अमृताम्भोनिधिरव्यात्सुविमलकर्पूरसैकतान्तो नः ।
ब्रह्माण्डानि यदन्तर्बुद्बुदकल्पानि भान्त्यनल्पानि ॥१॥
स जयति रत्नद्वीपः किरणपराभूततिमिरसङ्घातः ।
यत्र सुमेरुः श्रीमान्यत्रास्ते लोकसप्तकद्वितयम् ॥२॥
ब्रह्माण्डानि यदन्तर्बुद्बुदकल्पानि भान्त्यनल्पानि ॥१॥
स जयति रत्नद्वीपः किरणपराभूततिमिरसङ्घातः ।
यत्र सुमेरुः श्रीमान्यत्रास्ते लोकसप्तकद्वितयम् ॥२॥
जयति सुरद्रुमवाटी कनकशिलापट्टकल्पितावापा ।
परिमलमिलदलिमालामुखरितपर्यन्तकोकिलालापा ॥३॥
नवमणिवरणावीतां पीयूषानन्दवापिकोपेताम् ।
नीपोद्यानपरीतां श्रीपुरमीडे शशिप्रभाशीताम् ॥४॥
शशिरविहुतवहरूपं सुघटितनवयोनिकं चतुर्द्वारम् ।
त्रिसहितचत्वारिंशत्कोणं चिन्तामणीगृहं वन्दे ॥५॥
अगणितमणिमयजालं कनकस्थूणासहस्रकमनीयम् ।
बहुविधचित्रवितानं गौरीकल्याणमण्डपं वन्दे ॥६॥
घटितसदाशिवफलकं विधिहरिरुद्रेशमौलिमणिपादम् ।
आर्यापर्यङ्कवरं वन्दे मायासुयवनिकोपेतम् ॥७॥
चिन्तामणिगृहमध्ये यानि स्थानानि चित्रचित्राणि ।
तेभ्यो नतिमाकलये श्रीपदलाक्षाङ्कलक्षणीयेभ्यः ॥८॥
वाग्भवहृल्लेखाश्रीबीजाकाराणि मन्त्ररत्नानि ।
भवभयजलधेरस्मात्ताराणि त्रीणि तारयन्त्वस्मान् ॥९॥
भद्राणि भद्रकाली दिशतु पुरद्वारदक्षिणे देव्याः ।
दुर्जनसज्जनशिक्षणरक्षणदक्षा करस्थकरवाला ॥१०॥


