द्वितीयाभावप्रयुक्तसद्वितीयत्वापत्तिवारणम्

तत्रेयमद्वैतसिद्धिः

ननु अद्वितीयत्वं द्वितीयाभावविशिष्टत्वं , तदुपलक्षितत्वं वा ।
उभयथापि विशेषणम् उपलक्षणं वा द्वितीयाभावः प्रामाणिकश्चेत् , तदा तेन सद्वितीयत्वापत्तिः ;
अप्रामाणिकश्चेत्, तदा द्वितीयेन सद्वितीयत्वापत्तिः ।
न च अभावे द्वितीयेऽपि न भावाद्वैतहानिः ;
अभाववद् दृश्यस्य धर्मादेरप्येवं प्रामाणिकत्वे बाधकाभावाद् इति चेत् ।
न ; प्राभाकररीत्या द्वितीयाभावस्याधिकरणानतिरिक्तत्वेन , प्रामाणिकत्वेऽपि तेन सद्वितीयत्वाभावात् ।
न च — एवम् अनुपलब्धेः पार्थक्येन प्रमाणत्वोक्तिरयुक्ता, प्रमेयानतिरेकाद् — इति वाच्यम् ;
अतिरिक्ताभाववादिमत एव तदुक्तेः,
अतिरिक्ताभावानभ्युपगमेऽपि अभावत्वप्रकारकज्ञाने तत्प्रामाण्योपपत्तेश्च ।
न च अनृतव्यावृत्तेरपि ब्रह्ममात्रतया भेदसत्त्वापत्तिः ;
इष्टापत्तेः , अनृतनिरूपितत्वं परम् अनृतमिथ्यात्वात् मिथ्या , भेदो ब्रह्माभिन्नतया सत्य एव इति ।
न च — प्राभाकरमते प्रतियोगिमदधिकरणव्यावृत्त्यर्थं कैवल्यादिविशेषोऽवश्यमधिकरणे वक्तव्यः , तथा च स एवाभावः , अन्यथा तेषामप्यनुपपत्तिरेव — इति वाच्यम् ;
यस्मिन् कदापि न प्रतियोगिसंबन्धः तस्मिन् स्वरूपरूपोऽभेद एव कैवल्यं ;
यस्मिंश्च कदाचित् सोऽपि , तदा तस्मिन् प्रतियोगिमदधिकरणकालभिन्नकालावच्छिन्नमधिकरणम् इति न कैवल्यस्य अधिकरणातिरेकः , न वा अनुपपत्तिः इति ।
न च – एवं गुणगुण्यभेदवादिमते शौक्ल्यादेरिव शक्त्यादेरपि भावरूपधर्मस्य ब्रह्माभेदोऽस्तु इति वाच्यं ;
शक्त्यादिना सहाभेदग्राहकमानाभावात् ।
 
अस्तु वा द्वितीयाभावोपलक्षितस्वरूपत्वम् अद्वितीयत्वम् । तस्य च अप्रामाणिकत्वेऽपि तत्प्रतियोगिनो द्वितीयस्य स्वप्नोपभुक्तनिगरणादाविव प्रामाणिकत्वानापत्तेः ।
एतेन —
द्वितीयाभावस्य प्रागभावादित्वे द्वितीयस्यानित्यत्वमात्रं स्यात् , न तु मिथ्यात्वम् ;
अत्यन्ताभावत्वे तूपलक्षणत्वानुपपत्तिः , सदातनत्वात् ;
श्रुतितात्पर्यविषयत्वादिकार्यानन्वयित्वेन उपलक्षणत्वे अत्यन्ताभावासिद्धिः।
एवं च
द्वैताभावस्तात्विकश्चेत् तेन स्यात् सद्वितीयता ।
अतात्त्विकश्चेद्द्वैतेन सद्वितीयत्वमापतेत् ॥
— इति परास्तम् ।
स्वरूपातिरेकतया तत्प्रमाया अनुद्देश्यत्वात् , तद्बोधस्यावान्तरतात्पर्येण यथाकथञ्चित्संभवात् ,
तात्त्विकत्वे ब्रह्मानतिरेकात् ,
अतात्त्विकत्वे स्वप्ननिगरणन्यायस्योक्तत्वात् ।
उपपादितं चैतद्विस्तरेण प्रागिति शिवम् ।

 

अत्रायं सङ्ग्रहः

द्वितीयाभावः प्रामाणिक इतिकल्पे
द्वितीयाभावो विशेषणम्
अभावस्य अधिकरणात् सर्व्वथानतिरिक्तत्वम्
अनुपलब्द्धेः प्रमाणत्वं तु न प्राभाकरमतीयान् प्रति , वेदान्तिनः प्रत्यपि तत्प्रमाणत्वम् अभात्वप्रकारकप्रमामादाय भवति
अनृतभेदस्य ब्रह्मणि विद्यमानस्य अधिकरणात्मना सत्यत्वम्
मित्थ्याप्रतियोगिनिरूपितत्वेन रूपेण कल्पिताभावत्वेन रूपेण वा तस्यैव मित्थ्यात्वम्
विशिष्टात् केवलस्य भेदोपि न विशेषणाभावरूपः किन्तु अधिकरणात्मक एव वा कालविशेषावच्छिन्नाधिकरणात्मक एव वा
अभावत्वोपहितरूपेण च स्वस्मिन्नेव तादात्म्यसम्बन्धेन विशेषणत्वं , शुद्धब्रह्मज्ञाने उक्ताभावत्वोपहितस्य अधिकरणस्वरूपस्य विषयत्वेनान्वयात् , ज्ञानविशेषविषयत्वरूपस्य विशेष्यान्वयिनि अन्वयस्य सत्त्वात् , भाट्टानाम् अधिकरणभिन्नाभिन्नाभावस्याधिकरणेन तादात्म्य इव प्राभाकराणाम् अधिकरणेनात्यन्तमभिन्नस्याभावस्यापि भिन्नरूपेण अधिकरणतादात्म्ये बाधकाभावात् ;
अथवा महावाक्यार्त्थबोधद्वारीभूते द्वैताभाववत्त्वप्रकारकबोधे अभावत्वविशिष्टस्यापि विषयत्वेनान्वयात् विशेषणत्वम् , ज्ञानविशेषविषयत्वरूपस्य विशेष्यान्वयिनि अन्वयस्य सत्त्वात्

द्वितीयाभावः अप्रामाणिक इतिकल्पे
कल्पितो द्वितीयाभावो ब्रह्मण्युपलक्षणम्
तस्य च ब्रह्मभिन्नत्वेपि अप्रामाणिकत्वादेव न सद्वितीयत्वापादकत्वम्
तस्य च अत्यन्ताभावरूपत्वेपि न नित्यत्वम् , दृश्यत्वेनैव मित्थ्यात्वात्
तस्य ब्रह्मण्युपलक्षणत्वञ्च शुद्धब्रह्मज्ञाने विषयत्वाभावादेव
तस्यासिद्ध्यभावश्च प्रमाणान्तरागम्यस्य तस्य श्रुतिमुख्यतात्पर्य्याविषयत्वेप्यवान्तरतात्पर्य्यविषयत्वात्
तस्य मित्थ्यात्वेपि तत्प्रतियोगिनो नामित्थ्यात्वं , स्वाप्नभोजनक्रियाया मित्थ्यात्वेपि तत्सम्बन्धिनोन्नादेरपि मित्थ्यात्ववत् निषेद्ध्यतावच्छेदकस्यैकत्वात्

इति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me