कौषीतकिब्राह्मणोपनिषद् – ॥३।१॥

(शङ्करानन्दी दीपिका)

यस्या हेतोः पर्य्यङ्कोपासना प्राणोपासना च विविधगुणा उक्ता , तां ब्रह्मविद्यां विवक्षुस्तस्यामास्तिक्यं जनयितुं प्रतर्द्दनं काश्यं देवेभ्योभ्यधिकतरबललक्ष्म्यादिमन्तं ब्रह्मविद्यार्थिनं शिष्यं देवराजञ्च सत्यपाशनिबद्धं[1] मनुष्येषु ब्रह्मविद्यां वक्तुमनिच्छन्तमपि गुरुं सम्पाद्य आख्यायिकाम् आह –

 

(उपनिषद्)

प्रतर्द्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ।

तं हेन्द्र उवाच – प्रतर्द्दन ! वरं वृणीष्वेति(/वरं ते ददानीति) ।

स होवाच प्रतर्द्दनः – त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस इति ।

तं हेन्द्र उवाच – न वै वरोऽवरस्मै(/वरः परस्मै) वृणीते , त्वमेव वृणीष्वेति ।

अवरो वै (+तर्हि) किल मेति(/म इति) होवाच प्रतर्द्दनः ।

अथो खल्विन्द्रः सत्यादेव नेयाय , सत्यं हीन्द्रः ।

तं(/स) हेन्द्र उवाच – मामेव विजानीहि । एतदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजानीयात् त्रिशीर्षाणं त्वाष्ट्रम् । अहनम् अरुन्मुखान्यतीन् साला(/शाला)वृकेभ्यः प्रायच्छं , बह्वीः सन्धा अतिक्रम्य दिवि प्रह्लादीयान्(/प्रह्लादीन्) अतृणमहम् , अन्तरिक्षे पौलोमान् , पृथिव्यां कालकाञ्जान्(/कालकाञ्ज्यान्/कालखाञ्जान्/कालकञ्ज्यान्) । तस्य मे तत्र न लोम च नामीयत(/मा मीयते) । स यो मां वेद , न ह वै तस्य(/मां विजानीयात् , नास्य) केनचन कर्म्मणा लोको मीयते , न स्तेयेन , न भ्रूणहत्यया , न मातृवधेन , न पितृवधेन , नास्य पापं चक्रृषो मुखान्नीलं वेतीति ॥३।१॥

 

प्रतर्द्दनः = प्रकर्षेण तर्दयति – भर्त्सयति – अभिभवति स्वशत्रून् इति सार्थकनामा प्रतर्द्दनः

= किल ।

दैवोदासिः = दिवोदासस्य काशिराजस्य पुत्रो दैवोदासिः

इन्द्रस्य = देवराजस्य परमैश्वर्य्यसम्पन्नस्य ।

प्रियं धाम = प्रियं स्थानं , स्वर्ग्गम् – इति यावत् ।

उपजगाम = प्राप्तवान् ।

 

तत्प्राप्तौ कारणमाह –

युद्धेन च , पौरुषेण च = समरयज्ञेन अनेकभटपश्वाहुतिदीप्यमानशस्त्राग्निना , पुरुषसम्बन्धिना उत्साहेन च – स्वर्ग्गमर्म्मपरिज्ञानेन[2] – इत्यर्थः ।

चकारौ उभयोरपि कारणत्वसमुच्चयार्थौ ।

 

तं = समरशौण्डम् उत्साहिनं स्वर्ग्गमागतं प्रतर्द्दनम् ।

= किल ।

इन्द्रः = युद्धपौरुषाभ्यां परितोषं प्राप्तो देवराजः ।

उवाच = उक्तवान् ।

 

इन्द्रोक्तिमाह –

प्रतर्द्दन = हे प्रतर्द्दन ।

वरम् = अभिलषितम् अर्थम् ।

ते = तुभ्यं = प्रतर्द्दनाय मत्परितोषकारिणे ।

ददानि = प्रयच्छानि = ददामि – इत्यर्थः ।

इति = अनेन प्रकारेण । उवाचइत्यन्वयः

 

= इन्द्रेणोक्तः ।

= किल ।

उवाच प्रतर्द्दनः । स्पष्टम् ।

 

प्रतर्द्दनोक्तिमाह –

त्वमेव = मत्पुरतः स्थितो हिताहितज्ञो देवराजो , न त्वन्यः ।

मे = मह्यं = प्रतर्द्दनाय हितार्थिने = मदर्थम् – इत्यर्थः ।

वृणीष्व = हितम् इष्टं वा(/चा)र्थं प्रार्थयस्व ।

 

प्रार्थ्यमानं वरमाह –

यं = प्रसिद्धम् अभीष्टमर्थम् ।

त्वं = सर्व्वज्ञो देवराजः ।

मनुष्याय = अज्ञानकाननान्तर्वर्त्तिने अनेकशुभाशुभव्यामिश्रकर्म्मफलदावाग्निसन्तप्तगात्राय मनुष्यजातियुजे ।

हिततमम् = अतिशयेन हितम् । नातः परं हितम् – इत्यर्थः ।

मन्यसे = निश्चिनोषि ।

इति = अनेन प्रकारेण ।

 

तम् = इन्द्रं प्रत्येवंवादिनं प्रतर्द्दनम् ।

= किल ।

इन्द्रो = देवराजो ब्रह्मविद्यां दातुमशक्तः ।

उवाच = उक्तवान् लौकिकं नयम् ।

 

इन्द्रोक्तिमाह –

न वै वरः परस्मै वृणीते

वै = प्रसिद्धम् ।

परस्मै = अन्यार्थम् ।

वरो = वरम् ।

वृणीते = अन्यो न प्रार्थयते ।

यत एवम् , अतः स्वार्थं वरं त्वमेव वृणीष्व

इति । स्पष्टम् ।

 

एवमिन्द्रेणोक्ते

अवरः = ‘वरं ददानि’ – इतिप्रतिज्ञाय भवता निर्द्दिष्टोऽर्थोऽदत्तः , स्यात् – इति शेषः

वै = प्रसिद्धो मनुष्येनाज्ञानावृतदृष्टिना मया याचितः ।

तर्हि = तदा ।

किल = निश्चितम् ।

मे = मह्यं हिताहितज्ञानशून्याय ।

 

इति होवाच प्रतर्द्दनः

= किल ।

एवमुक्तवान् प्रतर्द्दनो देवराजं ‘स्वार्थोऽवरोऽयम्’ – इति ।

 

अथो = अथ = प्रतर्द्दनवाक्यानन्तरम् ।

खलु = निश्चितम् ।

इन्द्रः = सत्यवादिनामग्रगण्यो देवराजः ।

सत्यात् = ‘वरं ते ददानि’ – इतिस्वप्रतिज्ञानात् यथार्थवचनात् एव ।

नेयाय = नापजगामैव ।

प्रतर्द्दनार्थं वरदातापि स्वयं स्वस्मै वरं याचितवान् , न तु लौकिकं नयम् अङ्गीचकार – इत्यन्वयः

 

सत्यादनपगमने कारणमाह –

सत्यं हीन्द्रः

सत्यं = यथार्थस्वरूपं = यत्किञ्चिद्वागर्थस्वरूपम् ।

इन्द्रो = देवराजः ।

हि = यस्मात् ।

तस्मात् नेयाय – इत्यन्वयः

 

= सत्यपाशाभिबद्ध इन्द्रः ।

= किल ।

उवाच = उक्तवान् = प्रतर्द्दनार्थम् आत्मानं वरं याचितवान् – इत्यर्थः ।

 

इन्द्रोक्तिमाह –

मामेव = अस्मत्प्रत्ययव्यवहारयोग्यम् आनन्दात्मानमेव , न त्वन्यम् ।

विजानीहि = अवगच्छ = साक्षात्कुरु – इत्यर्थः ।

 

एतदेव = मे ज्ञानमेव , न त्वन्यत् ।

अहं = भवते वरस्य दाता याचिता च ।

मनुष्याय हिततमं = व्याख्यातम् ।

मन्ये = निश्चिन्वे ।

 

एतच्छब्दार्थमाह –

यत् = प्रसिद्धं वेदान्तेषु ‘ब्रह्मविदाप्नोति परम्’ – इत्यादिना ।

माम् = उक्तानन्दात्मानम् ।

विजानीयात् = साक्षात्कुर्य्यात् – इत्यर्थः ।

यन्मां विजानीयात् , एतदेव हिततमं मन्य – इत्यन्वयः

 

ननु तव ज्ञाने तव अन्यस्य वा यदि कश्चनातिशयोऽभूत् , तर्हि तद् हिततमं ; न त्वन्यथा – इतिशङ्कायाम् ;

अद्वैतज्ञानं गुरुमातृवधप्रमुखपापोन्मूलकम् । अत आह –

त्रिशीर्षाणं = त्रिशीर्षम् ।

त्वाष्ट्रं = त्वष्टुरपत्यं विश्वरूपम् ।

 

अहनं = निपातितवान् ।

अरुन्मुखान् यतीन् =

रुच्छब्दो वेदाध्ययनं , तेन उपनिषदर्थविचारो ब्रह्ममीमांसापर्य्यायो लक्ष्यते ;

तद्येषां मुखे नास्ति , ते अरुन्मुखाः । तान् ।

यतीन् = प्रयत्नवतश्चतुर्थाश्रमिणः ।

सालावृकेभ्यः = सालावृकाणामपत्याः सालावृकेयाः = सालावृका इति यावत् , तेभ्यः = अरण्यश्वभ्य – इत्यर्थः ।

प्रायच्छं = प्रकर्षेण वज्रेण शतधा विभज्य दत्तवान् , अद्यापि च तेषां मस्तकविपाकाः करीरा दृश्यन्ते ।

 

बह्वीः = भूयसीः स्वरूपतः सङ्ख्यातश्च ।

सन्धाः = सन्धीन् – इत्यर्थः ।

अतिक्रम्य । स्पष्टम् ।

दिवि = स्वर्ग्गे ।

प्रह्लादीन् = प्रह्लादिनः = प्रह्लादेन नित्यसम्बन्धिनः अनेककोटिसङ्ख्याकान् महामायान् अनेकच्छिद्रघातिनोसुरान् = प्रह्लादपरिचारकान् – इत्यर्थः ।

अतृणं = हिंसितवान् ।

अहम् = आत्मज्ञानी इन्द्रस्तुभ्यं वरस्य दाता ।

 

अन्तरिक्षे = भुवर्लोके ।

पौलोमान् = पुलोमसम्बन्धिनोऽसुरविशेषान् ।

बह्वीः सन्धा अतिक्रम्य अतृणम्इत्यनुवर्त्ततेऽत्र वक्ष्यमाणे च

 

पृथिव्यां = भूलोके ।

कालकाञ्ज्यान् = कालकाञ्जसम्बन्धिनोसुरान् ; भूयसां परस्परसम्बन्धावश्यम्भावित्वात् कालकञ्जा एव कालकाञ्ज्याः , तान् ।

 

ननु किं प्रकृते तावात – इति ।

अत आह –

तस्य = गुरुब्राह्मणवधस्य कर्त्तुः , संन्यासिनाञ्च श्वभ्यो दातुः , लोकत्रयेपि यज्ञादिसम्पन्नमहामायासुरसङ्घस्योपसंहर्त्तुः , आत्मज्ञानिनोन्येन मनसापि कर्त्तुमशक्यं कर्म्म कुर्व्वतः ।

मे = मम = इन्द्रस्य तवोपदेशकस्य ।

तत्र = तस्मिन्नतिक्रूरे कर्म्मणि क्रियमाणे ब्रह्मवधादिलक्षणे ।

न लोम च मा मीयते =

न लोमापि = अत्यल्पोपि केश – इत्यर्थः ।

मा मीयते = न मीयते = न हिंस्यते उक्तेन केनचित् कर्म्मणा ।

 

ननु एतत् भवत् एव , न त्वस्मदादेः – इति ।

अत आह –

= मदन्यो मज्ज्ञानी प्रसिद्धः ।

यः = यः कश्चिद् देवो मनुष्यो वा ।

मां वेद = आनन्दात्मानमिन्द्रं विजानीयात् = अहमानन्दात्मास्मि इति साक्षात्कुर्य्यात् ।

नास्य केन च कर्म्मणा लोको मीयते = न हिंस्यते ।

 

हिंसकानि कर्म्माण्येकदेशेन दर्शयन्नाह –

न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया

मातापितरौ प्रसिद्धौ , तयोर्वधः = प्राणत्यागानुकूलव्यापारो लोकद्वयभ्रंशहेतुः प्रत्येकं प्रसिद्धः ।

स्तेयं = सुवर्णपरिमितसुवर्णस्य(?) ततोप्यधिकस्य वा स्वामिनः परोक्षमादानं , तेन ।

भ्रूणो = वेदस्य वेदयोर्वेदानां वा अधिगतार्थेन अध्ययनेन सह वर्त्तमानो द्विजोत्तमः – इत्यर्थः ; तस्य = मनसा वाचा कर्म्मणा वापराधशून्यस्य स्वहस्तादिना वधः = भ्रूणहत्या ; तया ।

कर्म्मसामान्यस्य विशेषोयम् – इति दर्शयितुं पर्य्यायचतुष्टयेपि नकारचतुष्टयम् ।

 

नास्य पापं चकृषो मुखान्नीलं वेतीति

किं बहुना , अस्य = मदात्मज्ञानिनः ।

पापं चन(?) चकृषः = पापमपि कर्त्तुमिच्छोः ।

मुखात् = वदनात् , नीलं = मुखकान्तिस्वरूपम् ।

नीलं = नीलिमाश्रयस्वरूपं(?) वा मुखात् = कण्ठजिह्वादिवदनात् ।

न वेति = न व्येति = नापगच्छति ।

 

इतिशब्दः प्रकृतब्रह्मज्ञानस्तुतिपरिसमाप्त्त्यर्थः ॥३।१॥

 

 

[1] सत्यव्रतम् इत्यर्थः ।

[2] स्वर्ग्गसाधनज्ञानेन तदनुष्ठानेन वा इत्यर्थः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me