ब्रह्मणि द्वैताभावोपपादनम्

अधिकरणमेवाभाव इति पक्षेऽपि केवलस्य सद्रूपस्याभावत्वविशिष्टेन सद्रूपेण तादात्म्यसंबन्धसत्त्वात्तद्व्यापकत्वोपपत्तिः ।
न च – उक्तपक्षे ‘नेह नाने’त्यादिश्रुत्यनुपपत्तिः, तया ब्रह्मणि प्रपञ्चाभावाधारत्वबोधनादिति-वाच्यम् ;
उक्तपक्षे घटाद्यभावस्य भूतलादौ तादात्म्यसंबन्धस्यैव स्वीकारेण ब्रह्मणि प्रपञ्चाभावतादात्म्यस्यैवोक्तश्रुत्या बोधनात् । उक्तं हि न्यायकुसुमाञ्जलौ अभावीयसंबन्धविचारप्रसङ्गे ‘परस्य तादात्म्यमस्ति इति चेद् इति — परस्याधिकरणस्वरूपाभाववादिनो भट्टादेर्मते इति तत्र टीकाकारः ।

अधिकरणातिरिक्ताभावपक्षेऽपि चैत्रे गोशून्यता नास्ति इत्यादौ गवादिरूपाभावस्याधारत्वेन चैत्रादिप्रत्ययाभावात् स्वामित्वसंबन्धस्य वृत्यनियामकत्वाच्चाभावधीमात्रस्याभावाधारत्वविषयकत्वानियमात्; घटाभावे न घट इत्यादौ अभेदेऽप्याधाराधेयत्वस्य सर्वैरपि स्वीकार्यत्वेन उक्तश्रुत्यादिजन्यज्ञानस्य ब्रह्मादावभावाधारत्वविषयकत्वस्योक्तपक्षद्वयेऽपि संभवाच्च ।

इति द्वितीयमित्थ्यात्वे लघुचन्द्रिका ।

अत्र भाट्टमते न अभावत्वविशिष्टस्याधिकरणेनात्यन्ताभेदः किन्तु तादात्म्यमेव , तथा च आधाराधेयप्रत्ययोपपत्तिः । तन्मते अभावस्याधिकरणात्मकता इति सर्व्वथाभेदोक्तिस्तु अभावत्वोपलक्षितस्यैवाधिकरणेनात्यन्ताभेदमुद्दिश्य इति ।

तार्क्किकादिमते तु अभावस्याधिकरणभेद एव इति तन्मते आधाराधेयप्रत्ययोपपत्तिः सुकरा ।
परं सर्व्वेणापि सप्तम्यादिघटितपदघटितवाक्येनाभावविषयकेण नाधाराधेयभावो बोद्ध्यते , चैत्रे न गोशून्यता इत्यादौ तदसम्भवात् , तदसम्भवश्च गोशून्यताभावस्य गोरूपस्य चैत्रवृत्तित्वाभावात् । तथा च नेह नाना इतिवाक्येनापि आधाराधेयभावाबोध इत्येव भवतु ।
यदि तु तेष्वाधाराधेयभाव एव बुद्ध्यते इत्याग्रहः तर्हि घटाभावे न घट इतिप्रत्ययेन घटाभावपदबोद्ध्यात् अभावात् न घट इतिपदद्वयबोधितस्याभावस्य भेदे प्रमाणाभावात् गौरवादेश्च अभेदे तार्क्किकादिनाप्यङ्गीकृते घटाभावे न घट इत्यनेन अभिन्नयोरप्याधाराधेयभावबोधाङ्गीकारे अभेदेप्यधाराधेयभावसम्भवेन नेह नाना इत्यत्रापि आत्मनि स्वाभिन्नद्वैताभावं प्रत्यधिकरणता बुद्ध्यते इत्यत्र न किमपि बाधकम् इति सर्व्वथा नेह नानेतिश्रुतिः साद्ध्वी ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me