आनन्दत्वनिरूपणम्

सत्यम् इत्यादिवाक्ये आनन्दपदेन समर्पितम् आनन्दत्वं हि निरूपाधीष्टत्वम् ।
न च इष्टत्वस्य पुरुषविशेषनिरूपितत्वेन मोक्षे च अन्यस्याभावेन ब्रह्मणोनानन्दत्वापातः , इष्टत्वोपलक्षितस्यैवानन्दपदेन विज्ञानमानन्दम् इत्यादिश्रुतौ समर्पणात् । तद्विशिष्टसमर्पणे वाक्यस्याखण्डार्थत्वासम्भवात् ।
न च पुरुषविशेषस्यैवोपाधित्वेन कथं निरुपाधित्वमिष्टत्वस्य इति वाच्यं ; अन्येच्छाधीनेच्छाविषयत्वस्यैवेष्टत्वनिष्ठसोपाधिकत्वेन विवक्षणात् । तथा च अन्येच्छानधीनेच्छाविषयत्वयोग्यत्वं आनन्दत्वं , तच्च सुखत्वजातिः । सुखत्वविशिष्टा च न शुद्धा चित् किन्तु विषयसंयोगादिजन्यवृत्तिविशेषावच्छिन्नैव ।
न च शुद्धे उक्तानन्दत्वस्याभावेनानन्दत्वापातः , अनानन्दत्वस्यापि धर्म्मत्वेन निर्विशेषे ब्रह्मण्यप्रसक्तेः ।
न च आनन्दे आनन्दत्वस्य कादाचित्कत्वे जगत्कारणत्वादिसाम्येन तटस्थलक्षणतैव , न तु स्वरूपलक्षणता ; उपलक्षणत्वेन स्वरूपबहिर्भावात् इति वाच्यम् ;
स्वरूपबहिर्भूतस्य सुखत्वस्य स्वरूपलक्षणत्वाभावस्येष्टत्वात् । न हि अस्माभिः सुखत्वं ब्रह्मणः स्वरूपलक्षणम् इत्युच्यते किन्तु आनन्दपदवाच्यतावच्छेदकधर्म्मोपलक्षितव्यक्तिरेव आनन्दपदलक्ष्या ब्रह्मस्वरूपलक्षणम् इति । तथा च ब्रह्मण एव धर्म्मान्तरोपलक्षितत्वेन लक्षणता स्वरूपेण च लक्ष्यता । यस्मिंश्च पक्षे शुद्धे न जगत्कारणता तस्मिन् पक्षे तु ज्ञानत्वानन्दत्वादेः कदाचित् ब्रह्मणि सत्त्वेनैव स्वरूपलक्षणतोपचर्य्यते इति ।
न च तथात्वे आनन्दत्वमेव कस्मात् तस्य इति वाच्यं ; आनन्दपदलक्ष्यत्वेन आनन्दत्वोपलक्षितत्वेनैवास्माकं तत्रानन्दत्वव्यवहारात् ।
इति शब्दार्थाब्भ्यां गौडब्रह्मानन्दसरस्वती ।

किञ्च उक्तयोग्यत्वरूपसुखत्वस्य सुखानन्दपदवाच्यतावच्छेदकत्वेपि ब्रह्मणि तद्राहित्येन यतो वाचो निवर्त्तन्त इतिश्रुत्युक्तमशक्यत्वमपि रक्षितं भवति ; न हि लक्ष्येपि शक्यतावच्छेदकसत्त्वमावश्यकं तथात्वे जहल्लक्षणाया असम्भवप्रसङ्गात् , न वा उपलक्षणस्य स्वरूपप्रवेशो येन तस्य तत्र सत्त्वमपेक्ष्येत । तथा च सुखत्वजातेः मोक्षकाले ब्रह्मण्यसत्त्वेपि कदाचिद् वृत्तिविशेषोपधानदशायां तत्र विद्यमानं सुखत्वमादायैव सुखस्वरूपत्वस्य सुखपदलक्ष्यत्वस्य चोपपत्तेर्न सुखपदघटितोक्तवाक्यस्य सखण्डार्थत्वं न वा यतो वाचो निवर्त्तन्त इतिश्रुतिविरोधः ।
ननु- जहल्लक्षणायां लक्ष्ये वाच्यतावच्छेदकसत्त्वस्यानावश्यकत्वेपि जहदजहल्लक्षणास्थले लक्ष्ये तत्सत्त्वमपेक्षितम् इति चेत् ।
न ; तथात्वे एकदेशस्यापि पदेन शक्त्यैवोपस्थितिसम्भवे लक्ष्यता न स्यात् । न च वेदान्तपरिभाषारीत्या इष्टापत्तिः ; जहदजहल्लक्षणायाः असम्भवापातात् , अत एव च जहदजहल्लक्षणां समर्थयद्भिस्तन्मतं खण्ड्यते । किञ्च तत्र यतो वाच इतिश्रुतिरपि विरुद्धा , न हि शक्त्यैव ब्रह्मणः पदबोद्ध्यत्वे ततो वाङ्निवृत्तिस्समर्थयितुं शक्यते । अत एव तच्छ्रुतिबलात् ब्रह्मणो लाक्षणिकत्वमेव वक्तव्यं , लक्षणा चेयं न जहती न वा अजहती इति विलक्षणैव जहदजहती अङ्गीक्रियते ।
न च यतो वाच इतिश्रुत्या सामान्यतः पदप्रवृत्तेरेव ब्रह्मणि निषेधेपि प्रमाणान्तरागम्यस्य तस्य शब्दागम्यत्वे अप्रामाणिकत्वस्य ततश्च वेदवैयर्थ्यस्यापत्तिं वारयितुं यथा लक्षणया पदविषयत्वमङ्गीकृत्य पदाबोद्ध्यत्वश्रुतेः पदेन शक्त्या अबोद्ध्यं ब्रह्म इत्यर्थसङ्कोचः क्रियते तथा जहदजहल्लक्षणास्थले शक्त्यङ्गीकर्तॄणां मते लौकिकपदाबोद्ध्यत्वेपि महावाक्यबोद्ध्यत्वमङ्गीकृत्य समाधातव्यम् इति वाच्यं ;
सत्यादिपदानां लौकिकवैदिकविभागस्याप्रसिद्धेः ।
न च लौकिकवाक्याबोद्ध्यत्वपरत्वमुक्तश्रुतेः इति वाच्यम् ;
?????

ज्ञानस्य काम्यता

ननु ब्रह्मज्ञानं न काम्यं , सुखदुःखाभावान्यत्वात् तत्साधनान्यत्वात् च । तथा च कथं तत्साधने श्रवणादौ प्रवृत्तिः स्यात् ।
तथा हि –
ब्रह्मज्ञानं न सुखात्मकं ; ज्ञानस्य सुखत्वे सङ्करात् , सुखाकारवृत्तौ हि सुखत्वं भवति न ज्ञानत्वं , ज्ञानत्वञ्च सुखाकारमनोपरिणामान्ये एव भवति इति ज्ञानत्वसुखत्वयोरेकत्र साङ्कर्य्यं स्यात् ; ब्रह्मण एव सुखत्वात् अपि न अब्रह्म ब्रह्मज्ञानं सुखम् ; असुखात्मकमनोविकारत्वात् ।
न च ब्रह्मज्ञानं दुःखाभावात्मकं , भावरूपत्वात् , मनउपादानत्वात् च ।
न वा ब्रह्मज्ञानं सुखसाधनम् , आत्मस्वरूपसुखस्य नित्यत्वेन साधननिरपेक्षत्वात् , वृत्त्यात्मकसुखस्य च जन्यत्वेन मोक्षत्वासम्भवात् ।
न च ब्रह्मज्ञानं दुःखाभावसाधनं , ब्रह्मज्ञानिनामपि याज्ञवल्क्यादीनां रागद्वेषादिप्रयुक्तस्य , व्यासवसिष्ठादीनां मोहप्रयुक्तस्य , शङ्कराचार्य्यादीनाञ्च विद्याप्रयुक्तस्य दुःखस्य दर्शनात् ।
इति चेत् ।

न ; ब्रह्मज्ञानस्य दुःखध्वंसत्व-सुखव्याप्यत्वाभ्यां काम्यत्वसम्भवात् । चरमवृत्तेः कथञ्चन काम्यत्वासम्भवेपि सुखकाम्यतावच्छेदकत्वेन तत्साधनश्रवणादौ प्रवृत्तिसम्भवात् च ।
तथा हि –
ब्रह्मज्ञानं दुःखध्वंसरूपं , दुःखञ्चेदं तद् यद् मुमुक्षौ श्रवणाद्यायासेन जातम् । न च उक्तदुःखध्वंसत्वं चरमतत्त्वज्ञानेऽसम्भवि ; यन्मनोवृत्त्युदयक्षणे यन्मनोपरिणामो विच्छिद्यते यत्पूर्व्वञ्च विद्यते तन्मनोवृत्तिस्तन्मनःपरिणामस्य ध्वंसः , तदन्यस्य तत्त्वस्वीकारे धर्म्मितद्धेत्वादिकल्पनरूपात् गौरवात् ।
तथा च , उक्तदुःखविशेषध्वंसरूपत्वेन चरमतत्त्वज्ञाने काम्यतोपपद्यते इति ।

सुखव्याप्यत्वादपि चरमतत्त्वज्ञानस्य काम्यता । तथा हि –
आत्मस्वरूपमनवच्छिन्नं सुखं नित्यत्वाद् केनापि साधनेनाजन्यम् इति सुखजनकत्वेन न चरमवृत्तेः काम्यता यद्यपि तथापि सुखव्याप्यत्वेन काम्यता सम्भवति ।
यस्मिन्सत्यवश्यं दुःखं तत्र द्वेषो यथा युक्तः तथैव यस्मिन्सत्यवश्यं सुखं तत्र काम्यताप्युपपद्यते ।
न च इष्टहेतोरेव काम्यता दृष्टा , न तु इष्टव्याप्यस्यापि इति वाच्यं ;
कुन्त्याः सुखहेतुभगवद्दर्शनव्याप्यविपत्सु कामनाया दर्शनात् , न हि विपदः सुखहेतुर्भवन्ति , न वा तत्साधनभगवद्दर्शनस्य । उक्तं हि तया –
विपदस्सन्तु नश्शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत् स्यात् अपुनर्भवदर्शनम् ॥
इति ।
अपि च उदयनाचार्य्यैरपि बौद्धाधिकारे सुखव्याप्यत्वेन दुःखाभावस्य काम्यताऽशङ्क्य दूषिता । न च सुखव्याप्यत्वस्य काम्यत्वाप्रयोजकत्वे तन्निरासो युज्यते । न हि तत्र तैः सुखव्याप्यत्वस्य काम्यत्वाप्रयोजकत्वं वारितं किन्तु दुःखाभावस्य सुखव्याप्यत्वमेव इति च ।
भवति च चरमवृत्तौ अनवच्छिन्नात्मसुखाभिव्यक्तिर्नियमेन इति उक्तसुखव्याप्यत्वेन चरमवृत्तौ कामनोपपद्यते इति ।

सुखनिष्ठकाम्यतावच्छेदकत्वेनापि चरमवृत्तेः काम्यता सम्भवति ।
तथा हि –
वेदान्तनये सुखमात्मा ;
तस्य च न स्वरूपेण काम्यता , सिद्धत्वात् , कामनायाश्चासिद्धमात्रविषयत्वात् ;
नापि जन्यतया , आत्मनो नित्यत्वात् ;
नापि ज्ञानविषयत्वेन सुखस्य काम्यता , चैतन्याभेदेन सुखस्य वृत्त्यप्रकाश्यत्वात् ;
नापि आवरणाभावविशिष्टतया , तत्र वस्तुत आवरणस्याभावात् ;
किन्तु स्वावरणविरोधिवृत्तिविशिष्टतयैव ।
तथा हि –
अवच्छिन्नसुखविशेषस्यावारकं यदज्ञानं तद्विरोधिनी या चन्दनादिसंयोगादिजन्या सुखाकारा वृत्तिः , तद्विशिष्टतया सुखम् = आत्मा काम्यं भवति ।
न हि वृत्तौ सुखत्वं मुख्यम् , अस्मन्मते आनन्दो ब्रह्म इतिश्रुतिबलात् ब्रह्मण एव सुखत्वस्वीकारात् , तदितरत्र तत्स्वीकारे गौरवात् , उपाधिविशेषेण तस्यैव भोजनादिसुखत्वेन व्यवहारात् । अत एव विषयसंयोगजन्या सुखाकारा वृत्तिः केवलं सुखनिष्ठकाम्यतावच्छेदिकैव ।
काम्यतावच्छेदकवृत्तौ कामनाभावेपि तत्साधनेषु प्रवृत्तिः सम्भवति , साधनविशेषजन्यसुखाकारवृत्तिशिष्टस्यैव सुखस्य काम्यत्वात् ।
तथा च चन्दनादिजन्यसुखाकारवृत्तेः सुखत्वाभावेनाकाम्यत्वेपि तद्विशिष्टस्यैवात्मनः काम्यत्वेन उक्तसुखाकारवृत्तिसाधने विषयसंयोगादौ प्रवृत्तिरुपपद्यते , काम्यसुखप्रयोजकत्वात् ।
तद्वत् अनवच्छिन्नसुखस्यापि स्वावरणविरोधिचरमतत्त्वज्ञानविशिष्टतयैव काम्यता , तस्य च साधनं श्रवणादि उक्तसुखस्य प्रयोजकम् इति प्रवृत्तिविषयो भवति ।
अत्रापि न सुखत्वजातिमत्त्वेनैव काम्यत्वे लाघवम् । आत्मनश्च स्वरूपतः सुखात्मकत्वेपि सुखत्वजातिमत्ताध्यासिक्येव निर्द्धर्म्मकत्वविरोधित्वात् । सुखत्वजातिस्तु सुखावारकाज्ञानविरोधिमनोवृत्त्युपहितात्मन्येव , न तु उक्तमनोवृत्तिविशिष्टात्मनि कैवल्ये आत्मन्युक्तवृत्तिवैशिष्ट्याभावेऽसुखत्वप्रसक्तेः इति त्वन्यत् ।

ब्रह्मज्ञानिनां उक्तदुःखं तु चरमवृत्तिपूर्व्वभाव्येव । न हि चरमवृत्तिक्षणे तादृशं तेषां दुःखं सिद्धम् । तथा च दृश्योच्छेदक्षणवृत्तित्वात् चरमवृत्तेः उक्तोच्छेदसाधनत्वासम्भवेपि सुखव्याप्यत्वेन सुखप्रयोजकत्वेन च काम्यतोपपद्यते ।