ब्रह्मसूत्राणां वाक्यार्थनिर्णयहेतुत्वम्

जन्माद्यस्य यतः ॥

एतदेव अनुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणिनः ।

ननु इहापि तदेवोपन्यस्तं जन्मादिसूत्रे ।

न । वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणाम् ।
वेदान्तवाक्यानि हि सूत्रैः उदाहृत्य विचार्य्यन्ते । वाक्यार्थविचारणाध्यवसाननिर्व्वृता हि ब्रह्मावगतिः , न अनुमानादिप्रमाणान्तरनिर्व्वृता ।
सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु तदर्थग्रहणदार्ढ्याय अनुमानम् अपि वेदान्तवाक्याविरोधि प्रमाणं भवत् न निवार्य्यते , श्रुत्यैव च सहायत्वेन तर्क्कस्याभ्युपेतत्वात् ।
तथा हि श्रोतव्यो मन्तव्य इतिश्रुतिः । पण्डितो मेधावी गान्धारानेवोपसम्पद्येत एवमेवेहाचार्य्यवान्पुरुषो वेद इति च पुरुषबुद्धिसाहाय्यम् आत्मनो दर्शयति ।
न धर्म्मजिज्ञासायाम् इव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायां , किन्तु श्रुत्यादयोऽनुभवादयश्च यथासम्भवम् इह प्रमाणम् , अनुभवावसानत्वात् भूतवस्तुविषयत्वात् च ब्रह्मज्ञानस्य ।

– भगवत्पूज्यपादाः श्रीशङ्कराचार्य्याः ।

इत्थं वेदान्तसूत्राणां मुख्यं प्रयोजनं वाक्यार्थनिर्णय एव , न तु अनुमानादिप्रतिपादनम् इति सिद्धम् ।

न च अनुमानतर्क्कादीनां ब्रह्मविचार उपयोगाभावे श्रवणादिविधानमनर्थकं स्यात् इति वाच्यम् ।
वेदान्तवाक्यानुगाम्यनुमानादिकमपि ब्रह्मविचारोपयोगि भवति , ब्रह्मनिर्णयतद्दार्ढ्याद्यनुकूलत्वात् ।

न च ब्रह्मणोलौकिकत्वेन शास्त्रैकप्रमेयत्वात् कथमनुमानतर्क्कादीनां तद्विषयत्वं , तद्विषयत्वाभावे च कथं तज्ज्ञान उपयोग इति वाच्यम् ।
निर्णीतशक्तितात्पर्य्यकस्यैव शब्दस्य करणत्वेन तन्निर्णयहेतोः श्रवणाख्यविचारस्य ब्रह्मप्रमायामुपयोगः सिद्ध्यति । मननस्य तु श्रुतिप्रमितार्थस्यासम्भवशङ्काया अपनोदकत्वेन ब्रह्मप्रमोपकारकत्वम् । विपरीतभावनाविरोधिभावनानाशकत्वेन च निदिध्यासनस्योपयोगः ।
अयमर्थः – श्रवणं हि तावत् शब्दस्य तात्पर्य्यनिश्चये व्यापृतम् इति शब्देनापाततः प्रतीते ब्रह्मणि निष्कले एव उपनिषदस्तात्पर्य्यम् इति ब्रह्मविषयत्वसम्भवः । श्रुत्यवगतोर्थो ब्रह्म नानुपपन्नं सम्भवति च इतिसाधकस्य मननस्य ब्रह्मविषयत्वम् । श्रुतिप्रमितं ब्रह्म अद्वितीयमेव नान्यथा इति विपरीतभावनानिवर्त्तकनिदिध्यासनविषयत्वं ब्रह्मणः । – इत्थं श्रुतिप्रमितत्वेन ब्रह्मणोनुमानतर्क्कादिविषयत्वं सम्भवत्येव इति भावः ।

श्रवणादीनां तर्क्कत्वम्

वेदान्तवाक्याविरोधि प्रमाणं भवत् न निवार्य्यते , श्रुत्यैव च सहायत्वेन तर्क्कस्याभ्युपेतत्वात् ।
तथा हि श्रोतव्यो मन्तव्य इतिश्रुतिः । 
– इति जन्मादिसूत्रे भगवत्पादाः ।

अत एव –
अत एव मनननिदिध्यासनसहिते श्रवणाख्ये वेदान्तवाक्यविचारे श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यादिविधिरप्युपपद्यते , तस्य चतुर्विधान्वयव्यतिरेकादितर्करूपत्वात् ।
– इति मधुसूदनसरस्वत्यः श्रवणमनननिदिध्यासनानां भ्रमप्रमाविलक्षणमनोवृत्त्यात्मकतर्क्कत्वं वदन्ति ।

सौगतब्रह्मवादिनोर्विशेषः

एवञ्च सति सौगतब्रह्मवादिनोरयं विशेषो यत् आदिमः सर्व्वमेवानिर्व्वचनीयं वर्णयति , तदुक्तं भगवता लङ्कावतारे – बुद्ध्या विविच्यमानां स्वभावो नावधार्य्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः ॥ इति ।

विज्ञानव्यतिरिक्तं पुनरिदं विश्वं सदसद्भ्यां विलक्षणं ब्रह्मवादिनः सङ्गिरन्ते । तथा हि – नेदं सद् भवितुमर्हति वक्ष्यमाणदूषणग्रस्तत्वात् , नापि असदेव तथा सति लौकिकविचारकाणां सर्व्वव्यवहारव्याहत्यापत्तेः ।

– इति खण्डखण्डखाद्यकारः ।

परमहंससंन्यासो नाश्रमः

सर्व एते त्रयोऽप्याश्रमिणः यथोक्तैर्धर्मैः पुण्यलोका भवन्ति ; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति ।

इतिच्छान्दोग्यभाष्यम्

तदाश्रितेयं पूर्णानन्दाश्रमस्योक्तिः

आश्रमरूपत्वं तु विविदिषासंन्यासस्य गौणं , मुख्यासम्भवात् ।
तथा हि – चत्वार आश्रमा ब्राह्मणस्य – इत्यादिशास्त्रेण आश्रमत्रयवत् चतुर्थाश्रमस्यापि चित्तशुद्धिद्वारा तमेतं वेदानुवचनेन-इत्यादिसर्व्व एते पुण्यलोका भवन्ति-इत्यादिश्रुतिभ्यां विविदिषोत्पादकत्वम् उत्तमलोकप्रापकत्वञ्च आश्रमत्वमुक्तम् – इति इतराश्रमसन्निधिपाठादिभ्यो ज्ञायते । तच्चाश्रमत्वं देवलोकादिप्राप्तिहेतूनां यज्ञादिवत् विविदिषोत्पादकत्वेन ज्ञानव्यवहितानां च कुटीचकादिसंन्यासानामेव सम्भवति । परमहंसस्य विविदिषाफलत्वेन तदुत्पादकत्वायोगात् ।

– इति ।



तप एव द्वितीयः ; तप इति कृच्छ्रचान्द्रायणादि तद्वान् तापसः परिव्राड्वा, न ब्रह्मसंस्थः आश्रमधर्ममात्रसंस्थः, ब्रह्मसंस्थस्य तु अमृतत्वश्रवणात् ; द्वितीयः धर्मस्कन्धः ।

इतिच्छान्दोग्यभाष्यम्

अत्र द्वितीयधर्म्मस्कन्धत्वेन आश्रमधर्म्ममात्रसंस्थस्य तपआदिनिरतस्य संन्यासिनो ग्रहणम् ।
ब्रह्मसंस्थपदेन च श्रवणादिनिरतानां परिव्राजकानां ग्रहणम् । इति भाष्यवचनादेवाश्रमात्मकसंन्यासभिन्नत्वं विद्वद्विविदिषात्मकपरमहंससंन्यासयोः सिद्ध्यति ।



लोकत्रयार्थैषणाभ्यो व्युत्थानं चापरिग्रहः ।
द्वयं बोधमहिम्नैव विदुषां , न तु यत्नतः ; ॥
फलात्मकोऽयं संन्यासस्तत्त्वविद्यापुरस्सरः ; ।
अन्यो विविदिषात्याग आपातज्ञानरूपतः ; ॥
कर्म्मानधिकृता अन्धबधिराद्या यथारुचि ।
आश्रमात्मकसंन्यासं गृह्णन्तूत्तमजन्मने ; ॥
संन्यास एवं त्रिविधो विद्वद्विविदिषाश्रमैः ; ।

– इति वार्त्तिकसारे संन्यासत्रैविध्यम्

आश्रमसंन्यासे कुटीचकबहूदकहंसानामन्तर्भावः , चित्तशुद्ध्युत्तमलोकसाधनत्वस्य सत्त्वात् । चित्तशुद्धिफलात्मिकया विविदिषया जातत्वात् , उक्तविविदिषोत्तरश्रवणाद्यनुष्ठानजन्यज्ञानप्रयुक्तत्वात् च विविदिषाविद्वत्संन्यासयोः नाश्रमरूपता , लिङ्गादिराहित्यस्यैव मुख्यत्वेन च परमहंसता ।

ज्ञाधात्वर्थनिरूपणम्

ज्ञाधात्वर्थनिरूपणं वेदान्तमतेन ।

वृत्त्यवच्छिन्नचैतन्यं ज्ञानम् – सुखादिसाधारण्येन ज्ञानात्मकवृत्तिस्वीकारपक्षे , सुखादौ ज्ञानात्मकवृत्त्यस्वीकारेऽपि तेषामेव वृत्त्यात्मकत्वस्वीकारपक्षे च ।

वृत्तेरसत्त्वापादकावरणविरोधित्वनियमाच्च , असत्त्वापादकाज्ञानविषयत्वाप्रयोजकविशिष्टचैतन्यं ज्ञानम् – इत्यपि समानार्थकम् ।

– इति शब्दार्थाभ्यां गौडब्रह्मानन्दसरस्वती ।

अर्थप्रकाशत्वम् इति । अर्थव्यवहारजनकतावच्छेदकवत्त्वम् अर्थेच्छाजनकतावच्छेदकवत्त्वम् इति यावत् । उक्तावच्छेदकञ्च ज्ञानत्वजातिः । सा च तत्तदर्थस्यासत्त्वापादकाज्ञानविरोधिचैतन्यवृत्तिः । चैतन्यस्य तद्विरोधित्वञ्च घटादौ अविद्यमानसुखादौ च तदाकारवृत्तिविशिष्टत्वेन , विद्यमानसुखादौ च तद्विशिष्टत्वेन ; विद्यमानसुखादावपि वृत्त्यङ्गीकारे तु वृत्तिविशिष्टत्वेनैव तद् बोद्ध्यम् । यद्यपि उक्तजातिः विशिष्टचिन्निष्ठा ज्ञाधातुवाच्यतावच्छेदिका तथापि तद्विशिष्ट(ष्टा)भिन्नाया ज्ञानपदलक्ष्यव्यक्तेः मुक्तौ सत्त्वेन ज्ञानस्वरूपमविनाशि ।
इति ब्रह्मणो ज्ञानत्वाद्युपपत्तिप्रकरणे गौडब्रह्मानन्दसरस्वती ।

मैथिलकन्या

निर्मृष्टं कुचसीम्नि पत्रमखिलं प्रेम्णा हठालिङ्गनात्
रोषो मास्तु पुनर्लिखाम्यहमिति स्मेरे रघूणां वरे ।
रोषेणारुणितस्त्रपातरलितः प्रेम्णा च विस्तारितो
दत्तो मैथिलकन्यया दिशतु नः क्षेमं कटाक्षाङ्कुरः ॥

– मीमांसान्यायप्रकाशमातृकाया अन्ते लिखितः श्लोकः अज्ञातकर्त्तृकः ।

अमुख्यजीवन्मुक्तस्य विषयेच्छादिसम्भवः

अत एव ये कलाविद्यास्विव औत्सुक्तमात्रेण प्रवर्त्तन्ते तेषां ज्ञानोर्द्ध्वं विषयरुचिर्भवति इति दृश्यते । अत एव ज्ञात्वापि ते तत्त्वं विषयांस्त्यक्त्वा न प्रव्रजन्ति ।
एतदेवाभिप्रेत्य वसिष्ठ आह –

बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्द्दभः ॥

इति ।


त एव अष्टावक्रमुनिना उपहसिताः –

अविनाशिनमात्मानेकं विज्ञाय तत्त्वतः ।
तवात्मज्ञस्य धीरस्य कथमर्थार्जने रतिः ॥

आत्माज्ञानादहो प्रीतिर्विषये भ्रमगोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥

श्रुत्वापि शुद्धचैतन्यमात्मानमतिसुन्दरम् ।
उपस्थेत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥

सर्व्वभूतेषु चात्मानं सर्व्वभूतानि चात्मनि ।
मुनेर्जानत आश्चर्य्यं ममत्वमनुवर्त्तते ॥

विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोहमस्मीति विज्ञाय किं दीन इव धावसि ॥

आस्थितः परमाद्वैतं मोक्षार्थेपि व्यवस्थितः ।
आश्चर्य्यं कामवशगो विकलः केलिशिक्षया ॥

उद्भूतं ज्ञानदुर्मित्रमवधार्य्यातिदुर्ब्बलः ।
आश्चर्य्यं काममाकाङ्क्षेत्कालमन्तमनुश्रितः ॥

इहामुत्रविरक्तस्य नित्यानित्यविवेकिनः ।
आश्चर्य्यं मोक्षकामस्य मोक्षादेव बिभीषिका ॥

– इति ।

पूर्णानन्दाश्रमा जीवन्मुक्तिविवेकरत्नार्थदीपिकायाम्