उपलक्षणभेदौ

व्यावृत्ताकारत्वेन ज्ञानस्य भ्रमनिवर्तकता , न तु विशेषप्रकारकत्वनियमः । तथा हि –
व्यावृत्ताकारता हि द्वेधा भवति – विशेषणादुपलक्षणाच्च ।
तत्राद्ये सप्रकारकत्वनियमः ;
द्वितीयेऽपि धर्मान्तरस्य यदुपलक्षणं तस्माद्व्यावृत्ताकारत्वे सप्रकारकतैव ,
यदि तु स्वरूपोपलक्षणाद्व्यावृत्ताकारता , तदा निष्प्रकारकतैव ; उपलक्षणस्य तत्राप्रवेशात् , स्वस्य च स्वस्मिन्नप्रकारत्वात् ।
– इत्यद्वैतसिद्धौ मधुसूदनसरस्वती ।

व्यावृत्तिरत्र भेदश्चेत् भेदविशिष्टो य आकारः तद्वत्त्वेन इत्यर्थः ; भेदबुद्धिश्चेत् भेदबुद्धिविषयो य आकारः तद्वत्त्वेन इत्यर्थः ।
आकारो नाम विषयिता । स च नास्ति इतिव्यवहारविरोधी ज्ञानधर्म्मविशेषः ।

उपलक्षणं नाम कार्य्यानन्वयित्वे सत्यविद्यमानत्वे सति व्यावृत्तिजनकत्वम् । व्यावृत्तिरत्र भेदधीः ।
तद्द्विविधं – धर्म्मोपलक्षणं स्वरूपोपलक्षणं च ।
धर्म्मोपलक्षणं नाम तादृशमुपलक्षणं यत् विशेषणं लक्षयित्वा तद्वैशिष्ट्यधियं जनयति ।
स्वरूपोपलक्षणं तु तद् यत् स्वरूपमेव बोधयति ।
तत्रोभयत्राप्युपलक्षणमादौ स्ववैशिष्ट्यधियं जनयत्येव , तत उपलक्षणस्य स्वरूपबहिर्भूतत्वनिश्चयसत्त्वेन स्वोपलक्षितविषयधियं जनयति ।
धर्म्मोपलक्षणं तु धर्म्मविशिष्टविषयामेव तामुत्पादयति , स्वरूपोपलक्षणञ्च धर्म्मिमात्रविषयाम् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me