दृष्टिसृष्टिपदार्थः तस्य मुख्यसिद्धान्तत्वञ्च

दृष्टिसृष्टिपदार्थो हि चतुर्द्धा निरूपयितुं शक्यते योन्यथानुपपन्नः सन् मिथ्यात्वं साधयितुमलं स्यात् –

१. दोषप्रयुक्तज्ञानविषयत्वसमानाधिकरणस्वज्ञानव्याप्यत्वम् ;

२. दोषप्रयुक्तज्ञानविषयत्वसमानाधिकरणस्वाज्ञानाभावव्याप्यत्वम् ;

३. स्वप्रकारकज्ञानविशेष्यकज्ञानजन्यत्वसमानाधिकरणस्वज्ञानव्याप्यत्वम् ;

४. पुरुषान्तरसमवेतज्ञानविषयत्वावच्छिन्नप्रतियोगिताकभेदसमानाधिकरणस्वज्ञानव्याप्यत्वम् ।

  • इति शब्दार्थाभ्यामद्वैतसिद्धिलघुचन्द्रिके ।

 

दृष्टिसृष्टिवादस्य मुख्यसिद्धान्तत्वमिदमेव यत् अस्य श्रुतिस्मृतिभाष्यटीकादिसम्मतत्वे सति लघुकल्पनात्वम् ।

तथैव अत्राधिकारितावच्छेदकं न विवेकवैराग्यादिकं , तेषां सृष्टिदृष्टिवादाश्रितं प्रत्यपि समानत्वात् ; किन्तु उपपादनकौशलम् । यो हि यां प्रक्रियां युक्तां भावयितुं शक्नोति स तत्राधिकारी , अन्योनधिकारी ।