विज्ञानदीपिका - ६२

(मूलम्)
भाविसञ्चितयोर्ध्वस्तिः प्रवृत्तोपशमस्तथा ।
भवेत्सदङ्गसम्पत्तिर्ज्योतिर्लिङ्गस्य धारणात् ॥६२॥
(विवृत्तिः)
अचलप्रतिमास्थापनलक्षणेष्वपि कर्मसु शिवलिङ्गस्थापनस्य प्रवृत्तोपशमतोऽप्यधिकं फलमस्ति – इत्याह – भाविसञ्चितयोः – इति ।
ज्योतिर्लिङ्गस्य - शिवलिङ्गस्य । धारणात् - स्थापनात् । भावि – सञ्चीयमानं , तस्य । सञ्चितस्य च । ध्वस्तिः - निर्बीजत्वं । प्रवृत्तस्य - प्रारब्धस्य । चोपशमो – भोगशैथिल्यम् । भवेत् ।
भोगशैथिल्यञ्च हर्षशोकवृत्तेरनुदयोऽनुत्कर्षो वा ।
किञ्च , सदङ्गसम्पत्तिः । सद्  ब्रह्म , , तत्सम्बन्धिज्ञानाङ्गानां - परोक्षज्ञानवैराग्योपरतीनां सम्पत्तिः - कार्त्स्न्येनोदयश्च भवति ।
यद्वा –
ज्योतिर्लिङ्गस्य - ज्योतिस्स्वरूपस्य ब्रह्मणो । धारणं – ‘सच्चिदानन्दस्वरूपोऽहम्’ - इति , ‘ब्रह्माहमस्मि’ - इति वा  , निर्गुणोपासनं ; तस्मात् । सर्वमेव सम्पद्यते ।
संधृतार्थप्रवृत्तार्थयोः परमार्थप्रकाशकयोरविशेषप्रवृत्तेः (?) – इति भावः ॥६२॥