अलीकम् ?

खपुष्पं भवत्सिद्धान्त इत्यादिप्रयोगेषु तु भाट्टानां पुष्पे खसम्बन्धित्वारोपेण आरोपितखपुष्पपदार्थनिष्ठासत्त्वादीनां सिद्धान्ते सत्त्वेन प्रयोगः । इदं न खपुष्पम् इत्यत्र तु पुरोवर्त्तिनो ज्ञानाविषयत्वभाव एवार्थः स्यात् । इति तन्मते आरोपविषयता शब्दजन्यविकल्पवृत्तिविषयता चालीकस्याङ्गीक्रियेते , तथैव तस्य अभावात्मकधर्म्माश्रयत्वमपि । अत एव तद्रीत्या अलीकलक्षणं किं स्यात् इति चिन्तनीयम् , न हि तन्नये मनोवृत्तिविषयत्वसामान्याभावोलीके इति । कालासम्बन्धस्तु तल्लक्षणं वक्तुं शक्यते ।

वेदान्तिनां नये तुच्छस्याध्यारोपाविषयत्वात् कथञ्चिच्छब्दमहिम्ना शशशृङ्गपदेन विकल्पात्मकमनोवृत्तौ जातायामलीकत्वस्य विषयत्वमङ्गीक्रियते । तथापि विकल्पस्य ज्ञानत्वानङ्गीकारात् ज्ञानाविषयत्वमलीकस्य सम्भवति । अथापि विकल्पस्य ज्ञानाद्विविच्य प्रदर्शनाय तैः सत्त्वेन प्रतीत्यनर्हम् अलीकम् इत्युच्यते । उक्तानर्हताया अवच्छेदकञ्च किञ्चिद्वक्तव्यम् इति अत एव तन्नये तदेवावच्छेदकं तल्लक्षणं – सर्व्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वे सत्युत्पत्त्यादिशून्यत्वम् – इति सम्भवति ।
अथवा – उक्तप्रतियोगित्वे सति कालासम्बन्धित्वमेवालीकत्वं तदस्तु ।

तार्किकनये तु अलीकस्य ज्ञानसामान्याविषयत्वम् इति तन्नये न विकल्पवृत्तिरङ्गीक्रियते इति प्राप्तम् । अत एव ज्ञानाविषयत्वमेवालीकलक्षणम् । कालासम्बन्धित्वं वा ।

एतेषु सर्व्वेषु पक्षेषु इदं चिन्त्यं यत् –
तत्तन्मते तुच्छस्य यल्लक्षणं ज्ञानाविषयत्वदि तत् किं तुच्छे वर्त्तते न वा । वर्त्तते चेत् तस्यापि स्वरूपं प्राप्तं , नास्ति चेत् कथं तस्य तुच्छत्वम् ।
– इति ;
तुच्छस्यापदार्थत्वेनैव भेदप्रतियोगित्वादिभावधर्म्मानाश्रयत्वे सति पदार्थेषु तद्व्यावृत्तिः कथं सिद्ध्येत । तदसिद्धौ पदार्थानां तुच्छाभेदेनालीकत्वमापतेत् , तत्सिद्धौ च तुच्छे प्रतियोगित्वादिकमङ्गीकर्त्तव्यमापतेत् ।

– इति च ।

Another interesting thing that Mm. Manudeva Bhattacharya brought to my notice with regard to a specific example of alika (viz. “Bandhyaputra” or ‘the son of a barren woman’) is the following –

If a son is adopted by a barren woman, then according to Dharmasastra rules she becomes a mother, but according to the medical sciences such a son is fit to be called a “bandhyaputra” or the ‘son of a barren woman’. Then the question arises as to whether such an alika thing as a bandhyaputra does not exist at all or a separate grade of existence (may be a linguistic or ideational one?) is to be hypothecated with regard to them.

​इदमत्रावधेयं यत् – शशशृङ्गमसत् इत्यादिवाक्योत्थधीस्थले शशशृङ्गपदस्य सखण्डत्वे न अलीकपरत्वं किन्तु अखण्डत्वे एव ।
अपि च शशशृङ्गं सत् इति​वाक्योत्थधीविषयस्य तु नालीकत्वं किन्तु प्रातिभासिकत्वमेव ।
केवलात् शशशृङ्गपदादपि अलीकविषयविकल्पवृत्तिर्नाङ्गीक्रियते , तत्र सखण्डत्वादिकल्पनसम्भवात् । अत एव असदादिपदसमभिव्याहृतमेव तादृशं पदं विकल्पवृत्तिं जनयति । तादृशविकल्पवृत्तौ भासमानमलीकम् इति ।

त्वदुदाहृतस्थले तु वन्ध्यापुत्रपदं नालीकपरं किन्तु तात्पर्य्यविशेषेण प्रयुक्तं सत् सदर्थपरमेव ।

व्याकरणदर्शने श्रीनागेशभट्टदिशा बाह्यार्थविसंवादित्वे सति बौद्धार्थविषयत्वम् अलीकत्वम् इति अलीकस्वरूपम्

​इदं दुष्टं ; ज्ञानेच्छादीनामेव सविषयत्वं न तु सर्व्वेषां पदार्थानाम् । किञ्च यत् स्वयमेव न विद्यते तत् कथं किञ्चिन्निष्ठविषयतानिरूपकः स्यात् ।
अत एव उक्तं लक्षणं कथञ्चित् अलीकविषयकशाब्दबोधपरत्वेन नेयम् ।
तदपि न युज्यते – नागेशेन ख्यातेरपि तथैव निरूपणात् । तथा च तन्नये प्रातिभासिकालीकयोर्भेदो न सिद्ध्येत् ।

इदमत्र प्रतीयते यत् सुब्रह्मण्यकोराडसच्चिदानन्दमिश्राभ्यां सूचितमुचितमेवेति ।
तत्रेदं तमोघ्नेनोक्तं यत् अभावतुच्छयोर्भेदे सत्यपि भावाभावयोस्स्वरूपवत्त्वेन सादृश्यं नावबुद्ध्यत इति ।
तत्र ब्रूमः –
निस्स्वरूपत्वं हि तुच्छत्वम् इतिनिरूपिते सति अतुच्छानां सर्व्वेषां स्वरूपवत्त्वं सादृश्यं सिद्ध्यत्येव । पदार्था हि सर्व्वे तुच्छभिन्ना इति तुच्छभिन्नत्वमेव तेषां सादृश्यम् ।
तुच्छस्तु न तार्किकनये पदार्थो , ज्ञानाविषयत्वात् । अन्ये सर्व्वे ज्ञानविषया इत्यपि तेषां सादृश्यम् ।
मन्मते स्वरूपवत्त्वं(स्वरूपं) तत्तद्व्यक्तित्वं वा जातिर्वा सम्भवति । तुच्छस्य तदुभयं नास्ति ।
वेदान्तिनोपि तुच्छस्य ज्ञानविषयत्वं नाङ्गीकुर्व्वन्ति , तथात्वे अनिर्व्वचनीयत्वापातात् = व्यावहारिकप्रातिभासिकत्वान्यतरत्वापातात् ।
किञ्च तेषु केचन नेह नानेतिश्रुत्या प्रपञ्चस्यालीकत्वभयेन स्वरूपेण निषेधमनङ्गीकुर्व्वन्तः सत्यत्वेन निषेधमत एव असाधयन् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me