अभेदपदार्थः

अद्वितीयस्वप्रकाशनिरतिशयानन्दरूपयोर्जीवब्रह्मयोरैक्यमपि उक्तानन्दरूपमेव ।

– गौडब्रह्मानन्दसरस्वत्यः ।

इत्थमभेदोद्वैतमते न सम्बन्धात्मको न वा अन्यत् किमपि किन्तु वस्तुस्वरूपमेव इति सूचितम् ।

रामकृष्णः

Rakesh Das wrote:

There may be an answer in the views of Ramakrishna Paramahamsa. He states that these three doctrines though apparently contradictory to each other are not actually.

 

ललितालालितः –

एकस्यैव वस्तुनो बहुधा प्रतिपादनं तदैव भवति यदा तादृशी प्रतिपत्तिः प्रतिपादयितुर्भवति । स चोपदेष्टा तत्राग्रहादेव प्रतिपादने प्रवृत्तो भवति नान्यथा ।

एवं च भगवत्पादैः शङ्करैः यत्तत्त्वं निर्विशेषत्वेन प्रतिपादितं तत्स्वभावत एव इतरैराचार्य्यैः प्रतिपादनीयेन पारमार्थिकेन भेदेन विशिष्टाद्वैतेन च विरुद्ध्येत इत्यत्र नास्ति संशयः ।

इदानीं तेषां विरोधस्यावस्तुतां प्रतिपादयतो रामकृष्णस्य वचनं तदैवोपपद्यते यदा तेन आचार्य्यत्रयप्रतिपादिततत्त्वादपि श्रेष्ठं तत्त्रयाविरोधि च किञ्चित्तत्त्वं ज्ञातं स्यात् नान्यथा । न च तथास्ति , तेन स्वतन्त्रं कस्यचिदपि तत्त्वस्याप्रतिपादनात् , प्रत्युत भगवत्पादप्रतिपादिताद्वैतपक्षपातित्वमेव तस्य दृश्यते , इतरमतयोः सोपानत्वेन प्रतिपादनात् ।

अत एव रामकृष्णोऽपि सत्यान्वेषणकारसम एव , अद्वैतमतपक्षपातित्वात् ।

 

 

Rakesh Das wrote:

In the way of Sadhana, the Sadhaka experiences all these three states i.e. he has to pass through these three states to complete his sadhana.

 

ललितालालितः –

एष यो नियमः कृतो रामकृष्णेन तस्य मूलं किं शास्त्रवाक्यमस्ति । किं साक्षात् अद्वैतमार्ग्गे प्रवृत्ता न तेन स्वीक्रियन्ते ।

ननु तेषामपि प्राक् द्वैतसाधना अस्तु इति न नियमभङ्ग इति चेत् ।

न । न हि रामकृष्णस्यालौकिकार्थदर्शनसामर्थ्यं सर्व्वेषां सम्प्रतिपन्नं यत् तद्वाक्यप्रामाण्यमवश्यमेवाभ्युपगमनीयं तद्रक्षायै च यत्किमपि कल्पनीयम् ।

किञ्च तस्यानाप्तत्वमेव निश्चीयते , सन्न्यासं गृहीत्वाऽपि पत्नीसङ्ग्रह-स्वविग्रहपूजा-पञ्चमकारसेवनादिदर्शनात् ।

अत एव न तदुक्त्यन्यथानुपपत्त्या सर्व्वेषां द्वैतादिसाधना कल्पयितुं शक्यते ।

मतभेदहेतुः

“दर्शनकृतां हि विवादो न मात्सर्येण वाङ्मात्रेण वा ; किन्तु तत्त्वाभिमानादेव ।

– इति खण्डनखण्डखाद्यकारः ।

एतेन – रामानुजादीनामद्वैतरहस्यादिज्ञानवत्त्वेऽपि द्वैतोपदेशो मन्देषु कृपयेति वदन्तः – परास्ताः । न हि – तेषां परीक्षकत्वे कृपावशेन मिथ्याभिनिवेशः सम्भवति । न वा – मन्दानामेव द्वैतमार्गे प्रवेश इति नियमः । रामानुजादीनामुदाहरणेन शमदमादिवतामपि तत्र प्रवृत्तिदर्शनात् । तथा च , मन्दोपकारित्वेऽपि उत्तमपातहेतुत्वेन कृपैषा प्रत्यवायकारिणी स्यात् तेषामाचार्य्याणाम् । अत एव , रामानुजादीनां द्वैतेऽभिनिवेशस्तत्र सत्यत्वबुद्ध्यैव इत्येवोचितम् ।”
– इति कदाचिन्मया लिखितं कुत्रचित् ।

इदं तु यद्यपि तेषामद्वैतिनामेवाधुनिकानां निरासाय येऽपरीक्ष्यैव तत्त्वं ‘सर्व्वेषामेव रामानुजमध्वादीनामद्वैततत्त्वज्ञानमासीत् , विशिष्टाद्वैतद्वैतादिप्रतिपादनं च मन्दानामद्वैतानधिकारिणां कृते एव’ – इति प्रतिपन्नाः ।

तथैव सत्यान्वेषणकारस्य रीतिः ‘सर्व्वेषां शङ्करमध्वादीनां विशिष्टाद्वैते एव तात्पर्य्यम् , अद्वैतद्वैतप्रतिपादनं तु प्रयोजनविशेषमुद्दिश्य’ – इति निरसनीया ।

तथैव गणेशनमहाभागैर्दूषितस्य द्वैतिनः कस्यचित् शर्म्मणः खण्डनम् ।

रामकृष्णस्य त्वदार्शनिकत्वादेवापरीक्ष्य यत्किमपि प्रतिपादयतः हेयता ।

एकैव रीतिः सम्भवति दर्शनानामेकीकरणाय या आधुनिकैः मतमात्रे आग्रहरहितैः आद्रियते । सा तु ‘सर्व्वाणि मतानि तुच्छानि कल्पितप्रतिपादनपराणि अप्रमाणानि’ – इति ।

‘दर्शनैः प्रतिपादनीयं तत्त्वं यथार्थम्’ – इति मत्त्वा तु सर्व्वेषां मतानामेकीकरणं न सम्भवति यथा सूचितं प्रश्नद्वारा गणेशनविदुषा ।

वृत्तेराकारः

अस्ति इत्यादितद्विषयकव्यवहारप्रतिबन्धकाज्ञाननिवर्त्तनयोग्यत्वस्य , तत्सन्निकृष्टकरणजन्यत्वस्य वा तदाकारत्वरूपत्वात् ।

– अद्वैतसिद्धौ वृत्तेराकारस्य निरूपणम् ।

निन्दा

निन्दा किमुद्दिश्य प्रवृत्तेति विवेचनीयम् । दूषणमात्रोद्देश्यकत्वे तु सा वक्तुरेव दुष्टतां ज्ञापयेत् इति नास्माकं खेद उचितः । परिष्कारमुद्दिश्य प्रवृत्ता चेदपि कठोरशब्दयुता सा स्वोद्देश्यं साधयितुमसमर्थेति श्रोत्रैव शब्दव्यङ्ग्योपहासनिन्दादिभ्यस्तात्पर्य्यविषयीभूतमर्थं विविच्य स्वबोधशोधनादिकं कर्त्तव्यम् । सत्पुरुषैर्हितवचनप्रयोक्तृभिः कृता निन्दा तु साक्षाद्दोषानुद्धाटयत्यस्माकम् इति न तत्र क्लेशावसरः ।

प्रथमद्वितीययोस्तु भवत्येव क्लेशः । तत्रापि कदाचित्स्वमनस्समाधानाय दूषणैकपरस्य वक्तुरपि योग्येऽर्थे बलात्तात्पर्य्यमनुसन्दधाना सत्पुरुषा दृश्यन्त एव । तदुचितमेव , सप्रयोजनत्वात् ।

लक्षणा कथम्

सविकल्पवाक्यार्थबोधे च सविकल्पकपदार्थोपस्थितिः अङ्गम् । प्रकृते च निर्व्विकल्पको वाक्यार्थबोधः । तस्यैव प्रमात्वेन अज्ञाननिवर्त्तनसामर्थ्यात् ।

अतः , न लक्ष्यतावच्छेदकम् अन्तरेण लक्षणानुपपत्तिः । प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितेरेव शक्तिलक्षणासाध्यत्वात् ।
– इत्थं मधुसूदनसरस्वतयो ब्रह्मणो लक्ष्यत्वोपपत्तये लक्ष्यतावच्छेदकवत्त्वस्वीकारे निर्व्विशेषत्वभङ्ग इति तार्क्किकाणां शङ्कां नाशयन्ति ।

देहादयोनात्मा

देहादयो नात्मा ; देशकालपरिच्छिन्नत्वात् ।

आत्मनश्च देशकालापरिच्छिन्नत्वम् ।

देशकालापरिच्छिन्नत्वं हि अभावाप्रतियोगित्वम् ।

तच्चेत्थं –

आत्मध्वंसप्रागभावयोरनात्मग्राह्यत्वासम्भवात् , आत्मन एकत्वेन चात्मागोचरत्वात् , कृतहान्यकृताभ्यागमप्रसङ्गाच्च अलीकत्वम् ;
सर्व्वस्यैव सत्त्वेन भानात् सद्रूपस्यात्मनोऽत्यन्ताभावासम्भवः ;
मिथ्यामात्रस्य तत्तादात्म्येन भानात् च भेदप्रतियोगित्वासम्भवः ;
इति ।
न च इत्थं घटनाशे आत्मनाशप्रसङ्ग इति वाच्यम् । आत्मनाशासम्भवस्य प्रतिपादितत्वात् , सद्रूपस्य तस्य घटं विरहय्यापि कपालादावनुवृत्तेश्च ।
न च अथापि आत्मानात्मभेदेऽसति विवेको निष्प्रयोजनः स्यात् इति वाच्यम् । सता तादात्म्यस्यैव स्वीकारेण तस्य च भेदसहिष्ण्वभेदात्मकत्वेन आत्यन्तिकाभेदस्याप्रतिपादितत्वेनोक्तप्रसङ्गासम्भवात् , नाशिघटादिरूपोपाधिभ्यो भेदस्य प्रकाशकत्वेन विवेकस्य सार्थकत्वात् । न हि तादात्म्यमस्ति इत्युक्ते भेदो नास्ति इत्युक्तं भवति ।