वेदान्तपरिभाषाकारमते लक्षणाभेदानां लक्षणानि

यत्र शक्यार्थमनन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्र जहल्लक्षणा ।
यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्र अजहल्लक्षणा ।
विशिष्टवाचकपदस्य शक्यैकदेशवृत्तित्वं यत्र तत्र जहदजहल्लक्षणा इति प्राञ्चः ,
वेदान्तपरिभाषाकाररीत्या तु शक्याशक्यवृत्तित्वं यत्र तत्र जहदजहल्लक्षणा , काकेभ्यो दधि रक्ष्यताम् इतिवाक्यस्य तदुदाहरणत्वस्योक्तेः ।
अत एव टीकाकर्त्तृभिरपि –
शक्यसम्बन्धिमात्रविषया वृत्तिः जहल्लक्षणा ।
शक्यविशिष्टविषया वृत्तिः अजहल्लक्षणा ।
शक्यैकदेशविषया वृत्तिः जहदजहल्लक्षणा इति प्राचीनरीत्योक्तम् ।
परिभाषाकृन्मते तु शक्याशक्यविषया वृत्तिः जहदजहल्लक्षणा इति च योजितम् ।
तत्र परिभाषाकृदुक्तम् अजहल्लक्षणालक्षणं शक्यविशिष्टविषयवृत्तित्वं तार्किकोक्तात् लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधिका लक्षणा अजहल्लक्षणा इत्यस्माद्विलक्षणम् ।
तथा हि –
शक्यविशिष्टविषयवृत्तित्वम् इतिपरिभाषोक्तलक्षणे शुक्लो घट इतिदृष्टान्तः ; तत्र च शुक्लरूपस्य शक्यत्वं , तद्विशिष्टस्य च घटस्य स्वशक्याश्रयत्वसम्बन्धेन बोद्ध्यत्वम् । अत्र घटस्योक्तलक्षणया बोधेपि न तस्य शुक्लवर्णावैशिष्ट्येनोपस्थितिः इति अत्र लक्षणसमन्वयः । तथैव जातिरेव शक्या इतिवादिनामद्वैतिनां घटत्वशक्तेन घटपदेन घटव्यक्तेरुपस्थितिरजहल्लक्षणया भवति , समानसंवित्संवेद्यत्वमते तु न सापि ।
तार्किकसमयानुकूलो दृष्टान्तस्तु काकेभ्यो दधि रक्ष्यताम् इत्याद्येव । तथा हि तत्र दध्युपघातका लक्ष्याः , लक्ष्यतावच्छेदकञ्च दध्युपघातकत्वं काकपदशक्ये तदशक्यमार्जारादौ च वर्त्तत इत्युभयोर्लक्षणयोपस्थितिः । तथा चात्र अजहत्स्वार्था लक्षणा ।
इत्युभयमतसम्मताजहल्लक्षणालक्षणवैलक्षण्यं प्रकटीकृतम् ।
तथैव तार्किकनये वाच्यार्थैकदेशत्यागेन तदेकदेशे लक्षणा जहदजहती ; प्राचीनानां मतेपि तनुकूलैव सा विशिष्टवाचकेत्यादिनोक्ता । तत्र च दृष्टान्तः सोयं देवदत्त इत्यादिः प्रसिद्धः ।
परिभाषाकृन्मते तु विशिष्टशक्तपदेन विशेष्यमात्रोपस्थितिः शक्त्यैव न तु लक्षणया , अन्यथा गेहे घट इत्यादावपि सान्यैरभ्युपगन्तव्या स्यात् ; इति सोयमित्यादौ न लक्षणा कापि ।
परं तैरपि विशिष्टशक्तेन पदेन विशेषणमात्रोपस्थितिर्लक्षणयाङ्गीक्रियते , यथा घटो नित्य इत्यादौ घटत्वविशिष्टशक्तस्य घटपदस्य घटत्वे लक्षणैव । इदमवधेयं यत् घटो नित्य इतिदृष्टान्तो न वेदान्तरीत्या किन्तु तार्किकरीत्यैव ; घटपदस्य घटत्वमात्रशक्तत्वाङ्गीकारात् वेदान्तिभिः , तार्किकैरेव घटपदस्य घटत्वघटयोः शक्त्यङ्गीकारात् ।  तथा चात्र लक्षणा न जहत्स्वार्था , लक्ष्यतावच्छेदकस्य घटत्वत्वस्य शक्यघटत्ववृत्तित्वात् ; नापि अजहत्स्वार्था लक्ष्यतावच्छेदकस्य शक्यवृत्तित्वेप्यशक्यवृत्तित्वाभावात् (तार्किकरीत्या) {शक्यविशिष्टावृत्तित्वात् = घटत्वविशिष्टघटविशिष्टयोरवृत्तित्वात् इति परिभाषाकृद्रीतिरत्र न विचार्य्या , दृष्टान्तस्याननुकूलत्वात्} ; किन्तु जहदजहत्स्वार्था (तार्किकरीत्या) , लक्ष्यतावच्छेदकस्य घटत्वत्वस्य शक्यैकदेशघटत्ववृत्तित्वेपि तदेकदेशघटावृत्तित्वात् , {परिभाषाकृद्रीत्या तु नेयं जहदजहत्स्वार्थापि शक्यमात्रविषयत्वात् इति तु न वक्तव्यं दृष्टान्तस्यैवाननुकूलत्वात्} ।
जातिशक्तिवादाभ्युपगन्तृवेदान्तिरीत्या घटो नित्य इत्यत्र शक्त्यैवान्वयः , घटत्वस्य नित्यत्वान्वययोग्यस्य शक्त्यैवोपस्थितेः । घटोऽनित्य इत्यत्र तु घटपदस्य घटत्वाश्रये लक्षणा , सा च जहत्स्वार्थैव , व्यक्तेरशक्यत्वात् ।
परिभाषाकृन्मते च जहदजहत्स्वार्थलक्षणाया दृष्टान्तः काकेभ्यो दधि रक्षताम् इत्यादिरेव ; काकपदस्य च दध्युपघातके लक्षणा , लक्ष्यतावच्छेदकं दध्युपघातकत्वञ्च शक्यकाकवृत्ति यथा तथा अशक्यमार्जारादिवृत्त्यपि इति शक्याशक्यविषयत्वेन जहदजहल्लक्षणात्र ।
यद्यपि तार्किकोक्ताजहल्लक्षणालक्षणमत्रातिव्याप्तं ; तथापि इदं न परिभाषाकृदुक्ताजहल्लक्षणालक्षणेन्तर्भवति , शक्यविशिष्टविषयलक्षणात्वस्यैव अजहल्लक्षणात्वात् , काकपदशक्यकाकत्वविशिष्टस्यात्र काकपदेनाविवक्षितत्वात् च ।
अत एव पदस्य शक्तिः कुत्र , तत्तल्लक्षणालक्षणञ्च किं कस्मिन्मते इति विचार्य्य मतयोरसङ्करं कृत्वा मतिः कार्य्या ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me