Oops! It appears that you have disabled your Javascript. In order for you to see this page as it is meant to appear, we ask that you please re-enable your Javascript!

तात्पर्य्यलिङ्गानि

गतिसामान्येति । सर्ववेदान्तवाक्यानाम् अद्वैतावगतिजनकत्वेन समानता – इत्यर्थः ।

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्
अर्थवादोपपत्ती लिङ्गं तात्पर्यनिर्णये – इतिवृद्धोक्तौ उपक्रमोपसंहार-पदाभ्यां विचार्यवाक्यस्याद्यन्तभागयोरेकार्थपर्यवसानं लक्ष्यते ।
अभ्यासः = अनन्यपरं पुनःश्रवणम्
अर्थवादः = स्तुतिनिन्दान्यतरबोधकवाक्यम्
एतत्त्रयं शब्दघटितत्वात् शब्दनिष्ठम् ।

तत्र आद्यस्य एकार्त्थतात्पर्यनिर्णायकत्वेन लिङ्गत्वं ; तात्पर्यविषयत्वेन सन्दिग्धानां बहूनां मध्ये यस्मिन्नर्थे आद्यन्तभागयोः पर्यवसानं , तस्मिन्नेव तात्पर्यनिर्णयात् ; अन्यथा तस्य वैयर्थ्यात् ;
क्वचिच्चानुवादत्वादिशङ्कापसारकतयापि तस्य लिङ्गत्वं ; ‘यदि हि तस्मिन्नर्थे वाक्यमनुवादः स्यात् , तदोक्तपर्यवसानं व्यर्थं स्याद्’ – इतियुक्तेः ।

द्वितीयं तु समिदादिवाक्येषु यद्यपि विलक्षणनानाकर्मविधाने तात्पर्यग्राहकं , विहितविधानायोगात् ; तथापि सिद्धार्थविषयकं सद् एकार्त्थतात्पर्य्यज्ञापकम् , अन्यथा पुनःश्रवणवैयर्थ्यात्
तस्माद् आदरज्ञापनद्वारा तस्य तात्पर्य्यज्ञापकत्वम्तदुक्तं भामत्यां
भूयस्त्वमर्थस्य भवति , यथा – ‘अहो दर्शनीया , अहो दर्शनीया’’ – इति ।
आदरश्च यद्यपिप्राशस्त्यरूपोऽभ्यस्यमानस्यार्त्थस्य विधेयत्वानुमानद्वारा तात्पर्यविषयत्वं ज्ञापयति ; अर्थवादोऽपि प्राशस्त्यज्ञापनद्वारा तथैव तज्ज्ञापकः ;
तथापिअर्त्थवादबोद्ध्यं प्राशस्त्यं बलवदनिष्टाजनकस्वरूपम् , अभ्यासबोध्यं तु अर्थान्तरादुत्कृष्टत्वरूपम् – इति ; नाभ्यासर्थवादयोः अर्त्थैक्यम् ।

अपूर्वता = प्रकृतवाक्यार्थधीविषये उक्तधीपूर्वम् अज्ञातत्वम् ।  फलम् = उक्तधियः प्रयोजनवत्त्वम् ।  उपपत्तिः = उक्तधीविषयस्याबाधितत्वम्

एतस्य तु त्रयस्य प्रमात्वघटकतया तात्पर्यं प्रति व्यापकतया लिङ्गत्वं ; यथा — यज्ञोपवीतादिकं ब्राह्मण्यं प्रति ।  तत्र आद्यम् अनुवादवाक्यस्य स्वार्थे प्रामाण्यवारणाय , द्वितीयं उत्ताना वै देवगवा – इत्यादेस्तद्वारणाय , तृतीयं ग्रावाणः प्लवन्ते – इत्यादेः ।

– उत्तानादिवाक्यस्य निष्प्रयोजनार्थपरत्वे तदध्ययने प्रवृत्त्यनुपपत्तेः , स्वार्थे तात्पर्याभावेऽपि प्रामाण्यशरीरे प्रयोजनवत्त्वनिवेशो व्यर्थः – इति वाच्यं ;  यादृशं ज्ञानं प्रवृत्तिनिवृत्तिद्वारा साक्षाद्वा प्रमातुरिष्टप्रयोजकं , तस्यैव प्रमात्वेन लोके व्यवहारेण निष्प्रयोजनस्याप्रमात्वात्

अत एव औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः , तस्य ज्ञानमुपदेशोऽव्यतिरेकश्च अर्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वाद् – इति जैमिनिसूत्रे तथैवोक्तम्

औत्पत्तिकः शब्दार्थयोः सम्बन्धः , न तु दोषवत्पुरुषकृतः सङ्केतः । अतः , तस्य = धर्मस्य ज्ञानं = ज्ञापकं वाक्यम् अप्यौत्पत्तिकं निर्दोषत्वेनानादि ।  किञ्च , तादृश उपदेशः अव्यतिरेको = बाधकज्ञानवत्त्वरूपेण प्रमाणवैधर्म्येण शून्यः । किञ्च , अनुपलब्धे = अज्ञाते अर्थे = सप्रयोजने धर्मे उपदेशरूपत्वात् तद्वाक्यं प्रमाणमेव ।
— इति तदर्थो वार्तिकादावुक्तः

तदेतत् सर्वमभिप्रेत्याह — षड्विधतात्पर्यलिङ्गोपेतेति

— इति लघुचन्द्रिकाकाराः आगमबाधोद्धारप्रकरणे

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me