(शङ्करानन्दी दीपिका)
यस्या हेतोः पर्य्यङ्कोपासना प्राणोपासना च विविधगुणा उक्ता , तां ब्रह्मविद्यां विवक्षुस्तस्यामास्तिक्यं जनयितुं प्रतर्द्दनं काश्यं देवेभ्योभ्यधिकतरबललक्ष्म्यादिमन्तं ब्रह्मविद्यार्थिनं शिष्यं देवराजञ्च सत्यपाशनिबद्धं[1] मनुष्येषु ब्रह्मविद्यां वक्तुमनिच्छन्तमपि गुरुं सम्पाद्य आख्यायिकाम् आह –
(उपनिषद्)
प्रतर्द्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ।
तं हेन्द्र उवाच – प्रतर्द्दन ! वरं वृणीष्वेति(/वरं ते ददानीति) ।
स होवाच प्रतर्द्दनः – त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस इति ।
तं हेन्द्र उवाच – न वै वरोऽवरस्मै(/वरः परस्मै) वृणीते , त्वमेव वृणीष्वेति ।
अवरो वै (+तर्हि) किल मेति(/म इति) होवाच प्रतर्द्दनः ।
अथो खल्विन्द्रः सत्यादेव नेयाय , सत्यं हीन्द्रः ।
तं(/स) हेन्द्र उवाच – मामेव विजानीहि । एतदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजानीयात् त्रिशीर्षाणं त्वाष्ट्रम् । अहनम् अरुन्मुखान्यतीन् साला(/शाला)वृकेभ्यः प्रायच्छं , बह्वीः सन्धा अतिक्रम्य दिवि प्रह्लादीयान्(/प्रह्लादीन्) अतृणमहम् , अन्तरिक्षे पौलोमान् , पृथिव्यां कालकाञ्जान्(/कालकाञ्ज्यान्/कालखाञ्जान्/कालकञ्ज्यान्) । तस्य मे तत्र न लोम च नामीयत(/मा मीयते) । स यो मां वेद , न ह वै तस्य(/मां विजानीयात् , नास्य) केनचन कर्म्मणा लोको मीयते , न स्तेयेन , न भ्रूणहत्यया , न मातृवधेन , न पितृवधेन , नास्य पापं चक्रृषो मुखान्नीलं वेतीति ॥३।१॥
प्रतर्द्दनः = प्रकर्षेण तर्दयति – भर्त्सयति – अभिभवति स्वशत्रून् इति सार्थकनामा प्रतर्द्दनः ।
ह = किल ।
दैवोदासिः = दिवोदासस्य काशिराजस्य पुत्रो दैवोदासिः ।
इन्द्रस्य = देवराजस्य परमैश्वर्य्यसम्पन्नस्य ।
प्रियं धाम = प्रियं स्थानं , स्वर्ग्गम् – इति यावत् ।
उपजगाम = प्राप्तवान् ।
तत्प्राप्तौ कारणमाह –
युद्धेन च , पौरुषेण च = समरयज्ञेन अनेकभटपश्वाहुतिदीप्यमानशस्त्राग्निना , पुरुषसम्बन्धिना उत्साहेन च – स्वर्ग्गमर्म्मपरिज्ञानेन[2] – इत्यर्थः ।
चकारौ उभयोरपि कारणत्वसमुच्चयार्थौ ।
तं = समरशौण्डम् उत्साहिनं स्वर्ग्गमागतं प्रतर्द्दनम् ।
ह = किल ।
इन्द्रः = युद्धपौरुषाभ्यां परितोषं प्राप्तो देवराजः ।
उवाच = उक्तवान् ।
इन्द्रोक्तिमाह –
प्रतर्द्दन = हे प्रतर्द्दन ।
वरम् = अभिलषितम् अर्थम् ।
ते = तुभ्यं = प्रतर्द्दनाय मत्परितोषकारिणे ।
ददानि = प्रयच्छानि = ददामि – इत्यर्थः ।
इति = अनेन प्रकारेण । उवाच – इत्यन्वयः ।
स = इन्द्रेणोक्तः ।
ह = किल ।
उवाच प्रतर्द्दनः । स्पष्टम् ।
प्रतर्द्दनोक्तिमाह –
त्वमेव = मत्पुरतः स्थितो हिताहितज्ञो देवराजो , न त्वन्यः ।
मे = मह्यं = प्रतर्द्दनाय हितार्थिने = मदर्थम् – इत्यर्थः ।
वृणीष्व = हितम् इष्टं वा(/चा)र्थं प्रार्थयस्व ।
प्रार्थ्यमानं वरमाह –
यं = प्रसिद्धम् अभीष्टमर्थम् ।
त्वं = सर्व्वज्ञो देवराजः ।
मनुष्याय = अज्ञानकाननान्तर्वर्त्तिने अनेकशुभाशुभव्यामिश्रकर्म्मफलदावाग्निसन्तप्तगात्राय मनुष्यजातियुजे ।
हिततमम् = अतिशयेन हितम् । नातः परं हितम् – इत्यर्थः ।
मन्यसे = निश्चिनोषि ।
इति = अनेन प्रकारेण ।
तम् = इन्द्रं प्रत्येवंवादिनं प्रतर्द्दनम् ।
ह = किल ।
इन्द्रो = देवराजो ब्रह्मविद्यां दातुमशक्तः ।
उवाच = उक्तवान् लौकिकं नयम् ।
इन्द्रोक्तिमाह –
न वै वरः परस्मै वृणीते ।
वै = प्रसिद्धम् ।
परस्मै = अन्यार्थम् ।
वरो = वरम् ।
वृणीते = अन्यो न प्रार्थयते ।
यत एवम् , अतः स्वार्थं वरं त्वमेव वृणीष्व ।
इति । स्पष्टम् ।
एवमिन्द्रेणोक्ते
अवरः = ‘वरं ददानि’ – इतिप्रतिज्ञाय भवता निर्द्दिष्टोऽर्थोऽदत्तः , स्यात् – इति शेषः ।
वै = प्रसिद्धो मनुष्येनाज्ञानावृतदृष्टिना मया याचितः ।
तर्हि = तदा ।
किल = निश्चितम् ।
मे = मह्यं हिताहितज्ञानशून्याय ।
इति होवाच प्रतर्द्दनः ।
ह = किल ।
एवमुक्तवान् प्रतर्द्दनो देवराजं ‘स्वार्थोऽवरोऽयम्’ – इति ।
अथो = अथ = प्रतर्द्दनवाक्यानन्तरम् ।
खलु = निश्चितम् ।
इन्द्रः = सत्यवादिनामग्रगण्यो देवराजः ।
सत्यात् = ‘वरं ते ददानि’ – इतिस्वप्रतिज्ञानात् यथार्थवचनात् एव ।
नेयाय = नापजगामैव ।
प्रतर्द्दनार्थं वरदातापि स्वयं स्वस्मै वरं याचितवान् , न तु लौकिकं नयम् अङ्गीचकार – इत्यन्वयः ।
सत्यादनपगमने कारणमाह –
सत्यं हीन्द्रः ।
सत्यं = यथार्थस्वरूपं = यत्किञ्चिद्वागर्थस्वरूपम् ।
इन्द्रो = देवराजः ।
हि = यस्मात् ।
तस्मात् नेयाय – इत्यन्वयः ।
स = सत्यपाशाभिबद्ध इन्द्रः ।
ह = किल ।
उवाच = उक्तवान् = प्रतर्द्दनार्थम् आत्मानं वरं याचितवान् – इत्यर्थः ।
इन्द्रोक्तिमाह –
मामेव = अस्मत्प्रत्ययव्यवहारयोग्यम् आनन्दात्मानमेव , न त्वन्यम् ।
विजानीहि = अवगच्छ = साक्षात्कुरु – इत्यर्थः ।
एतदेव = मे ज्ञानमेव , न त्वन्यत् ।
अहं = भवते वरस्य दाता याचिता च ।
मनुष्याय हिततमं = व्याख्यातम् ।
मन्ये = निश्चिन्वे ।
एतच्छब्दार्थमाह –
यत् = प्रसिद्धं वेदान्तेषु ‘ब्रह्मविदाप्नोति परम्’ – इत्यादिना ।
माम् = उक्तानन्दात्मानम् ।
विजानीयात् = साक्षात्कुर्य्यात् – इत्यर्थः ।
यन्मां विजानीयात् , एतदेव हिततमं मन्य – इत्यन्वयः ।
ननु तव ज्ञाने तव अन्यस्य वा यदि कश्चनातिशयोऽभूत् , तर्हि तद् हिततमं ; न त्वन्यथा – इतिशङ्कायाम् ;
अद्वैतज्ञानं गुरुमातृवधप्रमुखपापोन्मूलकम् । अत आह –
त्रिशीर्षाणं = त्रिशीर्षम् ।
त्वाष्ट्रं = त्वष्टुरपत्यं विश्वरूपम् ।
अहनं = निपातितवान् ।
अरुन्मुखान् यतीन् =
रुच्छब्दो वेदाध्ययनं , तेन उपनिषदर्थविचारो ब्रह्ममीमांसापर्य्यायो लक्ष्यते ;
तद्येषां मुखे नास्ति , ते अरुन्मुखाः । तान् ।
यतीन् = प्रयत्नवतश्चतुर्थाश्रमिणः ।
सालावृकेभ्यः = सालावृकाणामपत्याः सालावृकेयाः = सालावृका इति यावत् , तेभ्यः = अरण्यश्वभ्य – इत्यर्थः ।
प्रायच्छं = प्रकर्षेण वज्रेण शतधा विभज्य दत्तवान् , अद्यापि च तेषां मस्तकविपाकाः करीरा दृश्यन्ते ।
बह्वीः = भूयसीः स्वरूपतः सङ्ख्यातश्च ।
सन्धाः = सन्धीन् – इत्यर्थः ।
अतिक्रम्य । स्पष्टम् ।
दिवि = स्वर्ग्गे ।
प्रह्लादीन् = प्रह्लादिनः = प्रह्लादेन नित्यसम्बन्धिनः अनेककोटिसङ्ख्याकान् महामायान् अनेकच्छिद्रघातिनोसुरान् = प्रह्लादपरिचारकान् – इत्यर्थः ।
अतृणं = हिंसितवान् ।
अहम् = आत्मज्ञानी इन्द्रस्तुभ्यं वरस्य दाता ।
अन्तरिक्षे = भुवर्लोके ।
पौलोमान् = पुलोमसम्बन्धिनोऽसुरविशेषान् ।
बह्वीः सन्धा अतिक्रम्य अतृणम् – इत्यनुवर्त्ततेऽत्र वक्ष्यमाणे च ।
पृथिव्यां = भूलोके ।
कालकाञ्ज्यान् = कालकाञ्जसम्बन्धिनोसुरान् ; भूयसां परस्परसम्बन्धावश्यम्भावित्वात् कालकञ्जा एव कालकाञ्ज्याः , तान् ।
ननु किं प्रकृते तावात – इति ।
अत आह –
तस्य = गुरुब्राह्मणवधस्य कर्त्तुः , संन्यासिनाञ्च श्वभ्यो दातुः , लोकत्रयेपि यज्ञादिसम्पन्नमहामायासुरसङ्घस्योपसंहर्त्तुः , आत्मज्ञानिनोन्येन मनसापि कर्त्तुमशक्यं कर्म्म कुर्व्वतः ।
मे = मम = इन्द्रस्य तवोपदेशकस्य ।
तत्र = तस्मिन्नतिक्रूरे कर्म्मणि क्रियमाणे ब्रह्मवधादिलक्षणे ।
न लोम च मा मीयते =
न लोमापि = अत्यल्पोपि केश – इत्यर्थः ।
मा मीयते = न मीयते = न हिंस्यते उक्तेन केनचित् कर्म्मणा ।
ननु एतत् भवत् एव , न त्वस्मदादेः – इति ।
अत आह –
स = मदन्यो मज्ज्ञानी प्रसिद्धः ।
यः = यः कश्चिद् देवो मनुष्यो वा ।
मां वेद = आनन्दात्मानमिन्द्रं विजानीयात् = अहमानन्दात्मास्मि इति साक्षात्कुर्य्यात् ।
नास्य केन च कर्म्मणा लोको मीयते = न हिंस्यते ।
हिंसकानि कर्म्माण्येकदेशेन दर्शयन्नाह –
न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया ।
मातापितरौ प्रसिद्धौ , तयोर्वधः = प्राणत्यागानुकूलव्यापारो लोकद्वयभ्रंशहेतुः प्रत्येकं प्रसिद्धः ।
स्तेयं = सुवर्णपरिमितसुवर्णस्य(?) ततोप्यधिकस्य वा स्वामिनः परोक्षमादानं , तेन ।
भ्रूणो = वेदस्य वेदयोर्वेदानां वा अधिगतार्थेन अध्ययनेन सह वर्त्तमानो द्विजोत्तमः – इत्यर्थः ; तस्य = मनसा वाचा कर्म्मणा वापराधशून्यस्य स्वहस्तादिना वधः = भ्रूणहत्या ; तया ।
कर्म्मसामान्यस्य विशेषोयम् – इति दर्शयितुं पर्य्यायचतुष्टयेपि नकारचतुष्टयम् ।
नास्य पापं चकृषो मुखान्नीलं वेतीति ।
किं बहुना , अस्य = मदात्मज्ञानिनः ।
पापं चन(?) चकृषः = पापमपि कर्त्तुमिच्छोः ।
मुखात् = वदनात् , नीलं = मुखकान्तिस्वरूपम् ।
नीलं = नीलिमाश्रयस्वरूपं(?) वा मुखात् = कण्ठजिह्वादिवदनात् ।
न वेति = न व्येति = नापगच्छति ।
इतिशब्दः प्रकृतब्रह्मज्ञानस्तुतिपरिसमाप्त्त्यर्थः ॥३।१॥
[1] सत्यव्रतम् इत्यर्थः ।
[2] स्वर्ग्गसाधनज्ञानेन तदनुष्ठानेन वा इत्यर्थः ।