यतीनां निवासकाले विकल्पः

​कुण्डिकोपनिषद्व्याख्याने उपनिषद्ब्रह्मेन्द्राः –
यदि श्रवणध्यानानधिकारी तदा ‘अष्टौ मांस्येकाकी यतिश्चरेत्’ – इतिश्रुत्यनुरोधेन अनिकेतश्चरेत् ।
यदि श्रवणाद्यधिकारी तदा अबाधकसत्सेवितपुण्यस्थले वसन् संशयादिपञ्चदोषशान्त्यन्तं सर्व्ववेदान्तश्रवणमननं निदिध्यासनं च कुर्व्वन् तत्फलीभूतार्थं सर्व्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रं दध्यात् =ध्यायेत् ।​
इति ।

अत्रैवमुक्तौ बीजं यात्रादौ सत्यां वेदान्तश्रवणाद्यसम्भव एव । श्रवणादिश्रुत्यन्यथानुपपत्तिरेव एतद्विकल्पप्रयोजिका इत्यर्थः ।
किञ्च यदि श्रवणादिना तत्त्वनिश्चयो जातः तदा नैतस्य यतेः एकत्रावस्थाने प्रयोजनम् ।
इतोऽपि पुण्यदेशेऽवस्थानपूर्व्वकश्रवणादिकालेऽपि परिग्रहादिकं सन्न्यासविरुद्धं नानुष्ठेयम् ।