Oops! It appears that you have disabled your Javascript. In order for you to see this page as it is meant to appear, we ask that you please re-enable your Javascript!

ज्ञानस्य काम्यता

ननु ब्रह्मज्ञानं न काम्यं , सुखदुःखाभावान्यत्वात् तत्साधनान्यत्वात् च । तथा च कथं तत्साधने श्रवणादौ प्रवृत्तिः स्यात् ।
तथा हि –
ब्रह्मज्ञानं न सुखात्मकं ; ज्ञानस्य सुखत्वे सङ्करात् , सुखाकारवृत्तौ हि सुखत्वं भवति न ज्ञानत्वं , ज्ञानत्वञ्च सुखाकारमनोपरिणामान्ये एव भवति इति ज्ञानत्वसुखत्वयोरेकत्र साङ्कर्य्यं स्यात् ; ब्रह्मण एव सुखत्वात् अपि न अब्रह्म ब्रह्मज्ञानं सुखम् ; असुखात्मकमनोविकारत्वात् ।
न च ब्रह्मज्ञानं दुःखाभावात्मकं , भावरूपत्वात् , मनउपादानत्वात् च ।
न वा ब्रह्मज्ञानं सुखसाधनम् , आत्मस्वरूपसुखस्य नित्यत्वेन साधननिरपेक्षत्वात् , वृत्त्यात्मकसुखस्य च जन्यत्वेन मोक्षत्वासम्भवात् ।
न च ब्रह्मज्ञानं दुःखाभावसाधनं , ब्रह्मज्ञानिनामपि याज्ञवल्क्यादीनां रागद्वेषादिप्रयुक्तस्य , व्यासवसिष्ठादीनां मोहप्रयुक्तस्य , शङ्कराचार्य्यादीनाञ्च विद्याप्रयुक्तस्य दुःखस्य दर्शनात् ।
इति चेत् ।

न ; ब्रह्मज्ञानस्य दुःखध्वंसत्व-सुखव्याप्यत्वाभ्यां काम्यत्वसम्भवात् । चरमवृत्तेः कथञ्चन काम्यत्वासम्भवेपि सुखकाम्यतावच्छेदकत्वेन तत्साधनश्रवणादौ प्रवृत्तिसम्भवात् च ।
तथा हि –
ब्रह्मज्ञानं दुःखध्वंसरूपं , दुःखञ्चेदं तद् यद् मुमुक्षौ श्रवणाद्यायासेन जातम् । न च उक्तदुःखध्वंसत्वं चरमतत्त्वज्ञानेऽसम्भवि ; यन्मनोवृत्त्युदयक्षणे यन्मनोपरिणामो विच्छिद्यते यत्पूर्व्वञ्च विद्यते तन्मनोवृत्तिस्तन्मनःपरिणामस्य ध्वंसः , तदन्यस्य तत्त्वस्वीकारे धर्म्मितद्धेत्वादिकल्पनरूपात् गौरवात् ।
तथा च , उक्तदुःखविशेषध्वंसरूपत्वेन चरमतत्त्वज्ञाने काम्यतोपपद्यते इति ।

सुखव्याप्यत्वादपि चरमतत्त्वज्ञानस्य काम्यता । तथा हि –
आत्मस्वरूपमनवच्छिन्नं सुखं नित्यत्वाद् केनापि साधनेनाजन्यम् इति सुखजनकत्वेन न चरमवृत्तेः काम्यता यद्यपि तथापि सुखव्याप्यत्वेन काम्यता सम्भवति ।
यस्मिन्सत्यवश्यं दुःखं तत्र द्वेषो यथा युक्तः तथैव यस्मिन्सत्यवश्यं सुखं तत्र काम्यताप्युपपद्यते ।
न च इष्टहेतोरेव काम्यता दृष्टा , न तु इष्टव्याप्यस्यापि इति वाच्यं ;
कुन्त्याः सुखहेतुभगवद्दर्शनव्याप्यविपत्सु कामनाया दर्शनात् , न हि विपदः सुखहेतुर्भवन्ति , न वा तत्साधनभगवद्दर्शनस्य । उक्तं हि तया –
विपदस्सन्तु नश्शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत् स्यात् अपुनर्भवदर्शनम् ॥
इति ।
अपि च उदयनाचार्य्यैरपि बौद्धाधिकारे सुखव्याप्यत्वेन दुःखाभावस्य काम्यताऽशङ्क्य दूषिता । न च सुखव्याप्यत्वस्य काम्यत्वाप्रयोजकत्वे तन्निरासो युज्यते । न हि तत्र तैः सुखव्याप्यत्वस्य काम्यत्वाप्रयोजकत्वं वारितं किन्तु दुःखाभावस्य सुखव्याप्यत्वमेव इति च ।
भवति च चरमवृत्तौ अनवच्छिन्नात्मसुखाभिव्यक्तिर्नियमेन इति उक्तसुखव्याप्यत्वेन चरमवृत्तौ कामनोपपद्यते इति ।

सुखनिष्ठकाम्यतावच्छेदकत्वेनापि चरमवृत्तेः काम्यता सम्भवति ।
तथा हि –
वेदान्तनये सुखमात्मा ;
तस्य च न स्वरूपेण काम्यता , सिद्धत्वात् , कामनायाश्चासिद्धमात्रविषयत्वात् ;
नापि जन्यतया , आत्मनो नित्यत्वात् ;
नापि ज्ञानविषयत्वेन सुखस्य काम्यता , चैतन्याभेदेन सुखस्य वृत्त्यप्रकाश्यत्वात् ;
नापि आवरणाभावविशिष्टतया , तत्र वस्तुत आवरणस्याभावात् ;
किन्तु स्वावरणविरोधिवृत्तिविशिष्टतयैव ।
तथा हि –
अवच्छिन्नसुखविशेषस्यावारकं यदज्ञानं तद्विरोधिनी या चन्दनादिसंयोगादिजन्या सुखाकारा वृत्तिः , तद्विशिष्टतया सुखम् = आत्मा काम्यं भवति ।
न हि वृत्तौ सुखत्वं मुख्यम् , अस्मन्मते आनन्दो ब्रह्म इतिश्रुतिबलात् ब्रह्मण एव सुखत्वस्वीकारात् , तदितरत्र तत्स्वीकारे गौरवात् , उपाधिविशेषेण तस्यैव भोजनादिसुखत्वेन व्यवहारात् । अत एव विषयसंयोगजन्या सुखाकारा वृत्तिः केवलं सुखनिष्ठकाम्यतावच्छेदिकैव ।
काम्यतावच्छेदकवृत्तौ कामनाभावेपि तत्साधनेषु प्रवृत्तिः सम्भवति , साधनविशेषजन्यसुखाकारवृत्तिशिष्टस्यैव सुखस्य काम्यत्वात् ।
तथा च चन्दनादिजन्यसुखाकारवृत्तेः सुखत्वाभावेनाकाम्यत्वेपि तद्विशिष्टस्यैवात्मनः काम्यत्वेन उक्तसुखाकारवृत्तिसाधने विषयसंयोगादौ प्रवृत्तिरुपपद्यते , काम्यसुखप्रयोजकत्वात् ।
तद्वत् अनवच्छिन्नसुखस्यापि स्वावरणविरोधिचरमतत्त्वज्ञानविशिष्टतयैव काम्यता , तस्य च साधनं श्रवणादि उक्तसुखस्य प्रयोजकम् इति प्रवृत्तिविषयो भवति ।
अत्रापि न सुखत्वजातिमत्त्वेनैव काम्यत्वे लाघवम् । आत्मनश्च स्वरूपतः सुखात्मकत्वेपि सुखत्वजातिमत्ताध्यासिक्येव निर्द्धर्म्मकत्वविरोधित्वात् । सुखत्वजातिस्तु सुखावारकाज्ञानविरोधिमनोवृत्त्युपहितात्मन्येव , न तु उक्तमनोवृत्तिविशिष्टात्मनि कैवल्ये आत्मन्युक्तवृत्तिवैशिष्ट्याभावेऽसुखत्वप्रसक्तेः इति त्वन्यत् ।

ब्रह्मज्ञानिनां उक्तदुःखं तु चरमवृत्तिपूर्व्वभाव्येव । न हि चरमवृत्तिक्षणे तादृशं तेषां दुःखं सिद्धम् । तथा च दृश्योच्छेदक्षणवृत्तित्वात् चरमवृत्तेः उक्तोच्छेदसाधनत्वासम्भवेपि सुखव्याप्यत्वेन सुखप्रयोजकत्वेन च काम्यतोपपद्यते ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me