दुर्वासनाप्रतीकारदशकम्

प्रातर्व्वैदिककर्म्मतस्तदनु सद्वेदान्तसञ्चिन्तया
पश्चाद् भारतमोक्षधर्मकथया वासिष्ठरामायणात् ।
सायं भागवतार्थतत्त्व(दिव्य)कथया रात्रौ निदिध्यासनात्
कालो गच्छतु(ति) नश्शरीरभरणं प्रारब्धकण्ठा(कान्ता)र्पितम् ॥१॥

अज्ञानं त्यज हे मनो मम(मनोपि च) सदा ब्रह्मात्मसद्भा(म्भा)वनात्
सङ्कल्पानखि(न् सक)लानपि त्यज जगन्मिथ्यात्वसम्भावनात् ।
कामं(मान्) साधनसाधनश्रमपरि(धनाश्रमपरि|द्ध्यदुःखनिवह)ध्यानाद् अजस्रं त्यज
क्रोधन्तु क्षमया सदा जहि बलाल्लोभं तु सन्तोषतः ॥२॥

जिह्वोपस्थसुखभ्रमं त्यज मनः पर्यन्तदुःखेक्षणात्
पारुष्यं मृदुभाषणात् त्यज वृथालापश्रमं मौनतः।
दुःसङ्गं त्यज साधुसङ्गमबलाद् गर्वन्तु भङ्गेक्षणात्
निन्दादुःखम् अनिन्द्यदेवमुनिभि(दु)र्निन्दाकथासंस्कृ(स्मृ)तेः ॥३॥

निद्रां सात्त्विकवस्तुसेवन(क)तया स्वप्नं सदा जागराद्
रोगान् जीर्णमि(सि)ताशनात् जहि सदा दैन्यं महाधैर्य्यतः ।
अर्थानर्थपरिग्रहं त्यज वृथासंसर्गसन्त्यागतः
स्त्रीवाञ्छां त्यज दोषदर्शनबलाद् दुःखं सुखात्मेक्षणात् ॥४॥

दारासक्तिमनादरात् सुतधनासक्तिं त्वनित्यत्वतः
स्नेहम्मोहविव(स)र्जनात् करुणया नैष्ठुर्य्यमन्तस्त्यज ।
औदासीन्यसमाश्रयात् त्यज सुहृन्मित्रारि(दि)दुर्वासनां(नाः)
सर्वानर्थकरान् दशेन्द्रियरिपून् एकान्तवासात् जहि ॥५॥

आलस्यन्त्वरया श्रमं श(श्र)मधिया तन्द्रिं(द्रीं|द्रां) समुत्थानतो
भेदभ्रान्तिम् अभेददर्शनबलात् मिथ्यात्वतः(मित्थ्यात्मतां) सत्यताम्(सत्यतः) ।
म(न)र्मोक्तिं निजमर्मकर्मकथया क्रोधं(द्रोहं) स्वसाम्येक्षणाद्
आक्रोशं कुशलोक्तितस्त्यज मनश्छिन्ध्यप्रमादाद्भ(मादो भय)यम् ॥६॥

भूतार्थस्मरणं वृथा भ्र(श्र)मधिया प्राप्तं तु हानेक्षणाद्
भव्यार्थ(भाव्यर्त्थ)व्यसनं सदा त्यज मनः प्रारब्धचोद्येक्षणात् ।
शिष्टाशिष्टजनक्रियां(याः) त्यज वृथाकष्टानुसन्धानतः
स्नेहाद् द्वेषमतिं(स्नेहद्वेषकथाः) सदा त्यज जनं(जने) भस्मान्तता(मांस्तथा)संस्कृ(स्मृ)तेः ॥७॥

अध्यात्मादिभवं सदा(अध्यात्मानुभवान्मनः) त्यज मनस्तापं(महत्पापं) स्वभावेक्षणाद्
वैषम्यं समभावतः परकथाविक्षेपम्(क्षोभम्) अक्षोभतः ।
धिक्कारादि(भि)भवन्तु दुःखम् अनिशं तद्योग्यताभावनात्
तज्ज्ञातज्ज्ञशिशून्क्षमस्व(तज्जातान्यशुचः क्षमस्व) कृपया कर्मक्षयात् ताडनम् ॥८॥

आयुर्गच्छति पेटिकामिव जलं(पेटिकाजलमिव) सन्त्यज्य(त्यक्त्वैव) देहं जवाद्
गच्छन्तीन्द्रियशक्तयोऽपि कुलटा यद्वत् नरं निर्धनम् ।
प्रज्ञा गच्छति दावदाहसमये नीडं मृगीवत् क्व वा(मृगीपक्षिवत्|मृगीणामिव)
ज्ञात्वा सत्त्वरम् आश्रयात्मपदवीं देहं वृथा मा कृथाः ॥९॥

धैर्यैरावतशान्तिधेनुदमना(सन्)मन्दारवृक्षं(न्दं) सदा
मैत्र्याद्यप्सरसं विवेकतुरगं सन्तोषचिन्तामणिम् ।
आत्मज्ञानमहामृतं समरसं वैराग्यचन्द्रोदयं(नैराश्यचन्द्रोदयं)
वेदान्तार्णवमाश्रयन्ननुदिनं सेवस्व मुक्तिश्रियम् ॥१०॥

प्रसादाद्दक्षिणामूर्त्तेश्श्रुत्याचार्यप्रसादतः।
दुर्वासनाप्रतीकारदशकं रचितं मया॥११॥

॥ महामुनिश्रीमद्विद्यारण्ययतीन्द्रविरचितं दुर्वासनाप्रतीकारदशकम् ॥