प्रज्ञास्थैर्य्यम्

प्रज्ञा = तत्त्वज्ञानम् । तद् द्विविधं – स्थितम् अस्थितञ्च इति ।
स्थितत्वम् अविच्छिन्नत्वम् ।
अविच्छिन्नत्वमाह वसिष्ठः –

अनुभूतो गुडः स्वादुर्देहच्छेदविकर्त्तनैः ।
न शक्यतेऽन्यथाकर्त्तुं तत्त्वालोकस्तथात्मनः ॥

– इति ।
भगवान् अप्याह –

यं लब्द्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
तस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

– इति ।

–  इति शब्दार्थाभ्यां विद्यारण्यपूर्णानन्दाश्रमौ

तत्रादिमं वचनं तत्त्वालोकपदेन ब्रह्मज्ञानमभिधत्तेः ।
यद्यपि आत्मस्वरूपस्य ज्ञानस्य न कदापि च्छेद इति युक्तं तथापि तदावारकाज्ञानविरोधिन्या मनोवृत्तेः ब्रह्मज्ञानपदाभिधेयाया न नित्यत्वम् इति स्वभावत एव द्वितीये वा तृतीये वा क्षणे नाशोऽवश्यम्भावी ; तथापि श्रवणादियोगादिसद्वासनाद्यभ्यासेन तस्य दार्ढ्यं प्रवाहात्मना सम्भवत्येव । अत एव तत्त्वज्ञानस्याविच्छिन्नता न सर्व्वथा गुडमाधुर्य्यवत् स्वाभाविकी , किन्तु अभ्याससम्पाद्यैव इति ध्येयम् ।

तथैव द्वितीयं वचनम् आत्मलाभं सर्व्वलाभाधिकम् इति मतिमतो मनुजस्य गुरुदुःखेनापि आत्मनि स्थितेर्विचलनाभावं बोधयति ।आत्मस्थितिर्नामात्ममतिः , सा च प्रमेति भ्रमेभ्यस्तस्या अभ्यर्हितत्वं मोक्षप्रयोजकत्वेन सर्व्वेभ्य उत्कृष्टत्वञ्च इति विवेकादिप्रयुक्तद्वितीयमात्रवैराग्यवतो भ्रमप्रतीतजिहासायुतस्य संन्यासिनः प्रमायां रतिस्समीचीनैव । तद्रतिबलादेव तस्य तन्नाशविरोधिसाधनानुष्ठानम् । ततश्च प्रवाहात्मनाऽविच्छिन्नता ।

इति द्रष्टव्यम् ।

परमहंसस्य कर्त्तव्यम्

परमहंसस्य ज्ञानिनः कामादिनिरोधो धर्म्मः श्रवणादिवत् ज्ञानतद्दार्ढ्यहेतुत्वात् दृढज्ञानस्यैव च मोक्षहेतुत्वात् ।

अत एव कामाद्यनुकूलो जनो निन्दितः-

यस्तु ज्ञानछद्मना यथेष्टाचाराकाङ्क्षी विद्वदपसदः कामादिशत्रून् भगवन्मायामोहिततया मित्राणि मन्यमानो वदति ‘सर्वथा कामादीनामबाधकत्वेन तन्निरोधनिर्बन्धो व्यर्थ एव’ – इति ;

तत्प्रत्युत्तरमुक्तं पञ्चदश्यां –

बोधात्पुरा मनोदोषमात्रात्क्लिश्यस्यथाधुना ।
अशेषलोकनिन्दा चेत्यहो ते बोधवैभवम् ॥
विड्वराहादितुल्यत्वं मा काङ्क्षीस्तत्त्वविद्भवान् ।
सर्वधीदोषसंत्यागाज्जनैः पूज्यः स देववत् ॥

– इति ।

अत्र सङ्ग्रहश्लोकौ –

यथा सर्पिणीं मारयित्वाथ तस्या
अपत्यानि यः स्थापयेन्मूढबुद्धिः ।
ददत्येव दुःखं मुहुस्तानि तस्मै
तथाऽज्ञाननाशेपि रागादयोऽज्ञम् ॥
अकिञ्चित्करताबुद्ध्या सर्पबाला उपेक्षिताः ।
येन तं घ्नन्ति ते प्रौढास्तथा रागादयोऽबुधम् ॥

– इति ।

इति जीवन्मुक्तिविवेकरत्नार्थदीपिकायां पूर्णानन्दाश्रमाः ।

एतेन कामक्रोधादिनिरोधः परमहंसस्य कर्त्तव्य इति सिद्धम् ।

किञ्च कामादिप्रयुक्तकर्म्मोपासनरतस्य ब्रह्मज्ञानसाधनश्रवणादित्यागिनः निन्द्यत्वमपि गम्यते ।



अतो योगद्वेषछद्मना सम्ग्ज्ञानादिद्वेष्टा त्वं नूनं भगवतो मायया मोहितोसि ।

अत एव अनुभवरहितः शिश्नोदरपोषणाय ब्रह्मवादी त्वं शिष्टगर्ह्योसि ।

तथा च त्वादृशान्ब्रह्मवादिनः शिष्टा गर्हयन्ति –

सर्वे ब्रह्म वदिष्यन्ति सम्प्राप्ते च कलौ युगे ।
नानुतिष्ठन्ति मैत्रेय शिश्नोदरपरायणाः ॥
कुशला ब्रह्मवार्त्तायां वृत्तिहीनाः सुरागिणः ।
तेप्यज्ञानतमा नूनं पुनरायान्ति यान्ति च ॥

– इति ।

इत्थं रागादीनां ज्ञानिन्यसम्भवः सूचितः । अत एव तन्निरोधाय यतितव्यं यतिना परमहंसेन विविदिषुणा विदुषा च ।



पञ्चदश्यामप्युक्तं –

बहुव्याकुलचित्तानां विचारात्तत्त्वधीर्न हि ।
योगो मुख्यस्ततस्तेषां धीदर्पस्तेन नश्यति ॥

इति ।

तथा च विविदिषोरपि परमहंसस्य कामादिनिरोधः कर्त्तव्यो ज्ञानाय ।



अस्थितप्रज्ञस्यापि ऐहिकबन्धसत्त्वात् बद्धत्वम् अविरुद्धम् । तदुक्तम् अष्टावक्रे –

तदा बन्धो यदा चित्तं किञ्चिद् वाञ्छति शोचति ।
किञ्चित् मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति ।
यस्याभिमानो मोक्षेपि ——————-विति ।

अत एव तस्यापि आत्मा ‘अहं ज्ञानी , मुक्तो , विधिनिषेधातीतो , धन्योहं , कोन्यो मत्सदृशोस्ति , कृतकृत्योहम्’ – इत्याद्यहङ्कृतो भवति ।

एतादृशाहङ्कारस्य च आसुरत्वमुक्तं वार्त्तिककारैः –

न चाध्यात्माभिमानोपि

इत्याद्‌युदाहृतवाक्येन ।

तस्य(अध्यात्माभिमानस्य) बन्धत्वञ्चाह अष्टावक्रः –

यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा ॥

अत एवोक्तं –

योगी योगाभिमान्येव भोगी भोगाभिमान्यपि ।
ज्ञानी मोक्षाभिमानोपि तत्त्वज्ञानाभिमानवान् ॥

इति ।

तथा बुद्धिरपि सन्मानादिप्राप्तौ हर्षेण , असन्मानादिप्राप्तौ विषादेन , समाने स्पर्द्धया , अधिकेषु ईर्ष्यया , स्वानुकूलस्तुत्या , तद्विपरीतनिन्दासूयाभ्यां , स्वस्य सर्व्वोत्कृष्टत्वप्रेप्सया , पूजाद्यर्थं शिष्टत्वसम्पादनेच्छया , दम्भादिभिश्च लिप्यते ।

न च – ज्ञानिनां कथमीदृशाभिमानादिकम् – इति वाच्यम् ।

अस्थितप्रज्ञानामीदृशाहङ्कारादिसत्त्वस्य उपरिष्टाद् वक्ष्यमाणत्वात् – ननु ज्ञानिनो विद्यामद आचार्य्यैर्नाभ्युपगम्यते – इत्यादिना , भगवन्मायामोहितत्वात् च ।

न च – ज्ञानिनां मायामोहितत्वं विरुद्धम् – इति वाच्यम् ।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥

– इत्यादिशास्त्रेणोक्तत्वात् । दृष्टत्वात् च ।

दृश्यते हि ज्ञानिनामप्युदाहृताहङ्कारादि । तच्च अन्यथानुपपद्यमानं मायामोहितत्वं गमयति ।

इत्थं ज्ञानिनोपि कामक्रोधाहङ्कारादिसत्त्वं तत्प्रयुक्तबन्धश्च भवति । तन्निरासाय ज्ञानिनापि परमहंसेन यतितव्यमेव , अन्यथा तस्य मोक्षासम्भवात् ।



एतदपि दृश्यताम् –
अत्र अविधिगोचरत्वं यथासम्भवं ग्राह्यम् । तथा हि – ज्ञाननिष्ठस्य जीवन्मुक्तस्य कृतकृत्यत्वात् प्राप्तव्यपरिहार्य्याभावेन , न कर्म्मोपासनाज्ञानशास्त्रविधिगोचरत्वम् । तथा , भक्तस्यापि भगवन्निष्ठत्वेन पुरुषार्थचतुष्टयविमुखस्य तदिच्छाभावात् , न कर्म्मज्ञानशास्त्रविधिगोचरत्वम् । अत एव , उक्तं – अनपेक्षक – इति ।

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥
न नाकपृष्ठं न च पारमेष्ठ्यं न सार्व्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजः प्रपन्नाः ॥
– इत्यादि च ।

विरक्तस्य तु मोक्षमात्रेच्छुत्वात् , न कर्म्मोपासनाविधिगोचरत्वम् ।

न च – एतेषां विध्यगोचरत्वात् यथेष्टाचरणं शङ्कनीयम् । यथेष्टाचरणनिमित्तस्य कामस्याभावात् ।
तथा हि – निवृत्ताविद्यस्य ज्ञाननिष्ठस्य इष्टाद्यभावात् , न यथेष्टाचारशङ्का । तदुक्तं वार्त्तिकसारे –

न यथेष्टाचारशङ्का तस्येष्टानिष्टवर्ज्जनात् ।

– इति ।
भक्तस्यापि भगवद्भजनासक्तस्य विषयेच्छाभावात् , न यथेष्टाचारः ।
विरक्तस्य च विषयदोषदर्शिनः श्ववान्ते पायसे इव तत्रेच्छाभावात् , न यथेष्टाचारशङ्का ।

इति ।

तथा च अविधिगोचरत्वं नात्यन्तिकं किन्तु साध्ये लब्धे साधनत्यागात्मक एव । 

किञ्च कामाद्यभावादेव यथेष्टाचरणमसम्भवि ।



भाष्यमपि –
न । अक्रियामात्रत्वाद्‌व्युत्थानस्य ।
अविद्यानिमित्तो हि प्रयोजनस्य भावो , न वस्तुधर्म्मः ; सर्व्वप्राणिनां तद्दर्शनात् । प्रयोजनतृष्णया प्रेर्य्यमाणस्य वाङ्मनःकायैः प्रवृत्तिदर्शनात् । सोकामयत जाया मे स्यात् -इत्यादिपुत्रवित्तादिपाङ्क्तलक्षणं काम्यमेव इति , उभे ह्येते साध्यसाधनलक्षणे एषणे एव – इति वाजसनेयिब्राह्मणेऽवधारणात् अविद्याकामदोषनिमित्ताया वाङ्मनःकायप्रवृत्तेः पाङ्क्तलक्षणायाः । विदुषोऽविद्यादोषानुपपत्तेः , क्रियाभावमात्रं व्युत्थानं , न तु यागादिवत् अनुष्ठेयरूपं भावात्मकम् । तच्चाविद्यावत्पुरुषधर्म्म इति न प्रयोजनमन्वेष्टव्यम् । न हि तमसि प्रवृत्तस्योदित आलोके यद् गर्त्तपङ्ककण्टकाद्यपतनं तत्किंप्रयोजनम् इतिप्रश्नार्हम् ।

व्युत्थानं तर्ह्यर्थप्राप्तत्वात् न चोदनार्थ इति , गार्हस्थर्ये चेत् परब्रह्मविज्ञानं जातं , तत्रैवास्त्वकुर्व्वत आसनं , न ततोन्यत्र गमनम् – इति चेत् ।
न । कामप्रयुक्तत्वात् गार्हस्थ्यस्य । एतावान्वै कामः , उभे ह्येते एषणे एव – इत्यवधारणात् ।
कामनिमित्तपुत्रवित्तादिसम्बन्धनियमाभावमात्रं व्युत्थानम् । न हि ततोन्यत्र गमनं व्युत्थानमुच्यते । अतो न गार्हस्थ्य एवाकुर्व्वत आसनमुत्पन्नविद्यस्य ।

इति विदुषः परिग्रहासम्भवं गार्हस्थ्यानुपपत्तिञ्च प्रतिपादयति ।



अन्यत्रापि –
यस्तु विद्वासंमन्योपि विषयसुखलम्पटो मधुमक्षिकामध्विव गृहस्थाद्याश्रमं न मुञ्चति स परिग्रहनिमित्तानर्थशतसङ्कुलतया न सुखलेशमपि प्राप्नोति ।

इति कामाधीनस्य अनर्थमपि प्रतिपादयति ।



इतोपि –
किञ्च , तस्य कामादिलिङ्गेन अज्ञतरतुल्यत्वञ्च निश्चीयते । कामादीनामज्ञलिङ्गत्वमुक्तं भागवते –
अबुधलिङ्गभावा – इति ।
सुरेश्वराचार्य्यैरप्युक्तं –

रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु ।
कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः ॥

– इति ।
आचार्य्यैरप्युक्तं –

कुशला ब्रह्मवार्त्तायां वृत्तिहीनाः सुरागिणः ।
तेप्यज्ञानतमा नूनं पुनरायान्ति यान्ति च ॥
ये तु वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् ।
ते तु वृथैव जीवन्ति पशुभिश्च समा नराः ॥

– इति ।

अत एव , तस्य नास्तिकत्वेन अन्त्यजादिवत् त्याज्यत्वमाहुः आचार्य्याः –

सांसारिकक्रियासक्तं ब्रह्मज्ञोस्मीतिवादिनम् ।
कर्म्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥
अहं ब्रह्मास्मि कर्त्तास्मि भोक्ता चास्मीति ये विदुः ।
ते नष्टा ज्ञानकर्म्मभ्यो नास्तिकाः स्युर्न संशयः ॥
सिद्धो मोक्षोहमित्येवं ज्ञात्वात्मानं भवेद्यदि ।
चिकीर्षुयः स मूढात्मा शास्त्रं चोद्घाटयत्यपि ॥

– इति ।

इति तादृशस्य सर्व्वभ्रष्टत्वं प्रतिपादितम् ।



तत्र –
तीव्रज्ञानगर्व्वादिनाभिभूयमानो भ्रान्त इव रागादिशत्रून् मित्रतया मन्यमानो

रागादयस्सन्तु कामं न तद्भावोपराद्ध्यते ॥
इच्छंस्तु कोटिवस्तूनि न बाधो ग्रन्थिभेदतः ॥
हत्वापि स इमान् लोकान् न हन्ति न निबद्ध्यते ॥
तस्य न केनचन कर्म्मणा लोको मीयते न मातृवधेन न पितृवधेन न भ्रूणहत्यया ।

इत्यादिश्रौतस्मार्त्तज्ञानार्थवादान् विधित्वेन गृहीत्वा विषयसुखासक्तो रागादिपोषको यथेष्टाचारी जीवन्मुक्तिनास्तिक आद्यः ।
तदुक्तं भगवता

यामिमं पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ॥
मोघाशा मोघकर्म्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीञ्चैव प्रकृतिं मोहिनीं श्रिताः ॥

इति ।
स च रोगमन्दबुबुक्षो मिष्टान्न इव जीवन्मुक्तिसाधकतमविद्वत्संन्यासादौ रुचिमलभमानो विषयदोषान् जानन्नपि तेषु भावनां बध्नन्

अलमर्थेन कामेन सुकृतेनापि कर्म्मणा ।
एभ्यः संसारकान्तारे न विश्रान्तमभून्मनः ॥

इत्यादिप्रकारेण नानुतप्यते ।
तदुक्तं वसिष्ठेन –

बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्म्मतिः ।
बध्नाति भावनां भूयो नरो नासी स गर्द्दभः ॥

इति ।

इति अर्थवादानां विधित्वासम्भवः प्रतिपादितः ।

तानर्थवादान्विधिवन्मत्त्वा प्रवृत्तस्य गर्दभतुल्यता चापि प्रतिपादिता ।

इदं सर्व्वं जीवन्मुक्तिविवेकरत्नार्थदीपिकाकारेण विविच्य प्रतिपादितमत्र स्थापितं मया ।

अत्रैतद्ध्येयं यत् कृतकृत्यस्य ज्ञानिनः न कर्त्तव्यं सम्भवति । यस्य च कर्म्मादौ रतिर्दृश्यते तस्याज्ञानित्वमेव । कथञ्चित् प्रमाणवस्तुमहिम्ना तस्य ज्ञानसम्भवेपि तस्य ज्ञानस्यादार्ढ्यान्मोक्षहेतुत्वासम्भवः । किञ्च कर्म्मोपासनारतस्य कामोवश्यमङ्गीकर्त्तव्यः , स च अज्ञानस्य लिङ्गम् ।

न च अमुकस्य कामसत्त्वेपि ज्ञानित्वमेव मुक्तत्वञ्च इति हठः कर्त्तव्यः ; हठादेव शपथेनैव वा ज्ञानित्वसिद्धौ मदीयज्ञानित्वे एव ते कस्मान्न श्रद्धा इति ।

न च तस्य ईश्वरकोटिकजीवत्वात् सर्व्वदा ज्ञानित्वमेव इति वाच्यम् । तर्हि गुरूपदेशादीनामप्यनपेक्षापातात् । न च सा इष्टा ; गुरूपदेशादीनामभावे ज्ञानस्यैवासम्भवात् ।

न च रमणादेर्गुरूपदेशाभावेपि ज्ञानं दृष्टम् इति वाच्यम् । तस्य ज्ञानस्य श्रौतत्वाभावात् ।
न च योर्थः श्रुत्योपदिष्टः स एव तस्याभात् इति वाच्यम् । आगमव्यतिरिक्तप्रमाणाविषयस्य ब्रह्मणस्तदैक्यस्य च अहं क इतिविचारमात्रेणापरोक्षासम्भवात् । यद् हि ज्ञातं प्राक् तदेव विचारयितुं शक्यते , न त्वज्ञातमपि । तच्च ज्ञानं प्रमाणजन्यमेव वाच्यम् । न च तर्कात्मको विचारः प्रमाणं येन तस्मात् ज्ञानं सम्भवेत् । अत एव तस्य श्रौतार्थज्ञानमेवासीत् इत्याग्रहे तस्य श्रुतिश्रवणमप्यासीत् इत्यङ्गीकर्त्तव्यमेव ।

अपि च किन्नामेश्वरकोटिकजीवत्वं , को वा जीवात् तत्र विशेषः , सोपि किमन्तःकरणादिप्रयुक्तो वा चैतन्यप्रयुक्तो वा ।
न तावत् इतरजीवेभ्योधिकैश्वर्य्यवत्त्वम् । बाह्यस्य तस्यादर्शनात् । किञ्च रोगक्षुधादिदर्शनमपि तद्विरोधि ।
न च इतरजीवापेक्षया सरलतया तत्त्वग्राहित्वं , के ते इतरजीवाः , सर्व्वे वा केचन वा , सर्व्वे चेत् तदज्ञाने तत्सापेक्षाधिक्यस्य ज्ञानासम्भवः , केचन चेत् ममापीश्वरकोटिकत्वम् ।
न च  स विशेषः चैतन्यप्रयुक्तः , तस्यैकरसत्वात् । अत एवान्तःकरणप्रयुक्ततैव वाच्या ; न च अन्तःकरणं प्रत्यक्षं येन तस्येश्वरकोटिकत्वं ज्ञातुं शक्येत । अत एव तस्य क्रियादिभिरेवान्तःकरणस्योत्कर्षो ज्ञातव्यः ; क्रिया च तस्योत्कर्षविपरीतैव ।

किञ्च पूर्व्वाश्रमप्रतिप्रत्तिः संन्यासिनां शास्त्रीयं न सम्भवति इति दर्शितं तद्‌भूताधिकरणे –

१४६. तद्‌भूताधिकरणम्
तद्‌भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः

भाष्यम्

सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् ; तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः । पूर्वधर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते — तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदपि अतद्भावः, न ततः प्रच्युतिः स्यात् । कुतः ? नियमातद्रूपाभावेभ्यः । तथा हि — ‘अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छा. उ. २-२३-१) इति, ‘अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्’ इति, ‘आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’ इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति । यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’ (जा. उ. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्यवरोहरूपाणि । न चैवमाचाराः शिष्टा विद्यन्ते । यत्तु पूर्वधर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् — ‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ (भ. गी. ३-३५) इति स्मरणात्, न्यायाच्च — यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते चोदनालक्षणत्वाद्धर्मस्य । न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥
 
इति ।
तथा च शास्त्रविपरीताचरणात् तस्य शिष्टत्वं न इति निश्चीयते ।
 

शिष्टबहिस्त्वञ्च निर्णीतं –

१४८. बहिरधिकरणम्
बहिस्तूभयथापि स्मृतेराचाराच्च

भाष्यम्

यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम्, यदि वा उपपातकम्, उभयथापि शिष्टैस्ते बहिष्कर्तव्याः — ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’ इति, ‘आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्’ इति च एवमादिनिन्दातिशयस्मृतिभ्यः । शिष्टाचाराच्च — न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः ॥ ४३ ॥
इति ।
तथा च तस्य पातित्यं कामवशत्वं शास्त्राननुसारित्वञ्च सिद्धम् इति कथं तस्य श्रोत्रियत्वाभावे गुरुत्वादिकमपि ।
 
इतोपि –
शास्त्रार्थानुसन्धानवतः श्रद्दधानस्य रागादिनाप्यभिभवो न सम्भाव्यते इत्याह – न च रागादिवशात् – इति । – इत्यवतरणिका प्रकटार्थविवरणकृतोनुभूतिस्वरूपाचार्य्याणाम्
भाष्यं तु – न च रागादिवशात्प्रच्युतिः , नियमशास्त्रस्य बलीयस्त्वात् । – इति ।
अस्यार्थः – यस्य शास्त्रं प्रमाणम् इतिनिश्चयो वर्त्तते तस्य शास्त्रविरुद्धमाचरणं न सम्भवति इति । यस्य तु काम एव शरणं तस्य परं तथैव भवति , न च तादृशस्य शास्त्रप्रमाणकत्वम् । अत एव तेन कृतमपि कर्म्माकृतमिव भवति इति विद्योपकारिकर्म्मासम्भवात् न तस्य विद्यापि जायते । इति ।
 
इति सर्व्वं विचार्य्यम् एव ।
 

परमहंससंन्यासो नाश्रमः

सर्व एते त्रयोऽप्याश्रमिणः यथोक्तैर्धर्मैः पुण्यलोका भवन्ति ; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति ।

इतिच्छान्दोग्यभाष्यम्

तदाश्रितेयं पूर्णानन्दाश्रमस्योक्तिः

आश्रमरूपत्वं तु विविदिषासंन्यासस्य गौणं , मुख्यासम्भवात् ।
तथा हि – चत्वार आश्रमा ब्राह्मणस्य – इत्यादिशास्त्रेण आश्रमत्रयवत् चतुर्थाश्रमस्यापि चित्तशुद्धिद्वारा तमेतं वेदानुवचनेन-इत्यादिसर्व्व एते पुण्यलोका भवन्ति-इत्यादिश्रुतिभ्यां विविदिषोत्पादकत्वम् उत्तमलोकप्रापकत्वञ्च आश्रमत्वमुक्तम् – इति इतराश्रमसन्निधिपाठादिभ्यो ज्ञायते । तच्चाश्रमत्वं देवलोकादिप्राप्तिहेतूनां यज्ञादिवत् विविदिषोत्पादकत्वेन ज्ञानव्यवहितानां च कुटीचकादिसंन्यासानामेव सम्भवति । परमहंसस्य विविदिषाफलत्वेन तदुत्पादकत्वायोगात् ।

– इति ।



तप एव द्वितीयः ; तप इति कृच्छ्रचान्द्रायणादि तद्वान् तापसः परिव्राड्वा, न ब्रह्मसंस्थः आश्रमधर्ममात्रसंस्थः, ब्रह्मसंस्थस्य तु अमृतत्वश्रवणात् ; द्वितीयः धर्मस्कन्धः ।

इतिच्छान्दोग्यभाष्यम्

अत्र द्वितीयधर्म्मस्कन्धत्वेन आश्रमधर्म्ममात्रसंस्थस्य तपआदिनिरतस्य संन्यासिनो ग्रहणम् ।
ब्रह्मसंस्थपदेन च श्रवणादिनिरतानां परिव्राजकानां ग्रहणम् । इति भाष्यवचनादेवाश्रमात्मकसंन्यासभिन्नत्वं विद्वद्विविदिषात्मकपरमहंससंन्यासयोः सिद्ध्यति ।



लोकत्रयार्थैषणाभ्यो व्युत्थानं चापरिग्रहः ।
द्वयं बोधमहिम्नैव विदुषां , न तु यत्नतः ; ॥
फलात्मकोऽयं संन्यासस्तत्त्वविद्यापुरस्सरः ; ।
अन्यो विविदिषात्याग आपातज्ञानरूपतः ; ॥
कर्म्मानधिकृता अन्धबधिराद्या यथारुचि ।
आश्रमात्मकसंन्यासं गृह्णन्तूत्तमजन्मने ; ॥
संन्यास एवं त्रिविधो विद्वद्विविदिषाश्रमैः ; ।

– इति वार्त्तिकसारे संन्यासत्रैविध्यम्

आश्रमसंन्यासे कुटीचकबहूदकहंसानामन्तर्भावः , चित्तशुद्ध्युत्तमलोकसाधनत्वस्य सत्त्वात् । चित्तशुद्धिफलात्मिकया विविदिषया जातत्वात् , उक्तविविदिषोत्तरश्रवणाद्यनुष्ठानजन्यज्ञानप्रयुक्तत्वात् च विविदिषाविद्वत्संन्यासयोः नाश्रमरूपता , लिङ्गादिराहित्यस्यैव मुख्यत्वेन च परमहंसता ।

अमुख्यजीवन्मुक्तस्य विषयेच्छादिसम्भवः

अत एव ये कलाविद्यास्विव औत्सुक्तमात्रेण प्रवर्त्तन्ते तेषां ज्ञानोर्द्ध्वं विषयरुचिर्भवति इति दृश्यते । अत एव ज्ञात्वापि ते तत्त्वं विषयांस्त्यक्त्वा न प्रव्रजन्ति ।
एतदेवाभिप्रेत्य वसिष्ठ आह –

बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्द्दभः ॥

इति ।


त एव अष्टावक्रमुनिना उपहसिताः –

अविनाशिनमात्मानेकं विज्ञाय तत्त्वतः ।
तवात्मज्ञस्य धीरस्य कथमर्थार्जने रतिः ॥

आत्माज्ञानादहो प्रीतिर्विषये भ्रमगोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥

श्रुत्वापि शुद्धचैतन्यमात्मानमतिसुन्दरम् ।
उपस्थेत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥

सर्व्वभूतेषु चात्मानं सर्व्वभूतानि चात्मनि ।
मुनेर्जानत आश्चर्य्यं ममत्वमनुवर्त्तते ॥

विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोहमस्मीति विज्ञाय किं दीन इव धावसि ॥

आस्थितः परमाद्वैतं मोक्षार्थेपि व्यवस्थितः ।
आश्चर्य्यं कामवशगो विकलः केलिशिक्षया ॥

उद्भूतं ज्ञानदुर्मित्रमवधार्य्यातिदुर्ब्बलः ।
आश्चर्य्यं काममाकाङ्क्षेत्कालमन्तमनुश्रितः ॥

इहामुत्रविरक्तस्य नित्यानित्यविवेकिनः ।
आश्चर्य्यं मोक्षकामस्य मोक्षादेव बिभीषिका ॥

– इति ।

पूर्णानन्दाश्रमा जीवन्मुक्तिविवेकरत्नार्थदीपिकायाम्

जीवन्मुक्तौ भाष्यकारविद्यारण्ययोर्मते

यः शास्त्राभिमतः साधनचतुष्टयसम्पन्नो मुख्योधिकारी श्रवणादौ प्रवर्त्तते तस्य तैः सम्यगनुष्ठितैः स्थितप्रज्ञात्मकमुख्यज्ञानोत्पत्त्यैव जीवन्मुक्तिविद्वत्संन्यासयोः सिद्धत्वात् , न ज्ञानोत्तरकालं किञ्चित्कर्त्तव्यमस्ति ; तमपेक्ष्यैव कर्त्तव्यतान्तरप्रतिषेधकं शास्त्रं प्रवृत्तम् । नास्माभिरपि तस्य जीवन्मुक्तये विद्वत्संन्यासाद्य नुष्ठानमुच्यते ।
यस्तु अमुख्योधिकारी औत्सुक्यमात्रेण कलाविद्यास्विव श्रवणादौ प्रवर्त्तते , तस्य प्रमाणवस्तुमहिम्ना उत्पन्नेपि तत्त्वज्ञाने पाचनादिक्रमं विनैव गृहीतौषधस्य निःशेषरोगानिवृत्तिवत् न निःशेषबन्धनिवृत्तिर्ज्ञानस्थितिश्च भवति ; अतः तादृशस्यास्थितप्रज्ञस्य जीवन्मुक्तये विद्वत्संन्यासाद्यनुष्ठानाभिधानात् न कोपि दोषः ।

– पूर्णानन्दाश्रमो जीवन्मुक्तिविवेकरत्नार्थदीपिका ।

जीवन्मुक्तिविवेकस्य ब्रह्मसूत्रानुगामित्वम्

तत्र यथा –
आदौ अथातो ब्रह्मजिज्ञासा – इत्यधिकरणेन शास्त्रारम्भप्रयोजकानुबन्धचतुष्टयं प्रदर्श्य अथशब्देनाधिकारिणञ्च प्रसाध्य , ततो ब्रह्मस्वरूपज्ञानाय जन्माद्यस्य यत – इति लक्षणाधिकरणं प्रवृत्तं , लक्षणेन ज्ञाते तत्स्वरूपप्रमाणजिज्ञासायां शास्त्रयोनित्वात् – इत्यधिकरणं , शास्त्रयोनित्वं कथम् – इत्यपेक्षायां तत्समर्थनाय तत्तु समन्वयात् – इत्यधिकरणं , समन्वयश्च कथम् – इत्यपेक्षायाम् अध्यायशेषः , समन्वयस्य प्रत्यक्षादिविरोधपरिहाराय द्वितीयोध्यायः , अविरुद्धेन प्रमाणेन तत्सिद्धेः तत्प्राप्तिसाधनजिज्ञासायां तन्निरूपणाय तृतीयाध्यायः , तत्प्राप्तिसाधने ज्ञातेऽफलतत्प्राप्तिसाधनानुष्ठानानुपपत्तेः तत्फलजिज्ञासायां तन्निरूपणाय फलाध्यायः ।

तथा अत्रापि –
आरम्भप्रयोजकमनुबन्धचतुष्टयं वक्ष्ये विविदिषान्यासम् – इत्यादिश्लोकेन दर्शितं , संन्यासहेतुर्वैराग्यम् – इत्यारभ्य वैराग्यभेदादिप्रदर्शनपूर्व्वकं तस्माद्वेदनाय – इत्याद्यन्तेन अधिकारी साधितः , ततो जीवन्मुक्तिस्वरूपज्ञानाय जीवतः पुरुषस्य – इत्यारभ्य तस्य निवारणम् – इत्याद्यन्तेन तल्लक्षणमुक्तं , ततो नन्वयं बन्धः किम् – इत्याद्यारभ्य अधिगमय पदम् – इत्याद्यन्तेन तत्प्रतिपादितं , ततः तत्प्रमाणजिज्ञासायां श्रुतिस्मृतिवाक्यानि – इत्यारभ्य तदेवं विमुक्तश्च विमुच्यते – इत्याद्यन्तेन प्रमाणमुक्तं , ततस्तत्साधनजिज्ञासायाम् अथ जीवन्मुक्तिसाधनम् – इत्याद्यारभ्य तस्मात् सरूपो मनोनाश – इत्याद्यन्तेन तत्साधनं निरूपितं ततस्तत्फलजिज्ञासायां केयं जीवन्मुक्तिः किं वा तत्र प्रमाणम् इत्याद्यारभ्य तस्माद्योगीश्वरश्रेष्ठत्वात् इत्याद्यन्तेन तत्दलं निरूपितम् । एवं लक्षणादिभिर्जीवन्मुक्तिसिद्धौ तत्साधकतमविद्वत्संन्यासविशेषनिरूपणाय ग्रन्थशेषः ।

– इति जीवन्मुक्तिविवेकरत्नार्थदीपिकायां श्रीस्वामिपूर्णानन्दाश्रमा जीवन्मुक्तिविवेकस्य बादरायणसूत्रानुगामित्वोपपादनपराः ।

शमादीनां ज्ञानाङ्गता

शमाद्यभावे ज्ञानाप्राप्तिश्च –

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥

– इत्यादिश्रुतिभिरुक्ता

आचार्य्यैरप्युक्ता

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै-
र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।
दुर्व्विज्ञेयो जन्मशतैश्चापि विना तैः
तं संसारध्वान्तविनाशं हरिमीडे ॥

– इति ।

अत एव शान्तो दान्त – इत्यादिश्रुत्या अमानित्वमदम्भित्वम् – इत्यादिस्मृत्या च शमादयो ज्ञानप्राप्त्यन्तरङ्गसाधनत्वेन विहिताः ।
निर्णीतञ्चैतद्वेदव्यासेन शमाद्युपेतः स्याद् – इत्यधिकरणे ।

– पूर्णानन्दाश्रमः जीवन्मुक्तिविवेकटीकायाम् ॥