वसिष्ठः –
इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
अन्तःशीतलता यासौ समाधिरिति कथ्यते ॥
दृश्यैर्न मम सम्बन्ध इति निश्चित्य शीतलः ।
कश्चित्संव्यवहारस्थः कश्चिद्ध्यानपरायणः ।
द्वावेतौ सुसमौ राम अन्तश्चेत्परिशीतलौ ॥
– इति ।
अवधूतेन अप्युक्तं –
योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः ।
सच्चिद्ब्रह्मणि योजितचित्तो नन्दति नन्दति नन्दत्येव ॥
– इति ।
अन्यत्र अप्युक्तं –
कृष्णो भोगी शुकस्त्यागी नृपौ जनकराघवौ ।
वसिष्ठः कर्म्मकर्त्ता च पञ्चैते ज्ञानिनः समाः ॥
– इत्यादि ।
– ज्ञानिनो लक्षणात्यन्ताभावसाधनपरेण पूर्व्वपक्षिणोपस्थापिताः श्लोकाः जीवन्मुक्तिविवेकरत्नार्थदीप्तौ पूर्णानन्दाश्रमीयायाम् ।