषयसुखासक्तो रागादिपोषको यथेष्टाचारी जीवन्मुक्तिनास्तिक आद्यः ।
तदुक्तं भगवता

यामिमं पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ॥
मोघाशा मोघकर्म्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीञ्चैव प्रकृतिं मोहिनीं श्रिताः ॥

इति ।
स च रोगमन्दबुबुक्षो मिष्टान्न इव जीवन्मुक्तिसाधकतमविद्वत्संन्यासादौ रुचिमलभमानो विषयदोषान् जानन्नपि तेषु भावनां बध्नन्

अलमर्थेन कामेन सुकृतेनापि कर्म्मणा ।
एभ्यः संसारकान्तारे न विश्रान्तमभून्मनः ॥

इत्यादिप्रकारेण नानुतप्यते ।
तदुक्तं वसिष्ठेन –

बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्म्मतिः ।
बध्नाति भावनां भूयो नरो नासी स गर्द्दभः ॥

इति ।

इति अर्थवादानां विधित्वासम्भवः प्रतिपादितः ।

तानर्थवादान्विधिवन्मत्त्वा प्रवृत्तस्य गर्दभतुल्यता चापि प्रतिपादिता ।

इदं सर्व्वं जीवन्मुक्तिविवेकरत्नार्थदीपिकाकारेण विविच्य प्रतिपादितमत्र स्थापितं मया ।

अत्रैतद्ध्येयं यत् कृतकृत्यस्य ज्ञानिनः न कर्त्तव्यं सम्भवति । यस्य च कर्म्मादौ रतिर्दृश्यते तस्याज्ञानित्वमेव । कथञ्चित् प्रमाणवस्तुमहिम्ना तस्य ज्ञानसम्भवेपि तस्य ज्ञानस्यादार्ढ्यान्मोक्षहेतुत्वासम्भवः । किञ्च कर्म्मोपासनारतस्य कामोवश्यमङ्गीकर्त्तव्यः , स च अज्ञानस्य लिङ्गम् ।

न च अमुकस्य कामसत्त्वेपि ज्ञानित्वमेव मुक्तत्वञ्च इति हठः कर्त्तव्यः ; हठादेव शपथेनैव वा ज्ञानित्वसिद्धौ मदीयज्ञानित्वे एव ते कस्मान्न श्रद्धा इति ।

न च तस्य ईश्वरकोटिकजीवत्वात् सर्व्वदा ज्ञानित्वमेव इति वाच्यम् । तर्हि गुरूपदेशादीनामप्यनपेक्षापातात् । न च सा इष्टा ; गुरूपदेशादीनामभावे ज्ञानस्यैवासम्भवात् ।

न च रमणादेर्गुरूपदेशाभावेपि ज्ञानं दृष्टम् इति वाच्यम् । तस्य ज्ञानस्य श्रौतत्वाभावात् ।
न च योर्थः श्रुत्योपदिष्टः स एव तस्याभात् इति वाच्यम् । आगमव्यतिरिक्तप्रमाणाविषयस्य ब्रह्मणस्तदैक्यस्य च अहं क इतिविचारमात्रेणापरोक्षासम्भवात् । यद् हि ज्ञातं प्राक् तदेव विचारयितुं शक्यते , न त्वज्ञातमपि । तच्च ज्ञानं प्रमाणजन्यमेव वाच्यम् । न च तर्कात्मको विचारः प्रमाणं येन तस्मात् ज्ञानं सम्भवेत् । अत एव तस्य श्रौतार्थज्ञानमेवासीत् इत्याग्रहे तस्य श्रुतिश्रवणमप्यासीत् इत्यङ्गीकर्त्तव्यमेव ।

अपि च किन्नामेश्वरकोटिकजीवत्वं , को वा जीवात् तत्र विशेषः , सोपि किमन्तःकरणादिप्रयुक्तो वा चैतन्यप्रयुक्तो वा ।
न तावत् इतरजीवेभ्योधिकैश्वर्य्यवत्त्वम् । बाह्यस्य तस्यादर्शनात् । किञ्च रोगक्षुधादिदर्शनमपि तद्विरोधि ।
न च इतरजीवापेक्षया सरलतया तत्त्वग्राहित्वं , के ते इतरजीवाः , सर्व्वे वा केचन वा , सर्व्वे चेत् तदज्ञाने तत्सापेक्षाधिक्यस्य ज्ञानासम्भवः , केचन चेत् ममापीश्वरकोटिकत्वम् ।
न च  स विशेषः चैतन्यप्रयुक्तः , तस्यैकरसत्वात् । अत एवान्तःकरणप्रयुक्ततैव वाच्या ; न च अन्तःकरणं प्रत्यक्षं येन तस्येश्वरकोटिकत्वं ज्ञातुं शक्येत । अत एव तस्य क्रियादिभिरेवान्तःकरणस्योत्कर्षो ज्ञातव्यः ; क्रिया च तस्योत्कर्षविपरीतैव ।

किञ्च पूर्व्वाश्रमप्रतिप्रत्तिः संन्यासिनां शास्त्रीयं न सम्भवति इति दर्शितं तद्‌भूताधिकरणे –

१४६. तद्‌भूताधिकरणम्
तद्‌भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः

भाष्यम्

सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् ; तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः । पूर्वधर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते — तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदपि अतद्भावः, न ततः प्रच्युतिः स्यात् । कुतः ? नियमातद्रूपाभावेभ्यः । तथा हि — ‘अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छा. उ. २-२३-१) इति, ‘अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्’ इति, ‘आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’ इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति । यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’ (जा. उ. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्यवरोहरूपाणि । न चैवमाचाराः शिष्टा विद्यन्ते । यत्तु पूर्वधर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् — ‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ (भ. गी. ३-३५) इति स्मरणात्, न्यायाच्च — यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते चोदनालक्षणत्वाद्धर्मस्य । न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥
 
इति ।
तथा च शास्त्रविपरीताचरणात् तस्य शिष्टत्वं न इति निश्चीयते ।
 

शिष्टबहिस्त्वञ्च निर्णीतं –

१४८. बहिरधिकरणम्
बहिस्तूभयथापि स्मृतेराचाराच्च

भाष्यम्

यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम्, यदि वा उपपातकम्, उभयथापि शिष्टैस्ते बहिष्कर्तव्याः — ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’ इति, ‘आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्’ इति च एवमादिनिन्दातिशयस्मृतिभ्यः । शिष्टाचाराच्च — न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः ॥ ४३ ॥
इति ।
तथा च तस्य पातित्यं कामवशत्वं शास्त्राननुसारित्वञ्च सिद्धम् इति कथं तस्य श्रोत्रियत्वाभावे गुरुत्वादिकमपि ।
 
इतोपि –
शास्त्रार्थानुसन्धानवतः श्रद्दधानस्य रागादिनाप्यभिभवो न सम्भाव्यते इत्याह – न च रागादिवशात् – इति । – इत्यवतरणिका प्रकटार्थविवरणकृतोनुभूतिस्वरूपाचार्य्याणाम्
भाष्यं तु – न च रागादिवशात्प्रच्युतिः , नियमशास्त्रस्य बलीयस्त्वात् । – इति ।
अस्यार्थः – यस्य शास्त्रं प्रमाणम् इतिनिश्चयो वर्त्तते तस्य शास्त्रविरुद्धमाचरणं न सम्भवति इति । यस्य तु काम एव शरणं तस्य परं तथैव भवति , न च तादृशस्य शास्त्रप्रमाणकत्वम् । अत एव तेन कृतमपि कर्म्माकृतमिव भवति इति विद्योपकारिकर्म्मासम्भवात् न तस्य विद्यापि जायते । इति ।
 
इति सर्व्वं विचार्य्यम् एव ।