प्रतिकर्म्मव्यवस्थायां मतसङ्करशङ्का

तत्राद्वैतसिद्धौ प्रतिकर्म्मव्यवस्थायां पङ्क्तियोजने मम क्लेशात् अत्र
विदुषां पुरतो दौर्बल्यंं प्रकटीक्रियते मम वा ग्रन्थकारस्य वा –

“अथ तत्रापि अपरोक्षैकरसचैतन्योपरागे विषयापरोक्ष्यप्रसङ्गः ।(१)

*न *। *विषयचैतन्याभिव्यक्तौ(२) एव विषयस्यापरोक्ष्यम् **;(३)*

*न च परोक्षस्थले तत् अस्ति **, विषयेन्द्रियसन्निकर्ष्षाभावेन विषयपर्य्यन्तं
वृत्तेः अगमनात् , अन्तरेव तत्र धीसमुल्लासात् ; *

अपरोक्षस्थले तु प्रमातृचैतन्याभेदाभिव्यक्ताधिष्ठानचैतन्योपरागो विषयेऽस्ति **,
तत्र विषयस्य कर्म्मकारकत्वात्

– इति मूलम् ।


बालबोधिनीकारा अत्र मतभेदेनाक्षेपं समाधानं च प्रदर्शयन्ति । तन्न युक्तं भाति
, उपरागार्थत्वपक्षे एव शङ्कायाः तत्समाधानस्य च युक्तत्वात् । यद्यपि समाधाने
आवरणाभिभवाभेदाभिव्यक्तिपक्षौ आदृतौ इव दृश्येते इति भ्रमो भवति तथापि उपरागो
विषयेऽस्ति इति उपसंहारात् उपरागार्थत्वपक्षे एव समाधानस्य योजनं
ग्रन्थसाधुतायै कर्त्तव्यम् ।
बलात् योजनम् इत्थम् –
उपरागार्थत्वपक्षेऽपि अपरोक्षत्वाय विषयाव्छिन्नचैतन्याभिव्यक्तिः अपेक्षिता
प्रमातृचैतन्यविषयाधिष्ठानचैतन्ययोरभेदाभिव्यक्तिश्च ।
इति ।
अत्र मतसङ्करो दोषः ।

विषयचैतन्यं = विषयाधिष्ठानचैतन्यं ब्रह्म । न तु जीवः , तस्य सर्व्वगतत्वेऽपि
तदनधिष्ठानत्वात् , अधिष्ठानस्यैव च विषयप्रकाशकत्वात् ।
किन्तु एतदयुक्तं , विषयाधिष्ठानचैतन्ये आवरणास्वीकारेऽपि सर्व्वगतस्य जीवस्य
विषये उपरागाभावेनैव प्रथमपक्षे अभानस्य सिद्धेः । अत एव वृत्तेः
आवरणाभिभवार्थत्वपक्षे एतत् समाधानम् इति प्रतीयते ।

उपरागपक्षे परोक्षापरोक्षसाधारणवृत्तौ चिदुपरागो भवति । परं चिदुपरागो न
प्रत्यक्षत्वे तन्त्रम् । किन्तु विषयदेशे गतायां वृत्तौ चिदुपराग एव – इत्येव
समाधानं वक्तव्यम् । एतत् परं वृत्तेः आवरणाभिभवार्थत्वपक्षसमर्थनाय मूलं न तु
उपरागार्थत्वपक्षसमर्थनाय प्रतीयते इति अतो न युक्तं , शङ्काया
उपरागार्थत्वपक्षविषयत्वात् ।
शङ्का तु यस्मात् वृत्तेः उपरागार्थत्वपक्षे कृता तस्मात्
विषयसंश्लिष्टवृत्त्युपरक्तचैतन्यं विषयापरोक्ष्यहेतुः ,
विषयासंश्लिष्टवृत्त्युपरक्तचैतन्यं विषयपरोक्षहेतुः । स्मर्त्तव्यं यत्
चैतन्यमत्र जीवात्मकं जगदनुपादानम्।
आवरणाभिभवार्थत्वपक्षे तु परोक्षवृत्त्या मनोदेशावच्छेदेन चैतन्यावरणाभिभवात्
परोक्षम् अपरोक्षवृत्त्या तु विषयावच्छेदेनापि चैतन्यावरणाभिभवात् अपरोक्षम्
इति वक्तव्यम् । स्मर्त्तव्यं यत् चैतन्यमत्र जीवात्मकं जगदुपादानं
सर्व्वाधिष्ठानम् ।

एतत्समाधानं जीवस्य परिच्छिन्नत्वे ब्रह्मणो विषयाधिष्ठानत्वतज्ज्ञानत्वपक्षे
भाति , तच्चायुक्तं , शङ्कायाः उपरागार्थत्वपक्षविषयत्वात् । तथा च
अस्मिन्पक्षे परोक्षवृत्त्या
प्रमाणावच्छिन्नप्रमात्रवच्छिन्नचैतन्ययोरभेदाभिव्यक्तेः विषयपरोक्षं
अपरोक्षवृत्त्या प्रमाणप्रमेयप्रमात्रवच्छिन्नचैतन्याभेदाभिव्यक्तौ
विषयापरोक्ष्यम् इति वक्तव्यम् । तच्चात्राप्रासङ्गिकं , शङ्काया
अन्यविषयत्वादेव ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me